भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 492, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 492

स्तथैव च ॥ ७४ ॥ सर्वं कर्मेदमत्रायत्तं विधानं चैव पौरुषम् ॥ तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥ ७५ ॥ एवं नहीं पाल्यतोऽस्य भर्त्तुर्लोकानुरागः परमो भवेत्॥लोकानुरागप्रभवा हि लक्ष्मीर्लक्ष्म्या भवेच्चैव परश्च लोकः ॥७६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०राम पुष्करसंवादे राजधर्मवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ॥६५॥ राम उवाच ॥ दैवे पुरुषकारे च किं ज्यायस्तद्वदस्व मे ॥ अत्र मे संशयो देव संशयच्छि- द्विदां वर ॥ १ ॥ पुष्कर उवाच ॥ स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ॥ तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥२॥ प्रतिकूले तथा देवे पौरुषेण विहन्यते॥ मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥३॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ॥ पौरुषेण विना तेषां केषाञ्चिदृश्य- ते फलम् ॥ ४ ॥ कर्मणा प्राप्यते लोके राजन्सत्यक्तया फलम् ॥ पौरुषेणाप्यते राम मार्गितव्यं फलं नरैः ॥ ५ ॥ दैवमेव न जानन्ति नरः पौरुषवर्जितः ॥ तस्मात्सत्कार्ययुक्तस्य दैवं तु सफलं भवेत् ॥ ६ ॥ पौरुषं चैव सम्पत्त्या काले फलति भार्गव ॥ दैवं पुरुपकारश्च कालश्च मनुजोत्तम ॥ ७ ॥ अयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ॥ ८ ॥ तास्तु कालेन दृश्यन्ते नैवकाले कथञ्चन ॥ तस्मात्सर्वप्रयत्नेन कर्तव्यं पौरुषं नृभिः ॥ ९ ॥ विपत्तावपि यत्नेष्टे परलोके फलं ध्रुवम् ॥ नालसाः प्राप्नुवन्त्य- र्थान् न दैवपरापणाः ॥ तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥१०॥ त्यक्तालसान्दैवपराननुत्थानयुतान्नरान्।नृपाणिह लक्ष्मीः॥ अन्ववे- त्य यत्नादवृणुते द्विजेंद्र तस्मात्सुयत्नवता हि भाव्यम्॥ ११॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे पुरुषकाराध्यायो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ राम उवाच ॥ उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ॥ लक्षणं च तथा तेषां प्रयोगं वरुणात्मज ॥ १ ॥ पुष्कर उवाच ॥ सामभेदौ तथा दानं दण्डं च मनुजोत्तम ॥ उपेक्षा च तथा माया इन्द्रजालञ्च भार्गव ॥ २ ॥ प्रयोगाः कथिताः सप्त तन्ये निगदतः शृणु ॥ द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ ३ ॥ तत्रायतथ्यं साधूनामाक्रोशाद्यैव जायते ॥ तच्च साधुप्रियं ते च सा- मसाथ्या न राम ते ॥ ४ ॥ महाकुलीना ऋजवो धर्मनिष्ठा जितेन्द्रियाः ॥ सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ ५ ॥ तथ्यं च साम कर्तव्यं कुलशीलादिवर्णनम् ॥ तथा तदुभयं राम कृतानां चैव वर्णना॥६॥अनथ्येव तथा युक्ता कृतज्ञाख्यापनं स्वकम् ॥ एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः ॥ ७ ॥ साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ॥ तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ ८ ॥ अतिसन्धित्सुकमि- त्येव पुरुषं सामवादिनम् ॥ असाधवो विजानन्ति तस्मात्तेषु विवर्जयेत्॥९॥ ये शुद्धवंशा ऋजवः प्रतीता धर्मे स्थिताः सत्यपरा विनीताः ॥