भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 555, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 555

बन्धं ततः कृत्वा तोयं तत्पाययेन्नरम् ॥ ५८ ॥ लिप्यञ्च सरुजं देशमुदपात्रजलेन तु ॥ याः पुरस्तादित्याद्येन मणिः स्याल्लवणस्य तु ॥ ५९ ॥ पित्तवृक्षपुटे बद्ध्वा लवणस्य तु तन्मणिम् ॥ आबन्धे कुष्ठवत्यञ्च यातुधानांनविनाशनः ॥ ६० ॥ व्याघ्ररूप इत्यनेन खंतव्यं बाटरूपकम् ॥ व्याघ्रारूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत् ॥ ६१ ॥ पिशाचनाशकस्त्वेष स मणिः स्यादसंशयम् ॥ एवमेवोत्तरातृचां च भवेत्प्रत्यभिचारकः ॥ ॥ ६२ ॥ विष्कन्दस्येत्यनेनाह त्रिपणीं विषभेषजी ॥ स्कन्दस्योपांयं यः स्कन्दो भवेत्तस्य विनाशिनी ॥ ६३ ॥ यस्मादङ्गादिति भवेत्प्रणि- त्वात्पारियूहः ॥ गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत् ॥ ६४ ॥ गोराचवारे कर्माणि हन्तव्यान्येवमादिभिः ॥ पत्रज्ञाय्याश्च चत्वारः संस्कृ- त्य प्राणिनो बुधः ॥ ६५ ॥ तृष्णार्तवेध मन्त्रेण गात्रं प्रक्षालयेत्त्विलम् ॥ प्रथमेन तु सूक्तेन वेणुपात्रे द्वयो मणिः ॥ ६६ ॥ वेणुः कुर्याद्वेदैर्धर्मा वाक्षवदेवदारुणः ॥ संस्कृत्य पूर्वमन्त्रेण माषकादीन्ममर्द्येत् ॥ ६७ ॥ गान्धसंस्कारसहितैः पिष्टैर्वा प्रकृतिभैषशम् ॥ केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति ॥ ६८ ॥ तथा स्थलेमप्रभृती विधूलो धुरिशो युतिः ॥ देवप्रवेशं जतुना स्वगचित्त्वा तु रक्तिका ॥ ६९ ॥ दूष्या इति प्रतीकंन कुर्या- त्यतिसरं मणिम्॥ कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः॥७०॥अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा ॥ सूत्रेणानेन बन्धीयाद्विद्वांस्त्वप्रतिसरो परः॥७१॥ अनेन विधिना सूत्रं निजधान शतक्रतुः ॥ अशंस इति मन्त्रेण प्रबन्धीयाद्यथाविधि॥७२॥भूतिश्रीमत्प्रसूतीनां च विन्नभेवं करोति यः ॥ विनाशनं तस्य भवेद्वाञ्छ्याक्षनाशनम्॥७३॥ज्यासूत्रमोथिताः सप्त वंशप्राप्ताः समुद्भवाः ॥ रत्तस्यान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः ॥ ७४॥ मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान् ॥ एकैकस्मिंस्ततीते तु मासे सूत्रान्तरे वणिः ॥ ७५॥ एकैकं प्रक्षिपेद्धीमांन्सूत्रं पश्चिमं तथा ॥ प्राची दिगिति मन्त्रेण उदीचीं भयनाशनी ॥७६ ॥ अक्षीभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनशनः ॥ सन्धानाय शतमभ्रे रात्रीमातिते मोहनः ॥ मद्यु रगोसुरवृद्धौ द्वौ वेतीति प्रकीर्त्तितम् ॥७७॥ प्रोक्तास्त्वैते मणयो दुर्वार काण्या मया सर्वहिताय पुण्याः ॥ येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिंकारी ॥७८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धनवर्णनन्नाम नवोत्तरशततमोऽध्यायः ॥ ॥ १०९॥ राम उवाच ॥ भगवन्श्रोतुमिच्छामि कर्म काम्यमहं नृणाम् ॥ कृतेन येन कामानां नरो भवति भाजनम् ॥ १॥ पुष्कर उवाच ॥ सर्व षामेव कामानामीश्वरो भगवान्हरिः ॥ तस्य सम्पूजनादेव सर्वान्कामानवाप्नुते ॥ २ ॥ स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत् ॥ सर्व शुक्लैः सम्पूज्य पुष्पैश्च सतमस्य बलिं हरेत् ॥ ३ ॥ रक्तपित्तोत्तरो घोरान्मुच्यते नात्र संशयः ॥ तैलाक्षोद्रघृतैर्देवं स्नापयित्वा जनार्दनम् ॥ ४ ॥