भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 491, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 491

न्धनानि च ॥४८॥ सांवत्सरिकैरुक्तैश्च राष्ट्रादाहारयेद्द्बलिम् ॥स्याच्चाश्राव्यपरो लोके वर्तेत पितृवन्नृषु ॥ ४९॥ आवृतानां गुरुकुलाद्द्विजानां पूजनं भवेत्॥नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ॥५०॥न तं स्तेना नान्यमित्रा हरन्ति न च नश्यति॥तस्माद्राज्ञा निधातव्यो ब्राह्मणेऽक्षय्यो निधिः ॥ ५१ ॥ समोत्तमाधमै राजा ह्वातव्यः पालयन्प्रजाः ॥ न निवर्तेत संग्रामात्क्षात्रं व्रतमनुस्मरन् ५२॥ संग्रामे वर्द्धयेद्वित्तं प्रजानां परिपालनम् ॥ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ५३॥ कृपणानां च वृद्धानां विवशानां च योषिताम् ॥ योगं क्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥ ॥ ५४ ॥ वर्णाश्रमव्यवस्था तु तथा कार्या विशेषतः ॥ स्वधर्मप्रच्युतान्राजा स्वधर्मे विनियोजयेत् ॥ ५५ ॥ आश्रमेषु यथाकालं तेषां भोजनभोजनम् ॥ स्वयमेव नयेद्राजा सत्कृतान्रवमन्य च ॥ ५६ ॥ तापसे सर्वकार्याणि राज्यमात्मानमेव च ॥ निवेदयेत्प्रयत्नेन दैववच्चैन मर्चयेत् ॥ ५७ ॥ द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ॥ शठाञ्ज्ञात्वा न सेवेत प्रतिबोध्य तदा गतान् ॥ ५८ ॥ नास्यच्छिद्रं परो विद्याच्छिद्रं परस्य तु ॥ गूहेत्कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ५९ ॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥ विश्वासाद् यमुत्पन्नं मूलन्यपि निकृन्तति ॥ ६० ॥ विश्वसनीयश्चापि परं तत्त्वभूतेन हेतुना ॥ बकवच्चिन्तयेदर्थाञ्छिंहवच्च पराक्रमेत् ॥ ६१ ॥ वृकवच्चा वलुम्पेत शशवच्च विनिष्पतेत् ॥ दृढप्रहारी च भवेत्तथा सुकवचोन्नृपः ॥ ६२ ॥ चित्राकारश्च विविधैर्बद्धदृढभक्तस्तथान्धवत् ॥ मंचेव मधुरा भाषी शुककोकिलवन्नृपः ॥ ६३ ॥ काकरक्षी भवेन्नित्यमसङ्घातवसतिं वसेत् ॥ नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत् ॥ ६४ ॥ वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ॥ न गाहेज्जनसंबाधं न चाज्ञातं जलाशयम् ॥ ६५ ॥ नापरीक्षितपूर्वस्तु पुरुषैराप्तकारिभिः ॥ नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ॥ ६६ ॥ नाविज्ञातां स्त्रियं गच्छेद्वैव चाज्ञाभवामसम् ॥ नारोहेद्विपमां नावं नाप रीक्षितनाविकाम् ॥ ६७ ॥ ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ॥ तानानयेद्वशं सर्वान्साम्रादिभिरुपक्रमैः ॥ ६८॥ यथा न स्यात्कृशो भावः प्रजानामन्वेक्षया ॥ तथा राज्ञा विधातव्यं स्वराष्ट्रं परिरक्षता ॥ ६९ ॥ मोहाद्राजा स्वराष्ट्रं यत्कर्पयत्यन्वेक्षया ॥ सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥ ७० ॥ भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ॥ तथा राष्ट्रं महाभाग भृतं कर्ममहद्भवेत् ॥ ७१ ॥ यो राष्ट्रमनुगृह्णाति राजा सुपरिरक्षति ॥ तं प्रजाओपजीवन्ति विन्दते सुमहत्फलम् ॥ ७२ ॥ दुग्धाद्धिरणयं धान्यं च मही राज्ञा सुरक्षिता ॥ नित्यं स्वेभ्यः परेभ्यश्च माता यथा पिता ॥ ७३ ॥ गोपिनो हि सदा कार्यः संविभागः प्रियाणि च ॥ अजस्रमुपयोक्तव्यं फलं तेभ्य