विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 558, कुल 1001 में से
संदर्भ में पढ़ेंशोणिते यावतः पांसूनिगृह्णाति महीतले ॥ तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ ९ ॥ रजसि प्रहरंस्तु कृतघ्न्यामति दुर्मतिः ॥ अराजा नरकं याति स तु कल्पशतं नरः ॥ १० ॥ नित्यान्यकुर्वन्कर्माणि तथा वर्षशतं व्रजेत् ॥ द्रुमाणां छेदने राम पक्षाद्वद्धमथैव तु ॥ ॥ ११ ॥ गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव ॥ अनागतसमाक्रोशे तिस्त्रश्चामथ ताडने ॥ १२ ॥ तावदेव यथाकालं नरकं प्रतिपद्यते ॥ अगम्यागामिनः सर्वे महापातकिभिः समाः ॥ १३ ॥ अनिर्विष्टां भृतिं मुक्त्वा द्वे शते प्रतिपद्यते ॥ तथा पुस्तकहारी च सहस्रं याति वत्सराम् ॥ १४ ॥ सस्यानां नाशकारी च नरकं प्रतिपद्यते ॥ उपाकरणदोही च नास्तिकश्च तथा नरः ॥ १५ ॥ कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः ॥ देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा ॥ १६॥ श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तमा प्रतिश्रुत्य तथा चार्यं यो न दद्यान्महाभुज ॥ १७ ॥ आश्रितस्य परित्यागं वृथा कुर्याद्विजोत्तम ॥ अपराधं तथा राम वृथा भार्यावमन्तकः ॥ १८ ॥ कृतघ्ना चैव धर्मज्ञ सहस्रं प्रतिपद्यते ॥ बहूनि राम पापानि पापेषूक्तेषु भार्गव ॥ अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः ॥ १९॥ नरकाणां गणनंबुद्धिदंतं पापानां ते मया राम ॥ एतच्च भवति घोरं त्वत्तुबन्धकृतं मनुष्याणाम् ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पापनिर्णयो नामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥
राम उवाच ॥ जन्तुः कथं सम्भवति कथं चैव विपद्यते ॥ कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥ विश्वस्याण्डणं राम तथैवाण्डं न हेम यत् ॥ तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज ॥ २ ॥ आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम् ॥ सुषिरं तद्वद्देहे पुरुषस्य शरीरगम् ॥ ३ ॥ धारयन्ति यथा विश्वमण्डस्यान्यन्तरे स्थिताः ॥ वायव मिसोमाः सततं तथा देहं शरीरिणाम् ॥ ४ ॥ आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम् ॥ प्रपद्यन्ते महाभाग कल्मलं हि तत्क्षणात् ॥ ५ ॥ करोति तत्र च ततः प्रवेशं कर्मचोदितः ॥ वायुभुतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम् ॥ स्वर्गाद्वा नरकाद्देहं तिर्यक्त्वोनाथवापि वा ॥ ६ ॥ एवं प्रवेशं स करोति गर्ने जीवस्तदा कर्मवशाज्जुबन्धात् ॥ ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति बंदनित्यः ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनोन्नाम, द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥
राम उवाच ॥ भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते ॥ भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः ॥ १ ॥
पुष्कर उवाच ॥ आतिवाहिकणर्भूत्य देहो भवति भार्गव ॥ केवलं तं मनुष्याणां मृत्युकाल उपस्थिते ॥ २ ॥ याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम ॥ नीयते याम्यमार्गेण