भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 484, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 484

वि० ध० द्वि० खं० अ० ६१

ममेदमिति यो ब्रूयादनुक्तो यथाविधि ॥ ४३ ॥ संवाद्य रूपं द्रव्यादीन्त्स्वामी तद्द्रव्यमर्हति ॥ अवेद्यानो नष्टस्य देशं कालं च तत्त्वतः ॥ ४४ ॥ वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥ निधिवद्भग्नभाण्डान्नष्टनाधिगतान्नृपः ॥ ४५ ॥ बालदायादिकं रिक्थं तावद्राजा तु पालयेत् ॥ यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ ४६ ॥ बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च ॥ पतिव्रतासु च स्त्रीषु विधवास्वात्मनासु च ॥ ४७ ॥ जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः ॥ ताञ्छिष्याच्चोरदण्डेन धार्मिकः पृथिवीपतिः ॥ ४८ ॥ सर्वेषामेव वर्णानां चौरपहृतं धनम् ॥ तत्प्रमाणं स्वकोशाद्वाद्यात्स्वाम्यमविचार्यन् ॥ ४९ ॥ ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा ॥ चौरशक्त्यतिरिक्तो राजापि तदवाप्नुयात् ॥ ५० ॥ अहते च तथा वित्ते ह्यमित्यैव वादिनम् ॥ निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्दिवासयेत् ॥ ५१ ॥ न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ॥ प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥ ५२ ॥ स्वराष्ट्रात्पण्यादाद्याद्राज्ञा विंशतिमं द्विज ॥ शुल्कंशं परदेशाच्च निबोध गदतो मम ॥ ५३ ॥ क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम ! ॥ ज्ञात्वा तु कल्पयेत्तत्र शुल्कंशं पृथिवीपतिः ॥ ५४ ॥ तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः ॥ पुण्यच्छेद्येष्व नैव स्यात्सर्वदेशे पृथिवीपतेः ॥ ५५ ॥ व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज ॥ विंशांशभागमादद्याद् षण्णीया अतोऽन्यथा ॥ ५६ ॥ दिशि दिश्येवमेव स्याच्छुल्कस्थानं नृपस्य तु ॥ तदतिक्रमतौ द्रव्यं राजाऽपि विधीयते ॥ ५७ ॥ दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ॥ स्त्रीणां प्रब्रजितानां च तारशुल्कं विवर्जयेत् ॥ ५८ ॥ मित्रक्रोपार्पणं शुल्कं न ग्राह्यं पृथिवीक्षिता ॥ तारेषु दद्याद्दोषेण नष्टं दाशात्प्रदापयेत् ॥ ५९ ॥ देवदोपविनष्टं च नष्टं यस्यैव तस्य तत् ॥ शूद्रकान्येषु षड्भागं शिल्पिविधयेथचथाष्टकम् ॥ ६० ॥ राजा यत्पञ्चमाद्वादेशकालाद्यनुरूपकम् ॥ राजोशभागमादद्याद्राज्ञा पशुहिरण्ययोः ॥ ६१ ॥ गन्धौषधिरसानांता च पुष्पमूलफलस्य च ॥ पत्राकत्णतृणानां च वत्सरेण च चर्मणाम् ॥ ६२ ॥ वैदलानां च भांडानां सर्वस्याश्ममयस्य च ॥ षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम् ॥ ६३ ॥ तेभ्यस्तद्धर्मलोभेन राज्ञो लाभः परं भवेत् ॥ न च क्षुधावसीदेत श्रोत्रियो विषये वसन् ॥ ६४ ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दर्मिक्षव्याधितस्करैः ॥ ६५ ॥ श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥ रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम् ॥ ६६ ॥ संरक्ष्यमाणो राजा यः कुरुते धर्मसंग्रहम् ॥ तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ ६७ ॥ कर्म कुर्वन्नेरेन्द्रस्य मासेनैकं च शिल्पिनः ॥ भक्तमात्रेण ये चान्ये स्वशरी

॥२१८॥