भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 502, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 502

द्वि० सं० अ० ७२

णिनः ॥ १६६ ॥ प्राकारस्य तु भेत्तारं परिखानां च भेदकम् ॥ द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ॥ १६७ ॥ शुल्कमाभिचरंश्चैव कर्तव्यो द्विगुणो दमः ॥ अबीजबिक्री देवद्विजोत्कृष्टस्तथैव च ॥ १६८ ॥ मर्यादाभेदकश्चैव विकृतं वधमाप्नुयात् ॥ सर्वसङ्करपापिष्ठं हेमकारं नरा- धिपः ॥ १६९ ॥ अन्याये वर्तमाने तु लवशश्छेदयेच्छरैः ॥ द्रव्यमादाय वणिजामनर्घेणापरुन्धताम् ॥ १७० ॥ राजा पृथक्पृथक्कुर्याद्दण्डं मुत्तमसाहसम् ॥ द्व्याद्यापको यश्च प्रतिच्छन्दकविक्रयी ॥ १७१ ॥ मध्यमे प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमम् ॥ शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ॥ १७२ ॥ देवतानां सतीनां वै तूत्तमं दण्डमर्हति ॥ एकस्य दण्डपादस्तु बहूनां द्विगुणो दमः ॥ १७३ ॥ कलहापहृतं देयं दण्डश्च द्विगु- णस्ततः ॥ मध्यमं ब्राह्मणं राजा विषयाद्विप्रवासयेत् ॥ १७४ ॥ लशुनं च पलाण्डुं च सूकरं ग्रामकुक्कुटम् ॥ तथा पञ्चनखं सर्वं भक्ष्यादन्यच्च भक्षिणम् ॥ १७५ ॥ विवासयेत्क्षिप्रमेव बाह्मं विषयात्स्वकात् ॥ अभक्ष्यभक्षणे दण्ड्यः शूद्रो भवति कृष्णलम् ॥ १७६ ॥ ब्राह्मणाक्षत्रियविशां चतुर्द्विगुणं हितम् ॥ यः साहसं कारयति स दद्याद्द्विगुणं दमम् ॥ १७७ ॥ यश्चैवं कुर्याद् दाता कारयेत्स चतुर्गुणम् ॥ संदिदृष्टस्याप्रदातारं समु- द्धारभेदकम् ॥ १७८ ॥ पश्चात्तापिनमुक्तो दंस्तयोः कार्यो महीक्षिता ॥ अस्पृश्येषु शतार्द्धन्तु मद्यभाण्डो योगकर्मकृत् ॥ १७९ ॥ पुंस्त्वहर्ता पशूनां च दासीगर्भविनाशकृत् ॥ शूद्रप्रब्रजितानां च दैवे पित्र्ये च भोजकः ॥ १८०॥ अब्रजन्नाद्वसद्युक्तो च तथैव च निमन्त्रणात् ॥ एते कार्षा- पणशतं सर्वं दण्ड्या महीक्षिता ॥ १८१ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन् दण्ड्यस्तु कृष्णलम् ॥ पितापुत्रविरोधे तु साक्षिणां दिशतो दमः ॥ १८२ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च ॥ एभिश्च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥ १८३ ॥ विषाग्निदां पतिगुरुनिजा- पत्यप्रमापणीम् ॥ विकर्णेकनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ १८४ ॥ क्षेत्रवेश्मग्रामवननिवीतखलदाहकाः ॥ राजपत्न्याभिगामी च दग्ध- व्याश्च कटाग्निना ॥ १८५ ॥ ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ॥ पारदारिकचौरौ च मुञ्चतो दण्डमुत्तमम् ॥ १८६ ॥ अभक्ष्येण द्विजं दूष्य दण्ड्यस्तूत्तमसाहसम् ॥ क्षत्रियो मध्यमं वैश्यः प्रथमं शूद्रमर्द्धिकम् ॥ १८७॥ मृताङ्गविक्रेतुर्विक्रीतेरोगस्ताडयितुस्तथा ॥ राजयानासनारूढेर्दण्ड उत्तमसाहसः ॥ १८८ ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ॥ तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमम् ॥ १८९ ॥ आह्नानकारी वध्यः स्यादादूतमाह्वयन् ॥ दण्डिकस्य च यो हस्तादभियुक्तः पलायते ॥ १९० ॥ हीनः पुरुषकारेण तद्दद्याद्दाण्डिको धनम् ॥ प्रेष्यापराध-


१ 'यश्चैनमुत्साहयेत्तद्दापयेत्त चतुर्गुणम्' । इति ख० ।

॥२२७॥