विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
DevanagariHindipublished1,001 पृष्ठ
पृष्ठ 494, कुल 1001 में से
संदर्भ में पढ़ेंपृष्ठ 494
द्वितीयरखण्डे मा०सं० रामपुष्करसंवादे दानविघ्निनेकोनसप्ततितमोऽध्यायः ॥६९॥ पुष्कर उवाच ॥ न शक्या ये स्वयं कर्तुं चोपायाश्चितयेन तु॥
दण्डेन तान्वशीकुर्याद्दण्डो हि वशकृत्परः ॥ १ ॥ सम्यक्प्रणयनं तस्य सदा कार्यं महीक्षिता ॥ धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥ २ ॥
तस्य सम्यक्प्रणयनं त्रिदशानपि पीडयेत् ॥ वानप्रस्थांश्च धर्मज्ञ निर्देशान्प्रिपितामहान् ॥ ३ ॥ स्वदेशे परदेशे च धर्मशास्त्रविशारदाः ॥
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥४॥ आश्रमी यदि वा वर्णी पूज्योऽथाथ गुरुर्महान्॥ नादण्ड्यो राम राजा यः स्वधर्मे न तिष्ठति॥५॥
अदण्ड्यान्दण्डयन्नराजा दण्ड्याँश्चैवाप्यदण्डयन् ॥ इह राज्यपरिश्रंशो नरकं प्रतिपद्यते ॥ ६ ॥ तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः ॥ दण्ड
प्रणयनं कार्यं लोकातुग्रहकाम्यया ॥ ७ ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ॥ प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ८ ॥
बालवृद्धातुरयतिद्विजातिविकलाबलाः ॥ मत्स्यन्यायेन भक्ष्यन्दि दण्डो न पालयेत् ॥ ९ ॥ देवदैत्योरगनराः सिद्धभूतापत
त्रिणः ॥ उत्क्रामेयुः स्वमर्यादां यदि दण्डो न पालयेत् ॥ १० ॥ एष ब्रह्माशिराश्चैव सर्वदेवगणेषु च ॥ सर्वविक्रमकोपोष्ठु व्यवस्थाये च तिष्ठति
॥ ११ ॥ पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥ न ब्राह्मणं न धातारं न पूषार्यमणावपि ॥ १२ ॥ यजन्ते मानवाः केचित्प्रशान्ताः
सर्वकर्मसु ॥ रुद्रमग्निं च शक्रं च सूर्य्याचन्द्रमसौ तथा ॥ १३ ॥ विष्णुं देवगणैश्चान्यै र्दण्डिनः पूजयन्ति हि ॥ दण्डः शास्ति प्रजाः
सर्वा दण्ड एवाभिरक्षति ॥ १४ ॥ दण्डः सुप्तेषु जागर्ति धर्मं धर्मं विदुधुर्याः ॥ राजदण्डभयादेव पापाः पापं न कुर्वते ॥ १५ ॥ यमद
ण्डभयादन्ये परस्परभयादपि ॥ एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ १६ ॥ अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥
तस्माद्दम्यन्दमयाति उदण्डान्दण्डयत्यपि ॥ १७ ॥ दमनाद्दण्डनोच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ दण्डस्य भीतिर्विद्वद्भिः समस्तेनापि धृतः सुलचर
स्य यज्ञे ॥ चक्रुः कुमारं ध्वजनीपतिं च कं रिशूनां च भयाद्दक्लस्यम् ॥ १८ ॥ इति श्रीविष्णुधर्मात्तरे द्वितीयखण्डे मा०सं० पुष्करोपाख्यानेषु
दण्डप्रशंसा नाम सप्ततितमोऽध्यायः ॥ ७० ॥ राम उवाच ॥ दण्डप्रणयनार्थाय राजा सृष्टः स्वयंभुवा ॥ देवभागादुपादाय सर्वभूताभिगुप्तये ॥
॥ १ ॥ तेजसा यदयं कश्चिन्न शक्नोति वीक्षितुम् ॥ तदा भवति लोकेषु राजा भास्कनवद्युतिः ॥ २ ॥ यदस्य दर्शने लोकः प्रसादमुपग
च्छति ॥ नयनानन्दकारित्वात्तदा भवति चन्द्रमाः ॥ ३ ॥ चारैर्हृदयं व्याप्नोति सर्वलोकं यदृच्छया ॥ तदा भवति लोकेषु राजा देवः समी
रणः ॥ ४ ॥ यदाऽपराधिनं चैव विधत्ते निग्रहं नृपः ॥ तदा भवति लोकेषु राजा वैवस्वतः सदा ॥ ५ ॥ यदा भवति माहात्म्याल्लक्ष्म्या