भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 556, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 556

वि० ध० ॥२६४॥

द्वि० सं० अ० ११० ॥२६४॥

भस्ममन्त्रेणानुविन्ध्य सम्पूज्य कुसुमैः सितैः ॥ पञ्चशुद्धबलिं दद्याद्दन्तसारान्प्रमुच्यते ॥ ५ ॥ संस्नाप्य पञ्चगव्येन दत्वा पश्चादनुलेपनम् ॥ पञ्चसस्यबलिं दत्त्वा मुखे कुष्ठात्प्रमुच्यते ॥ ६ ॥ त्रिस्रस्नापितं देवं त्रिसुगन्धेन लेपितम् ॥ कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्धि मुच्यते ॥ ७ ॥ स्नापयित्वा तु तैलेन त्रिमिश्रेणानुलेपयेत् ॥ पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति ॥ ८ ॥ द्विस्नेहस्नपितं देवं शीतोष्णोनानुलेपितम् ॥ पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम् ॥ ९ ॥ अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना ॥ पञ्चवर्णानि पुष्पा णि तथा दत्त्वा यथाविधि ॥ १० ॥ धूपं च पञ्चनिर्यास दत्त्वा चैवानुवृत्तये ॥ ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत् ॥ ११ ॥ अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः ॥ विष्णुं सहस्रमूर्द्धानं चराचरगुरुं हरिम् ॥ १२ ॥ स्तुतवामसहस्रेण ज्वरान्सर्वान्व्यपोहति ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपयेत् ॥ १३ ॥ पञ्चभिर्जैलजैः पुष्पैस्ततः सम्पूजयेद्विभुम् ॥ धूपं दद्याच्चित्रारं च पञ्चगव्यं तथा बलिम् ॥ ॥ १४ ॥ पञ्चगौड तथा राम बद्धो मुच्येत बन्धनात् ॥ त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत् ॥ १५ ॥ त्रिशीतैः कुसुमैः पूज्यं धूपं द्वयादिशीतलम् ॥ त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते ॥ १६ ॥ शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत् ॥ धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम् ॥ १७ ॥ गृह्यप्रसादमाप्नोति नात्र कार्या विचारणा ॥ १८ ॥ यमलस्नापितं देवं यमलेनानुलेपितम् ॥ १८ ॥ अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥ यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः ॥ १९ ॥ सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात् ॥ सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते ॥ २० ॥ त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात् ॥ त्रिभिः फलैः स्नापयित्वा विसारै णानुलेपयेत् ॥ २१ ॥ त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम् ॥ त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ २२ ॥ धूपेन्यमहिषाक्षेण त्रिरक्तं च बलिं हरेत् ॥ रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः ॥ २३ ॥ त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम् ॥ पूजयेच्छ्वेतपद्मानां सहस्रेण महासुजम् ॥ ॥ २४ ॥ निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम् ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥ २५ ॥ पञ्चामृतं बलिं दत्वा यथेष्टं काममाप्नुयात् ॥ घृतेन स्नापितं देवं चन्दनेनानुलेपितम् ॥ २६ ॥ अपूपैः परमान्नेन कुलमाषेण च पूजयेत् ॥ आभ्रातकानां मुख्यानां ततस्त्वष्टार्थिकं शतम् ॥ २७ ॥ क्षाद्रैन्त्रिबृतं देवाय यथाविधिनिवेदयेत् ॥ सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ॥ २८ ॥ पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम् ॥ त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ २९ ॥ रक्तपुष्पैः समभ्यर्च्य त्रिमिश्रेव यथाविधि ॥ त्रिरक्तं च बलिं दत्वा हुत्वा वै सर्षपान्वयम् ॥ ३० ॥