भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 490, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 490

कालेमृद्वयो भवति काले भवति दारुणः ॥ राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥ २५ ॥ भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥ भृत्याः परिभवन्तीह नृपं हर्षोत्सिक्तं ध्रुवम् ॥ २६ ॥ व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ॥ लोकसंग्रहणार्थाय कृतव्यसनी भवेत् ॥ ॥ २७ ॥ शौण्डीर्यस्य नरेन्द्रस्य नित्यमुद्विग्नचेतसः ॥ जनो विरागमायाति सदा दुःखभयाद्भवतः ॥ २८ ॥ स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः ॥ मध्येष्वपि महाभाग भुकुटिं न समाचरेत् ॥ २९ ॥ भव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ॥ स्थूललक्ष्यस्य वशगा सर्वा भ- वति मेदिनी ॥ ३० ॥ अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ॥ दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ ३१ ॥ रणे दर्पे च माने च द्रोहे पापे च कर्मणि ॥ अमित्र्ये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ॥ ३२ ॥ राज्ञा संवृतमन्त्रेण संभाव्यं द्विजसत्तम ॥ तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः ॥ ३३ ॥ कृतान्त्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः ॥ नारब्धानि महाभाग तस्य स्याद्वसुधा वशे ॥ ३४ ॥ मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ॥ कर्तव्यः पृथिवीपालेन्मैत्रभेदभयात्सदा ॥ ३५ ॥ मन्त्रवित्साधितो मन्त्रः संयतानां सुखाव- हः ॥ मन्त्रभेदेन बहवो विनष्टाः पृथिवीक्षितः ॥ ३६ ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥ नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं म- नः ॥ ३७ ॥ न यस्य कुशलेतस्य वशे सर्वा वसुन्धरा ॥ मन्त्रयेत महीभर्तुः सदा भार्गवनन्दन ॥ ३८ ॥ नैकस्तु मन्त्रयेन्मन्त्रं न राजा ब- हुभिः सह ॥ बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान्पृथक्पृथक् ॥ ३९ ॥ मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनम् ॥ कश्चित्कश्चिश्च वि- श्वास्यो भवतीह सदा नृणाम् ॥ ४० ॥ निश्चयश्च तथा मन्त्री कार्ये एकेन सूरिणा ॥ भवेद्वा निश्चयावाप्तिः पृथग्बुद्ध्युपजीवनात् ॥ ४१ ॥ एकस्यैव महीभर्तुर्यः कार्यं सुनिश्चितम् ॥ ब्राह्मणान्नुपधातीताञ्ज्ञेयं राम सुनीतितः ॥ ४२ ॥ नास्त्यद्धा क्रियतामृद्धेस्ते हि लोकस्य कण्टकाः ॥ वृद्धांश्च नित्यं सेवेत विद्यावेदविदः शुचीन् ॥ ४३ ॥ तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ॥ सर्वां वशगां कुर्या- त्पृथिवीं नात्र संशयः ॥ ४४ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ॥ वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ॥ ४५ ॥ त्रैविद्ये- भ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम् ॥ आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः ॥ ४६ ॥ इन्द्रियाणां जये योगं समातिष्ठेद्दिवा- निशम् ॥ जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ४७ ॥ यजेत राजा क्रतुभिर्बहुभिर्भूरिदक्षिणैः ॥ धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगां-


१ 'कर्त्तव्ये' इति ख० ।