भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 530, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 530

सावित्रं रौहिणं मैत्रामादित्यं तिष्यमाश्विनम् ॥ ७५ ॥ उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ॥ इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दि-
शेत् ॥ ७६ ॥ नक्षत्राणामथैतेषां मुहूर्त्तश्च हितप्रदः ॥ परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ॥ ७७ ॥ केशग्रहणमङ्गानां शिरस्येतां तथैव च ॥
दूरादावसथान्मूत्रं पुरीषं च समुत्सृजेत् ॥ ७८ ॥ पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ॥ सर्वमेतन्त्यजेत्प्राज्ञो येन स्याद्धर्मसंज्ञम् ॥ ७९ ॥
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ॥ तथैकमनसा कार्यं देवतानां च पूजनम् ॥ ८० ॥ वह्निसंपूजनं चैव न चास्नानेन भार्गव ॥ माल्या-
नुलेपनादीनि न प्रद्यात्तु कस्यचित् ॥ ८१ ॥ अन्ये च देवताविप्रगुरूणां भृगुनन्दन ॥ कोविदारगणार्शाकं चतुर्थी पिप्पली तथा ॥ ८२ ॥
वर्ज्जयेन्मांसं सुकार्थी सर्वमेव तु ॥ राजद्विष्टं न कर्त्तव्यं विरोधं च महाजनैः ॥८३॥ शुष्कैर्वैरं विवादं च प्रयत्नेन विवर्जयेत् ॥ न वसेच्च तथा
वासं वास्तुविद्याविगर्हितम् ॥८४॥ आगाराणाञ्चाधुवातां च परोच्छिष्टां तथैव च ॥ उपराञ्चैव वल्मीकान्मृदं शौचे विवर्जयेत् ॥८५॥ येनेन्द्रियवशो
प्रीति तेन सार्द्धमरिन्दम ॥ न कुर्यादर्थसंबन्धं दारसंबर्शनं तथा ॥८६॥ आत्माभिभवनं निन्दां परस्य च विवर्जयेत् ॥ दृढभक्तो भवेन्नित्यं कृतज्ञश्च
विशेषतः ॥८७॥इन्द्रियाणां जये योगमतिष्ठेच्च सदा नरः ॥ इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात् ॥८८॥ अभिभाला तु धर्मज्ञो योगेक्षं-
मार्थमीश्वरम् ॥ गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः ॥८९॥ अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥ कुळान्यकुलतां यान्ति
स्वाध्यायस्य विवर्जनात् ॥ ९० ॥ यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ॥ ऋचमेकां च योऽध्येति समौ स्यातां न चाधिकः ॥ स्वाध्या-
याडनन्तं स्नातः कृतजप्यः समाहितः ॥ ९१॥ संपूज्यं देववत्कुर्यात्तस्यान्येषांमयत्नस्य जनार्दनस्य ॥ संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रम्
वाप्नुवन्ति ॥ ९२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोऽध्यायः ॥ ८९ ॥
पुष्कर उवाच॥स्वाचान्तः प्रयततः स्नातः प्रविशेद्वेवतागृहम् ॥ नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः ॥ १॥आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनि-
वेद्येत् ॥ हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ॥ २ ॥ शन्न आप इत्यनेन देयं सौदामनं भवेत् ॥ इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ॥
॥ ३॥ रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ॥ युवा सुवास इति च मन्त्रो वासस ईरितः ॥ ४ ॥ पुष्पे पुष्पवतीत्येव धूपं धूरसि चाप्यथ ॥
तेजोऽसि शुक्रमसि दीपं दद्याद्विचक्षणः ॥ ५ ॥ दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ॥ हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ॥ ६ ॥
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ॥ चामरव्यजने मात्रां छत्रं यानासने तथा ॥७॥ यत्किञ्चिद्देवमादिः स्यात्त्वावित्वेण निवेदयेत् ॥ पौरुषं

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 530, कुल 1001 में से · BharatKosha