विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 489, कुल 1001 में से
संदर्भ में पढ़ेंअपरमपि च यावत्कामामोदमदं भ्रमदलिपटेलेन व्याप्यते वक्त्रभागः ॥४६॥ इतिश्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपा- ख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः ॥६४॥ पुष्कर उवाच ॥ एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ॥ न चैनां विश्वसेज्जातु पुत्रमात्रावि- शेषतः ॥ १ ॥ न स्वपेत्सद्मोगृहे रात्रौ विश्वासं कृत्रिमं भजेत् ॥ राजपुत्रस्य रक्षा च कर्तव्या पृथिविक्षिता ॥ २ ॥ आचार्याश्चास्य कर्तव्यं नि- त्यं युक्तस्य रक्षणम् ॥ धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत् ॥ ३॥ रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥ शिल्पानि शिक्षयेच्चैवमसिमीम- थ्या प्रियंवदैः ॥ ४ ॥ शरीररक्षायोजेन रक्षिणोऽस्य नियोजयेत् ॥ न चास्य सङ्गो दातव्यः क्रुद्धलुब्धाभिमानितैः ॥ ५ ॥ तथा च विनयेदेनं यथायौवनगं सुखै ॥ विषयैर्यैन रूप्येत सतां मार्गानुसुर्गमात् ॥ ६ ॥ गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः ॥ बन्धनं तस्य॑ कर्तव्यं गुप्तदेशे सुखान्वितम् ॥ ७ ॥ अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ॥ ८ ॥ आदौ स्व- ल्पे ततः पश्चात्कर्मेणाय महत्यपि ॥ मृगयापानमक्षांश्च वर्जयेच्च महीपतिः ॥ ९ ॥ एतान्यसेवमानास्तु विनष्टाः पृथिवीक्षितः ॥ बहवो भृगु- शार्दूल येषां संख्या न विद्यते ॥ १० ॥ दिवास्वापं वृथा वादं विशेषेण विवर्जयेत् ॥ वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ॥ ११॥ परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥ अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत् ॥ १२ ॥ अर्थानां दूषणं चैकं तथा चार्थेन दूषणम् ॥ प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया ॥ १३ ॥ अर्थानां दूषणं प्रोक्तं विप्रकीर्णोत्समैव च ॥ अदेशकाले यद्दानमपात्रे दानमेव च ॥१४॥ अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम् ॥ कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च ॥ १५ ॥ जेतव्यमरिषड्गोऽयंमादृस्तु पृथिवीक्षिताम् ॥ एतेषां विजयं कृत्वा कार्यों भृत्यजयस्ततः ॥ १६ ॥ कृत्वा भृत्यजयं राजा पौरजानपदान्जयेत् ॥ कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो ज- येत् ॥ १७ ॥ बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः ॥ गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ॥ १८ ॥ पितृपैतामहं मित्रमा- त्माश्रितश्च तथा रिपोः ॥ कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते ॥ १९ ॥ तथापि च गुरुः पूर्वं भवेत्तच्चापि चारितम् ॥ स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च ॥ २०॥ कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ सप्ताङ्गस्यापि राज्यस्य मूले स्वामी प्रकीर्तितः ॥ २१ ॥ तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥ षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः ॥ २२ ॥ ॥ अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरेदल्पधीः ॥ वधस्तस्य तु कर्तव्यः शीघ्रमैव महीक्षिता ॥ २३ ॥ न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥ न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥ २४ ॥