भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 557, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 557

त्रिलोहे दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात् ॥ त्रिफलास्नापितं देवं त्रिरक्तेनानुलेपितम् ॥ ३१ ॥ त्रिशितं च बलिं दत्त्वा पुन्नामकुसुमानि च ॥ पुन्नामकानि मुख्यानि फलानि विविधानि च॥३२॥ पुत्रजन्म समाप्नोति नात्र कार्या विचारणा ॥ घृतेन स्नापितं देवं विरक्तेनानुलेपितम्॥३३॥ कृत्वा तद्देव धूपं तु दत्त्वा क्षीरं निवेदयेत् ॥ घृतपूरं वलिं दत्त्वा नरः प्राप्नोति जीविकाम् ॥ ३४ ॥ क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम् ॥ तद्देव धूपं दातव्यं जातीपुष्पाणि चाप्यथ ॥ ३५ ॥ पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम् ॥ गां च दत्त्वा महाभाग गाः समाप्नोति मानवः ॥ ३६ ॥ यमलस्नापितं देवं यमलेनानुलेपितम् ॥ अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥ ३७॥ यमलं च बलिं दत्त्वा जुहुयाद्दशतांस्तथा ॥ तिलसिद्धार्थकयुक्तान्सर्पिः क्षीरं घृतं तथा ॥ ३८ ॥ अश्वं च दक्षिणां दत्त्वा ह्याप्नोत्यश्वयुतम्मान् ॥ घृतेन स्नापितं देवं तथैव घृतलेपितम् ॥ ३९ ॥ पुष्पैश्चतुर्विधैः सम्पूज्य धूपं दत्त्वा चतुःसमम् ॥ त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम् ॥ ४० ॥ त्रिशुकं च तथा हुत्वा त्रिफलेन समन्वितम् ॥ त्रिलोहे दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात् ॥ ४१ ॥ मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च ॥ ४२ ॥ सर्वैर्भूतैः सहा- प्नोपि सत्यमेव न संशयः ॥ घृतेन स्नापितं देवं वचया निशया तथा ॥ ४४॥ चन्दनेनानुलेम्पितु जातीपुष्पैश्चार्चयेत् ॥ घृतक्षाद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम् ॥ ४५ ॥ त्रिशुकं च बलिं दत्त्वा तथा त्रिलवणं नरः ॥ कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम् ॥ ४६ ॥ चन्दन- माज्यं जाती पद्मानं गुग्गुलं च देवाय ॥ दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति ॥४७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दृशोत्तरशततमोऽध्यायः ॥ ११० ॥ राम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम् ॥ त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ पुष्कर उवाच ॥ भुक्त्वात्मानमभोज्यं तु नरकं याति मानवः ॥ व्रतलोपे तदर्धं च प्रकीर्णं तु दशाह- कम् ॥ २ ॥ अग्निहोत्रसमिद्धादीन्सहस्रं याति वत्सराम् ॥ महापातकिकिनः सर्वं कल्पं पश्यन्ति भार्गव ॥ ३ ॥ मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते ॥ चतुर्युगं क्षत्रियहा वैश्यहा त्रिगुणं तथा॥४॥शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत् ॥ यावन्ति पशूरोमाणि तावत्कृत्वेह मानवः ॥५॥ वृथापशुघ्नः प्राप्नोति वर्षाणि नरके नरः ॥ द्रव्याणामपसारणां स्तेयं कृत्वाम्यवेश्मसुः ॥ ६ ॥ याति संवत्सरशतं गुरुब्राह्मणताडनात् ॥ तच्छत्रवर्ती नृपतिः कल्पं पश्यति मानद ॥ ७ ॥ पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम ॥ ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम ॥ ८ ॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 557, कुल 1001 में से · BharatKosha