विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 520, कुल 1001 में से
संदर्भ में पढ़ेंधर्मेण सा ह्यस्य वृत्त्यनन्तरा ॥ १ ॥ उभाभ्यामप्यजीवन्व वैश्यवृत्तिं समाचरेत् ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रवृत्तिं विवर्जयेत् ॥ ॥ २ ॥ शूद्रो ब्राह्मणवृत्तिं च विशेषेण विवर्जयेत् ॥ आजीवेत्तु स वृत्या च मध्यवृत्तिं समाचरेत् ॥ ३ ॥ ब्राह्मणः क्षत्रियो वापि वैश्यवृत्त्या तु वर्तयन् ॥ अयः शशं विषं मांसं सोमं गन्धांश्च सर्वशः ॥ ४ ॥ क्षीरं क्षौद्रं दधि घृतं तैलं मज्जां गुडं कुशम् ॥ मद्यं नीलं च लाक्षां च लवणं प्राणिनोऽपि च ॥ ५ ॥ विक्रीणीत तिलैस्तत्र पक्वान्नं गोसांस्तथा ॥ रसा रसैर्निहन्तव्या गन्धेन लवणं रसैः ॥ ६ ॥ कृतान्नं च कृतान्नेन तिलधान्येन तत्समम् ॥ वैश्यो वा क्षत्रियो वापि वर्जयेद्विजजीविकाम् ॥७ ॥ सद्यः पतति मांसेन लाक्षया लवणेन च ॥ त्र्यहाच्च शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥ ८ ॥ इतरेषां तु पण्यानां विक्रयां मनुजोत्तम ॥ ब्राह्मणः सप्तरात्रेण वैश्यभावं हि गच्छति ॥९॥ क्षिप्राणि यानि रुक्षाणि चराणि च मृदूनि च ॥ वापिज्ये तानि शस्यन्ते तिथिं रिक्तां विवर्जयेत् ॥१० ॥ द्रिकं शांतं तु गृह्णीयात्कुसीदेनापि वर्धयन् ॥ ततोऽधिकं तु गृह्णानश्चौरस्याप्नोति किल्बिषम् ॥ ११ ॥ प्रतिपदादशी षष्ठी नक्षत्राणि ध्रुवाणि च ॥ कूर्मीदे वर्जनीयानि नित्यं सूर्यसुतस्य च ॥१२॥कृषिभूमिपतंभागं दत्वा कुर्याद्यथोदितम् ॥ ध्रुवाणि सौम्यं मैत्रं च वायव्यं पौष्णमाश्विनम्॥ ॥१३॥वासवं श्रवणं चित्रा विशाखा मूलमेव च ॥ कृप्यारम्भे प्रशस्यन्ते तथा पुष्यपुनर्वसू ॥१४॥ कृष्यारम्भे प्रयत्नेन तिथिं रिक्तां विवर्जयेत्॥ अङ्गारकदिनं वर्ज्य दिवसं सूर्यस्य च ॥ १५ ॥ नक्षत्राणां यथोक्तानां मुहूर्तेषु च कारयेत् ॥ मुहूर्ते यदि वा ब्राह्मे सर्वकर्मसु पूजिते ॥ १६॥ वराहं पूजयेद्देवं शेषं पृथ्वीं तथैव च ॥ पर्जन्यं भास्करं वायुं देवेशं शशिनं तथा ॥ १७ ॥ फालं च गोयुगं चैव गन्धमाल्यान्नसम्पदा ॥ ततोऽग्निहव नं कुर्यात्सुसमिद्धे हुताशने ॥ १८॥ देवतानां यथोक्तानां जुहुयाच्च घृताहुतीः ॥ गावो भग इति ह्राम्यां सीरां युञ्जन्त्यतीवभिः ॥ १९ ॥ फालं शुनां सुफालेति लाङ्गलं च तथेति वै ॥ हुत्वा विप्रान्समभ्यर्च्य दक्षिणाभिर्यथाविधि ॥ २० ॥ दूर्वाऽक्षतवणं भूमिं वाहयेत्प्राङ्मुखेन तु ॥ सीरायुञ्जन् इत्येतदृक्त्रयं कीर्तयेद्बुधः ॥ २१ ॥ या ओषधय इत्येवं बीजं तदनु मन्त्रयेत् ॥ कृत्वा सुवर्णलोपाक्तं लक्षणेयो वापयेत्पुमान् ॥ २२ ॥ प्राङ्मुखोवोदङ्मुखोवाभिः प्राङ्मुखश्चैव वापयेत् ॥ शंखपूर्णादहोषण बीजवापः प्रशस्यते ॥ २३ ॥ बीजवापे तथा मन्त्रं निबोध गदतो मम ॥ प्रजापते कश्यपाय देवताय नमः सदा ॥ २४ ॥ सदा मे ऋद्धतां देवी बीजेषु च धनेषु च ॥ भोजयेद्ब्राह्मणांश्चात्र तथैव च कृषीवलान् ॥ २५ ॥ कालश्च सर्वः पूर्वोक्तः संग्रहेशपि प्रशस्यते ॥ देवतानां पितृणां च कृत्वा तत्रापि पूजनम् ॥ २६ ॥ ॥२३६॥