विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 496, कुल 1001 में से
संदर्भ में पढ़ेंद्वि० खं० अ० ७२
कुर्वाणांश्चान्विच्छन्नार्थ्यामिको नृपः ॥ प्रमापयेन्महाभागं ब्राह्मणं तु विवासयेत ॥ १६ ॥ यत्स्वामिनाननुज्ञातमाधिं भुंक्ते विचक्षणः ॥ अवध्यमूलं कर्त्तव्यं तस्य दण्डं महीक्षिता ॥ वसा..........तथा धर्मो न हीयते ॥ १७ ॥ यो निक्षेपं याच्यति यश्च निक्षिप्य याचते ॥ तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं धनम् ॥ १८ ॥ उपाधिमिश्च यः कश्चित्परद्रव्यं हरेन्नरः ॥ ससहायः स हन्तव्यः प्रकाशं विविधै र्वधैः ॥ १९ ॥ यो याचितकमादाय न तद्दद्याद्यथाक्रमम् ॥ स निगृह्य बलाद्दाप्यो दण्ड्यो वै पूर्वसाहसम् ॥ २० ॥ अज्ञानाद्यः प्रमाणात्कु र्यात्परद्रव्यस्य विक्रयम् ॥ निर्दोषो ज्ञानपर्यन्तं चौरवद्दण्डमर्हति ॥ २१ ॥ मूल्यामादाय यो विद्यां शिल्पं वा न प्रयच्छति ॥ दण्ड्यः समूलं सकलं धर्मज्ञेन महीक्षिता ॥ २२ ॥ द्विजभोज्ये तु सम्प्राप्ते प्रतिवेश्यमभोजनम् ॥ हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यतिक्रमः ॥ २३ ॥ आमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे ॥ निष्कारणं न गच्छेद्वः स दाप्योऽष्टशतं दमम् ॥ २४ ॥ प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ॥ ॥ २५ ॥ भूतोन्नातो न कुर्याद्यो दर्पात्कर्म यथोदितम् ॥ स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥ २६ ॥ अकाले यस्त्यजेद्दास्यं दण्ड्यः स्यात्तावदेव तु ॥ यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ॥ विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत ॥ २७ ॥ क्रीत्वा विक्रीय वा किञ्चिद्यस्यानुशयो भवेत् ॥ सोन्तर्दशाहात्तत्साम्याद्दद्याच्चैवाददीत च ॥ २८ ॥ परेण तु दशाहास्य न दद्यान्नैव दापयेत् ॥ आददानोद्ददच्चैव राज्ञा दण्ड्यः शतानि षट् ॥ २९ ॥ यस्तु दोषवतीं कन्यां त्वनाख्याय प्रयच्छति ॥ तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिः पणान् ॥ ३० ॥ अकन्येति तु यः कन्यां ब्रूयाद्देषेण मानवः ॥ स शतं प्राप्नुयाद्दण्डं कन्यादोषमदर्शयन् ॥ ३१ ॥ यस्त्वन्यां दर्शयित्वाऽन्यां वोढुः कन्यां प्रयच्छति ॥ उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ ३२ ॥ वरो दोषानभिख्याय यः कन्यां वरयेदिह ॥ दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ ३३ ॥ प्रदाय कन्यां योऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥ दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ ३४ ॥ सत्यंकारेण वाचा च युक्तं पर्याप्तमं शयम् ॥ तुल्योऽन्यस्य तु विक्रेता षट्शतं दण्डमर्हति ॥ ३५ ॥ बह्वेन्दुल्के तु विक्रेता सत्यंकारं तु संत्यजेत् ॥ द्विगुणं दण्डयेद्देनमिति धर्मो व्यवस्थितः ॥ ३६ ॥ मूल्यैकदेशं दत्वा तु यदि क्रेता धनं त्यजेत् ॥ दण्ड्यः स मध्यमं दण्डं तस्य दण्डस्य मोक्षणात् ॥ ३७ ॥ दुग्धादृक्स्रस्तु यः पालं गृहीत्वा भक्तवेतनम् ॥ स तु दण्ड्यः शतं राजा सुवर्णं स्वाम्यदक्षिणा ॥ ॥ ३८ ॥ दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥ बद्धः कृत्यायसैः पाशैस्तस्य कर्मकरो भवेत् ॥ ३९ ॥ धनुश्शतःपरीमाणं ग्रामस्य तु
वि० ध० ॥२२॥ ॥२२४॥