विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 523, कुल 1001 में से
संदर्भ में पढ़ेंगर्भादेकादशे राज्ञः गर्भाच्च द्वादशे विशः ॥ १९ ॥ चूडाकर्मणि यः प्रोक्तः कालः सोऽत्रापि शस्यते ॥ नक्षत्राणां यथोक्तानां मुहूर्तानां शुभप्रदाः ॥ २० ॥ षोडशाब्दे हि विप्रस्य राजन्यस्य द्विविंशतौः ॥ विंशतैश्र्च चतुष्के तु वैश्यस्य परिकीर्तितम् ॥ २१ ॥ सावित्री नातिवर्तेत अत ऊर्ध्वं निवर्तते ॥ विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ॥ २२ ॥ सावित्रीपतिता ब्रात्या व्रात्यस्तोमेक्रमादृते ॥ मुञ्जरथ्य बिल्वजानां च क्रमान्मौञ्जः प्रकीर्तितः ॥ २३ ॥ मार्जारव्याघ्रचर्माणि वस्त्राणि व्रतचारिणाम् ॥ पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः॥२४॥ कंवर्दशललाटांस्तुल्याः प्रोक्ताः क्रमेण तु ॥ अश्वत्थः सर्व्वतः सर्वे नाभिमुष्कास्तथैव च ॥ २५ ॥ वासोपवीतकार्पासक्षौमोर्णानां यथाक्रमम् ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ॥ २६॥ प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ॥ पूजयेदन्नमद्याद्देवं च तत्र देवं विशेषतः ॥ २७ ॥ दृप्तौ केशं व्रतंश्च सर्वविन्नंबरं प्रभुम् ॥ यथोक्तेषु च ऋक्षेषु त्रैविद्यं कारयेद्गुरुः ॥ २८ ॥ नैवाधिकारो वेदे स्याद्विना त्रैविद्यकेन तु ॥ स्त्रीणां संस्कार मत्रोक्तं सकृत्कार्यं विजानता ॥ २९ ॥ क्षेत्रसंस्कारमेतद्धि सकृदेव विधीयते ॥ संस्काराणि पिता कुर्यान्नम्वलम्बान्वनात्मनः ॥ मेखला बन्ध नाद्यानि कार्याणि गुरुणा तथा ॥३०॥ सर्वाणि कार्याणि हि लौकिकेश्र्चौ स्वकल्पमालोक्य भृगुप्रधान ॥ सर्वेषु पूजा च तथा विधैया तस्याप्रमत्तस्य जनार्दनस्य॥३१॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने संस्कारवर्णनो नाम पञ्चाशीतितमोऽध्यायः॥८५॥
पुष्कर उवाच ॥ उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥ आचारमभिकार्यं च सन्ध्योपासनमेव च ॥ १ ॥ प्रयुतः कृत्यमुत्थाय स्नातौ हुत हुताशनः ॥ भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम् ॥२॥ पुरोस्तु वामं चरणं वामहस्तेन संस्पृशन् ॥ दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन् ॥ ३ ॥ अनुज्ञातरतु गुरुणा ततोऽध्ययनमाचरेत् ॥ कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमभान्तः ॥ ४ ॥ ब्रह्मयज्ञाने प्रारम्भे प्रणवं चैव कीर्तियेत् ॥ अनध्यायोध्वयनं वर्जयत्तु प्रयत्नतः ॥ ५ ॥ भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥ गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥ ६ ॥ आयुष्यं प्राङ्मुखो भुङ्के यशस्यं दक्षिणामुखः ॥ श्रियः प्रत्यङ्मुखो भुङ्के ऋतं भुङ्के ह्युदङ्मुखः ॥ ७ ॥ हितं प्रियं गुरोः कुर्यात्त्रस्त्यहंकारवर्जितः ॥ अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥ ८ ॥ अभिवाद्य गुरुं पश्चादहोरवचनंकृद्वेत् ॥ प्रद्युम्नो साञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ॥ ९ ॥ हिंसां परापवादं च अश्लीलं च विशेषतः ॥ मेखलामजिनं दण्डं धारयन्प्रयतः सदा ॥ १० ॥ विनष्टानप्सु निक्षिप्य तथान्यान्धारेयत्पुनः ॥ आदित्ती नोदकं कुर्यादावतस्य समापनात् ॥ ११ ॥ समाप्ते तु व्रतं कुर्याद्रान्नेण शुद्ध्यति ॥