विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 519, कुल 1001 में से
संदर्भ में पढ़ेंतथा ॥ भक्तिश्च भूपतौ नित्यं तथा सच्छास्त्रनेत्रता ॥ ३ ॥ आनृशंस्यन्तितिक्षा च तथा चास्तिक्यमेव हि ॥ धर्मसामान्यमेतेषां कथितं भृगु सत्तम ॥ ४ ॥ यजनं याजनं दानं तथैवाध्यापनक्रिया ॥ प्रतिग्रहं विप्रकर्माणि निर्द्देशेत् ॥ ५॥ दानमध्ययनं चैव यजनं च यथाविधि ॥ क्षत्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥ ६ ॥ क्षत्रियस्य विशेषस्तु प्रजानां परिपालनम् ॥ कृषिगोरक्षावाणिज्यं वैश्यस्य परिकीर्तितम् ॥ ७ ॥ शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ ॥ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ॥ ८ ॥ तेषां जन्माद्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥ आचार्यस्तु पिता तत्र सावित्री जननी तथा ॥ ब्राह्मणाक्षत्रियाद्वैश्यान् मौञ्जीबन्धनजन्मनि ॥ ९ ॥ वृत्त्या द्विजाः शूद्रसमा भवन्ति यावन्न वेदे प्रभवन्ति राम ॥ ततः परं ते द्विजतां लभन्ते समस्तकर्तव्यविधेर्वेदत्वं च ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने वर्णधर्माध्यक्षो नामाशीतितमोऽध्यायः ॥ ८० ॥ पुष्कर उवाच ॥ आनुलोम्येन वर्णानां जातिमत्तमसा स्मृता ॥ चण्डालो ब्राह्मणपुत्रः शूद्रः स्यात्प्रतिलोमजः ॥ १ ॥ मागधश्च तथा वैश्याच्छूद्राद्योगवो भवेत् ॥ वैश्यायाः प्रतिलोमेन प्रतिलोमास्तसहस्रशः ॥ २ ॥ विवाहसहस्त्रैस्तेषां नोत्तमेनोत्तमेस्तथा ॥ चण्डालकर्म निर्दिष्टं वध्यानां घातनं तथा ॥ ३ ॥ स्त्रीजीवनं च तद्वच्च प्रोक्तं वैदेहकस्य च ॥ मृतानामथसारथ्यं पुक्कसानां च व्याधता ॥ ४ ॥ स्तुतिक्रिया मागधानां तथा चायोगवस्य च ॥ रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनम् ॥ ५ ॥ मृतानामस्थिसंस्कार स्तथा वै याजनक्रिया ॥ बर्हिर्ग्रामनिवासश्च मृतचैलस्य धारणम् ॥ ६ ॥ असंस्पर्शस्तथात्वैश्चण्डालस्य विधीयते ॥ ब्राह्मण्यां गवार्थे वा देह त्यागात्तुपुक्कसः ॥ ७ ॥ स्त्रीबालद्युपपत्तौ च वाह्यानां शुद्धिकारणम् ॥ संकरे जात्यस्त्वेताः पितृमातृप्रदर्शिताः ॥ ८ ॥ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ॥ ९ ॥ पुरुषं व्यञ्जयन्तीह लोके कलुषयौनिजम् ॥ पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ १० ॥ न कथंचन दुर्योनिः प्रकृतिं स्वां न गच्छति ॥ कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ॥ क्रूरः ॥ ११ ॥ स सूचयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ यत्र त्वेते परिवंसा जायन्ते वर्णसङ्कराः ॥ १२ ॥ राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥ शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ॥ अश्रेयान्श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्॥ १३॥ राज्ञा स्वकालं परिरक्षणीयं घोरं नृणां सङ्करमेतदेव ॥ आसाद्य घोराणि हि सङ्कराणि नश्यन्ति राष्ट्राणि सराजकानि ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने सङ्करवर्णोनामैकाशीतितमोऽध्यायः ॥ ८१ ॥ पुष्कर उवाच ॥ आजीवं तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ॥ जीवेत्क्षत्रिय