विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 493, कुल 1001 में से
संदर्भ में पढ़ेंते सामसाध्याः प्रदिष्टा मानोन्नता ये सततं च राम ॥ १०॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे सामविधिविर्नी म सप्तषष्टितमोऽध्यायः ॥६७॥ पुष्कर उवाच ॥ परस्परं तु ये दुष्टाः क्रुद्धा भीताश्चमानिताः ॥ तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ १ ॥ ये तु येनैव दोषेण परस्माद्भृशं बिभ्यति ॥ ते तु तद्दोषपालेन भेदनीया भृशं ततः ॥ २ ॥ आत्मीयाद्देश्यदेशांशं परस्माद्दर्शयेद्रथम् ॥ एवं हि भेदयोद्भ्रान्त्यान्वयावद्रशमानयेत ॥ ३ ॥ संहिताव हि विना भेदं शक्रेणापि सुदुःसहा ॥ भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥४॥ स्वसुखेनाथ यद्भेदं भेदं परसुखेन च ॥ परीक्ष्य साधु मन्येत भेदं परसुखावहमुत्तमम् ॥ ५ ॥ भेद्या स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ॥ भेदितास्ते विनिर्दिष्टा नैव राजाथवादिभिः ॥ ६ ॥ अन्तःकोपस्तथा कोपो यत्र स्यात्तां महीक्षिताम् ॥ अन्तःकोपो महांस्तत्र नाशनः पृथिवी क्षिताम् ॥ ७ ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः ॥ महिषीयुवराजाभ्यां तथा सेनापतेर्द्विज ॥ ८ ॥ अमात्याभ्यन्तरिषु चाथ राजपुत्रांस्तथैव च ॥ अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥ ९ ॥ बहिःकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ॥ शुद्धान्तस्तु महाभाग शीघ्रमेव जयेदरीन् ॥ १० ॥ अपि शक्रसमो राजा कोपेनान्तर्विनश्यति ॥ स्वान्तःकोपं प्रयत्नेन तस्माद्यत्नेन परीक्षेत ॥ ११ ॥ परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ॥ स्पृश्यैश्च प्रयत्नेन ज्ञातिभेदस्तथात्मनः ॥ १२ ॥ ज्ञातयः परित प्यन्ते सततं यद्यपि श्रिया ॥ तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा ॥ १३ ॥ ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः॥ नाज्ञातिरतुलङ्घातिः स्नेहमृच्छति ॥१४॥ ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः॥१५॥भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजी ॥ सुसंहितेनाथ ततस्तु भेदः कार्यों रिपूणां नयशास्त्रविद्भिः ॥१६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भेदविधानन्नामा ष्टषष्टितमोऽध्यायः ॥६८॥ पुष्कर उवाच ॥ सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ॥ सुदत्तेनैव भवति दानेनेहपरलोकजित् ॥१॥ स नास्ति रात्र दानेन वशगो यो न जायते ॥ दानवान्गोचरं नैति तथा रामापदां क्वचित् ॥ २ ॥ दानवानेव शक्नोति संहतान्भेत्तुं परान् ॥ यद्यप्युल्लङ्घ्या गम्भीराः पुरुषाः सागरोपमाः ॥३॥ न गृह्णंति तथाप्येते जायन्ते पक्षपातिनः ॥ अन्यत्रापि कृतं दानं करोत्यन्यस्तथा परैः ॥ ॥ ४ ॥ उपायेभ्यः प्रयच्छंति दानं श्रेष्ठतमं नराः ॥ दानं सर्वेभ्यः श्रेष्ठं दानं श्रेयस्करं परम् ॥ ५ ॥ दानवानेव लोकेषु पुत्रवत्प्रीयते सदा ॥ न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीर ॥ जयन्ति ते राम सुरेन्द्रलोकं सुदुर्जयं यद्विबुधाधिवासम् ॥ ६॥ इति श्रीविष्णुधर्मोत्तरे
३८