विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 521, कुल 1001 में से
संदर्भ में पढ़ेंनववस्त्रपरीधानः श्वेतमाल्यानुलेपनः ॥ प्राङ्मुखः प्राशनं कुर्यात्पात्रे सौवर्णराजते ॥ २७ ॥ तत्रापि भोजयेद्विप्रांस्तथैव च कृषीवलान् ॥ कृष्ये विशेषतः कार्यं फलयज्ञं भृगूद्वह ॥ २८॥ यूपोयं निहितो मध्ये पेषीवालेसपकार्षकैः ॥ तस्माद्दन्तद्रुतो दद्यादन्नं धान्यार्थदक्षिणा ॥२९॥ भूमिं भित्त्वा पधैश्चिच्छत्वा हत्वा कीटपिपीलिकम् ॥ पुनन्ति खलु यज्ञेन कर्षका नात्र संशयः ॥ ३० ॥ अष्टागवं धर्महलं षड्गवं जीविताार्थिनाम् ॥ चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥ ३१ ॥ आपद् च समुत्तीर्य त्यक्त्वा वित्तं च कर्मणा ॥ यदर्जितं ततः कुर्यात्प्रायश्चित्तं विचक्षणः ॥ ३२ ॥ श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३३॥शक्तेन जीवेदवृत्तेन जीवेन्मृतेन जीवेत्यमृतेन जीवेत्।सत्या नृताभ्यामथवापि जीवेच्छ्ववृत्तिमेकां परिवर्जयेत्तु ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आपद्धर्मो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ राम उवाच ॥ काम्यं कर्म समाचक्ष्व वाणिज्यं येन शुध्यति ॥ कृषिं च बहुलां चैव कर्मणा केन चाश्नुते ॥१॥ ॥ पुष्कर उवाच ॥ मूलेनोपोषितः कुर्यादिदं कर्म पुरोहितः ॥ उपोषितस्य धर्मज्ञ जयमानस्य नित्यशः ॥ २ ॥ प्रातास्सूतरपाडासु प्राङ्मुखं स्नापये न्नरम् ॥ युक्तेनैतन्मूलेन शङ्खमुक्ताफलैस्तथा ॥ ३ ॥ मणिभिश्च यथालार्भ कनकेन तथैव च ॥ अकालमूलैः कलशैश्चतुर्भिर्नृपनन्दन ॥ ४ ॥ नैवेस्तु पूजयेद्देवं शङ्खचक्रगदाधरम् ॥ पूर्वाषाढां तथैवापो वरुणं च निशाकरम् ॥ ५ ॥ गन्धमाल्यनमस्कारधूपदीपान्न सम्पद ॥ एतेषामेव जुहुयात्तथा नाम्ना घृतं द्विज ॥ ६॥ नीलवासावृतो भूत्वा क्षिपेदप्सु समाहितः ॥ नीलानि राम वासांसि पयांसि विविधानि च ॥ ७ ॥ तदा मंथं सुरां चैव मेरयं विविधं तथा ॥ शुक्लानि चैव माल्यानि धूपं दद्याच्च कम्पुना ॥ ८ ॥ तिम्यस्य मकराद्यांश्च शङ्खमुक्ताफले तथा ॥ सुवर्णं न्तरितं कृत्वा धारयेच्च तथा मणिम् ॥ ९ ॥ कृत्वैतत्सिद्धिमाप्नोति वाणिज्ये नात्र संशयः ॥ समुद्रयाने च तथा कान्तारे न विपद्यिति ॥ १० ॥ नीलानि राम वासांसि दक्षिणा चात्र शस्यते ॥ शङ्खं सुवर्णं रूप्यं च तथा मुक्ताफलानि च ॥ ११ ॥ होत्रे कत्रे द्विजैभ्यश्च सर्वमेतन्दिधीयते ॥ ब्राह्मणान्भोजयेच्चात्र परमान्नं तु संस्कृतम् १२ ॥ अलंच्छन्नियतमथाप्यमुक्षं करोति कर्मैतदनिन्द्रितात्मा ॥ न जातु लाभाद्विनिवर्ततेऽसौ समृद्ध मार्गाद्विव निघ्षणा वा॥ १३॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पूर्वाषाढास्नानवर्णनो नाम त्र्यशीतितमोऽध्यायः॥ ॥ ८३ ॥ पुष्कर उवाच ॥ स्वयं सुपोषितो विद्वान्यजमानसुपोषितम् ॥ मूलेन स्नापयेन्नित्यं तथास्याशुखास्थितम् ॥ १ ॥ दूर्वांकुश शमीपत्रपूर्णेन सुहृटेन च ॥ कुम्भद्वयेन स्नातस्तु पूजयेन्मधुसूदनम् ॥ २ ॥ विरूपाक्षं सवरुणं चन्द्रं मूलं तथैव च ॥ गन्धमाल्य