विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 511, कुल 1001 में से
संदर्भ में पढ़ेंचण्डालकूपभाण्डेषु अज्ञानाद्यः पिबेज्जलम् ॥ १९५ ॥ द्विजः सान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनम् ॥ उच्छिष्टो यदि संस्पृष्टः शुना शूद्रेण वा द्विजः ॥ १९६ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ उच्छिष्टेन यदि स्पृष्ट उच्छिष्टो ब्राह्मणोत्तमः ॥ १९७ ॥ त्रिकालमाचरेत्स्नानं नक्तं भुंजीत वाग्यतः ॥ क्षत्रियेण तथा स्पृष्टः स्नानं नक्तं समाचरेत् ॥ १९८ ॥ स्पृष्टः सवर्णेनाचामेद्मध्ये स्पृष्टो यदि ॥ अहोरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ १९९॥ अध्वानं प्रस्थितो विप्रः कान्तारे यद्युदकं न चेत् ॥ पक्कानेन गृहीतेन मूत्रोच्चारं करोति वै ॥ २०० ॥ अनिक्षिप्यैव तद्द्रव्यं कृत्वांगे उत्तम स्थितम् ॥ शौचं कृत्वा यथान्यायंमुपविश्य यथाविधि ॥ २०१ ॥ अन्नमभ्युक्ष्यतोयेन उद्धृत्यार्कस्य दर्शयेत् ॥ अर्काभावेऽप्य- थामग्नौ वस्त्रस्तथाय प्रदर्शयेत् ॥२०२॥ त्यक्त्वा ग्रासत्रयं तस्माच्छेषं शुद्धिंमवाप्नुयात् ॥ म्लेच्छैर्हृतानां चौरैर्वा कान्तारे वा प्रवासिनाम्॥२०३॥ भक्ष्याभक्ष्यविशुद्ध्यर्थं तेषां वक्ष्यामि निष्कृतिम् ॥ पुनः प्राप्य स्वदेशं च वर्णानामनुपूर्वशः ॥ २०४ ॥ कृच्छ्रस्यार्धं ब्राह्मणस्तु पुनः संस्कारम- र्हति ॥ पादोनानेतं क्षत्रियस्तु अर्धार्थे वैश्य एव च ॥ २०५ ॥ पादं कृत्वा तथा शूद्रो दानं दत्त्वा विशुद्ध्यति ॥ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥ २०६ ॥ अहोरात्रोषिता सा च शुद्धा स्नानेन शुध्यति ॥ मूत्रे कृत्वा व्रजेन्मार्गं स्मृत्रिंशंआञ्जलं पिवेत् ॥ २०७ ॥ अहो रात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ (मूत्रोच्चारं द्विजः कृत्वाऽप्यकृत्वा शौचमात्मनः ॥ २०८ ॥ मोहाद्भुक्त्वा त्रिरात्रं तु यवान् पीत्वा विशु- ध्यति ॥) परित्यक्तमहापज्ञा प्रब्रज्याविच्युताश्च ये ॥२०९॥ अनाशकनिवृत्ताश्च तेषां शुद्धिः प्रवक्ष्यते ॥ चारयेत्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥ २१० ॥ जातकर्मदिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥ उपानहम्ममेध्यं वा चास्य संस्पृशते मुखम् ॥ २११ ॥ मृत्तिकागोमयौ तस्य पञ्चग- व्यं विशोधनम् ॥ वापम विक्रयं चैव नील्युत्थमुपजीवनम् ॥ २१२ ॥ पतनीयं हि विप्रस्य नीलसूत्रस्य धारणात् ॥ ( स्नानं दानं तपो होमः स्वा- ध्यायः पितृतर्पणम् ॥ २१३ ॥ वृथा तस्य महायज्ञा सूत्रमग्रस्य धारणात् ॥) नीलरक्तं यदा वस्त्रं द्विजोङ्गेषु हि धारयेत् ॥ २१४ ॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ नीलदारु यदा भज्येदब्राह्मणस्य तु पादयोः ॥ २१५ ॥ शोणितं दृश्यते चास्य द्विजश्चान्द्रायणं चरेत् ॥ वापितं यत्र नीलं तु तावद्देशोऽशुचिर्मही ॥ २१६ ॥ प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ॥ अन्त्यजातिः श्वपाकेन संस्पृष्टा स्त्री रजस्वला ॥ २१७ ॥ चतुर्थेऽहनि शुद्धायाः प्रायश्चित्तं विशोधनम् ॥ त्रिरात्रमुपवासः स्यात्पञ्चगव्यं तथैव च ॥ २१८ ॥ उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ॥ यावन्न शुद्धिमाप्नोति नाश्नीयात्तावदेव तु ॥ २१९ ॥ चण्डालश्वपचौ स्पृष्ट्वा शवधूमञ्च सूतिकाम् ॥ शवं स्पर्शयिता श्वानं सद्यः स्नानेन