भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 487, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 487

प्रजायते ॥ ८ ॥ पानकानां महाभाग यस्याप्यन्यस्य चेच्छति ॥ क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ॥ ९ ॥ लवणाधिकविक्षेपं संजातविरसं ध्रुवम् ॥ सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ १० ॥ चणकक्षारयोगेन पुष्पाणि च फलानि च ॥ सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ॥ ११ ॥ गन्धवर्णरसार्थानं पानकादिषु सर्वतः ॥ यथाकालं यथादेशं यथासात्म्यं च कारयेत् ॥ १२ ॥ नात्यर्थदा तेन हुताशनेन नात्यन्तसन्देन च साध्यमन्नम् ॥ रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पने नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ पुष्कर उवाच ॥ शोधनं वसनं चैव तथैव च विरेचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा ॥ १ ॥ वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ कपित्थबिल्वजम्ब्वाम्रबीजपूरकप ल्लवैः ॥ २ ॥ कृतोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत् ॥ तेषामभावे शौचं तु मृत्दृशद्भिर्मसा भवेत् ॥ ३ ॥ तदभावे तु कर्तव्यं तदा मु स्ताम्भसा द्विज ॥ शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा ॥ ४ ॥ प्रक्षालितं चाप्यसकृन्निर्मलं तत्प्रकीर्तितम् ॥ पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः ॥ ५ ॥ द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा ॥ ६ ॥ तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत् ॥ शोषितं शोधयेत्तद्वद्विरेकं तत्प्रकीर्तितम् ॥ ७ ॥ ततस्तु गन्धद्रव्येण यथेष्टं कुसुमादिना ॥ भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता ॥ ८ ॥ तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा ॥ आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत् ॥ ९ ॥ मृदा पिहितसत्त्वौ तु मृण्मये भाजनेद्वये ॥ विपचेत्तु विधूमाग्नावतंधूमः पुनःपुनः ॥ १० ॥ तावेव क्वाथयेत्तावत्तावच्चैवानुगतो रसः ॥ एतत्पाकविधानं ते पञ्चमं परिकीर्तितम् ॥ ११ ॥ ततस्तु भावनाद्द्रव्यं कल्कीपिष्टं नियोजयेत् ॥ कल्कीपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम् ॥ १२ ॥ ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया ॥ ततस्तु गुरुशुक्त्यर्थं चन्दनागरुभिमस्ततः ॥ १३ ॥ कर्पूरमृगदर्पाभ्यां ततश्चैवं प्रधूपयेत् ॥ इत्येतद्वासनं राम कर्म तेऽभिहितं मया ॥ १४ ॥ ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः ॥ पुष्पैरैर्वकुलजातीनां तथान्यैर्वा सुगन्धिभिः ॥ १५ ॥ छायासु शोष्यमाणस्य वासना क्रियते तु या ॥ वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम् ॥ १६ ॥ कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा ॥ सुप्ते शेल्यंकं वापि सेव्यं वा द्विजसत्तम ॥ १७ ॥ शोधयेद्वह्निको विद्याद्ध्यान्यत्कर्मसेत्स्यति ॥ निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम् ॥ १८ ॥ विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव ॥ अशोधितेस्तथा धूपाः कार्या द्रव्यैस्तथाविधि ॥ १९ ॥ अतः परं तु ते योगाञ्कञ्चिद्वक्ष्यामि ताञ्शृणु ॥