विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 486, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ २११॥ द्वि० पं० अ० ६२. ॥२११॥
च मण्डनम् ॥ या सा विरक्ता च निवेद्य गदतो मम ॥ २३ ॥ दृष्ट्वैव रुष्टा भवति वीक्षते च पराङ्मुखम् ॥ दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम् ॥ २४ ॥ तथाऽप्यावर्तयत्येति नैव शक्नोत्यशेषतः ॥ विवृणोति तथाऽङ्गानि सुगुह्यान्यपि भार्गव ॥ २५ ॥ गर्हितं च तथैवांगं प्रयत्नेन विगूहते ॥ तद्दर्शनेन कुरुते बाललिङ्गनचुम्बनम् ॥ २६ ॥ आभाष्यमाणा भवति स्रस्तवाक्या तथैव च ॥ स्पृष्टा पुलकितैरंगैः सस्वेदैर्वापि भज्यते ॥ २७ ॥ करोति च तथा राम दुर्लभाद्रव्ययाचनम् ॥ ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम् ॥ २८ ॥ नाम संकीर्त्तनादेव मुदिता बहु मन्यते ॥ नखाङ्कितान्यन्यस्य फलानि प्रेषयत्यपि ॥ २९ ॥ तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात् ॥ आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च ॥ ३० ॥ सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते ॥ ऊरू स्पृशति चात्यर्थं सुतं चैनं विचुम्बते ॥ ३१ ॥ एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः ॥ दानं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः ॥ ३२ ॥ स्वीकर्तुमिच्छन्बालायाः क्रीडनानि तथैव च ॥ गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत् ॥ ३३ ॥ वस्त्रभूषणदानेन तथा यौवनविच्युताम् ॥ क्रीडासाधुप्रिया बाला तथा यौवनविच्युता ॥ ३४ ॥ रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया ॥ आत्मसंभावना स्त्रीषु न कर्तव्या कथञ्चन ॥ ३५ ॥ असूया जायतेऽत्यर्थमात्मसंभाविते नरे ॥ न चासां दर्शनं देयं न चात्यन्तप्रदर्शनम् ॥ ३६ ॥ उभयेनापि चेतांसि या तूत्कण्ठा तु विहन्यते ॥ स्पर्शैः सुविहितैर्भोगैर्गन्धधूपैश्च कौशलैः ॥ कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु ॥ ३७ ॥ एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः ॥ तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारजाताद्य सदासपत्नः ॥३८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः ॥ ६२॥
राम उवाच ॥ कल्पना भोजनादीनां गन्धानां या च कल्पना ॥ तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर ॥१॥
पुष्कर उवाच ॥ भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च ॥ कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता ॥ २ ॥ अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु ॥ कटूतोयेनोदकं कार्यं शोधितानामसंशयम् ॥ ३ ॥ पुराणानान्त्वजातीनां गन्धमाशु विनश्यति ॥ श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने ॥ ४ ॥ मांसं काठिन्यमायाति कोमलं चार्द्रिकांबुना ॥ वरुणक्षारसंयोगात् त्यक्त्वास्थि विलीयते ॥ ५ ॥ गण्डिकाभिः पलाशस्य क्षीरमायाति पक्कताम् ॥ कपित्थचूर्णयोगेन तथा चैव सुजातकैः ॥ ६ ॥ घृतैः सुगन्धी भवति दग्धैः क्षीरमस्तथा यवैः ॥ पद्मवारिणि योगेन काञ्जिकास्याम्लता भवेत् ॥ ७ ॥ गुडान्नं शुद्धिमाप्नोति क्षीरेण च तथा युतम् ॥ पद्मरागसमं वर्णं चास्रस्य तथा...