भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 559, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 559

नान्येषां प्राणिनां द्विज ॥ ३ ॥ मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा ॥ नैवाऽन्ये प्राणिनः कंचित्सर्वे ते फलभोगिनः ॥ ४ ॥ शुभानामशु- भानां वा कर्मणां भृगुनन्दन ॥ संचयः क्रियते लोके मनुष्यैरैव केवलम् ॥ ५ ॥ तस्मान्मनुष्यस्तु मृतो यमलोकं प्रपद्यते ॥ नान्यः प्राणी महा भाग फलयोनौ व्यवस्थितः ॥६॥ गच्छँल्लोके प्रपन्नस्य पुरुषस्य तथा यमः॥ योनीश्च नरकांश्चैव निरूपयति कर्मणाम्॥७॥ पूजनीयाश्च ते तेन वैवस्व तमपश्यता॥ मरणानन्तरं प्रोक्तं तिरश्चां गर्भसम्भवम् ॥८॥ वायुभूताश्च ते गर्भं प्रपद्यन्ते न संशयः ॥ मनुष्यस्तु मृतो राम नीयते यममन्दिरम् ॥९॥ तथा कर्मानुरूपेण यमं पश्यत्यसौ ततः ॥ घोरं पापस्तथा धर्मे निर्विष्टः सौम्यदर्शनम् ॥ १० ॥ धर्मिष्ठः पूज्यते तत्र ह्यासनेनोदकेन च ॥ पाशबद्धगलः पापः पीड्यते वै यमाग्रतः ॥ ११ ॥ चित्रगुप्तस्ततस्तस्य स्वर्गं नरकमेव च ॥ निवेदयन्ति धर्मज्ञ स तु पिण्डाशनस्ततः ॥ १२ ॥ तदा त्यक्त्वा तु तद्देहं प्रेतदेहं प्रपद्यते ॥ प्रेतलोके तु वसतिर्वर्षं तस्य तु कीर्तिता ॥ १३ ॥ अह्नश्णेने प्रत्यहं तत्र भवतो भृगुनन्दन ॥ अहोरात्रं तु तत्रापि मानुष्यं परिकीर्तितम् ॥ १४ ॥ आमश्राद्धास्तथा दत्ता भुज्यन्ते तत्र मानवैः ॥ आतिवाहिकदेहेतु प्रेतपिण्डेर्विना नरः ॥ १५॥ न हि मोक्षमवाप्नोति पिण्डांस्तत्रेव सोऽश्नुते ॥ कृते सपिण्डीकरणे नरः संवत्सरात्परम् ॥ १६ ॥ प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते ॥ तदादो भुज्यते तत्र यत्स्तोकं भृगुनन्दन ॥ १७ ॥ भोगदेहशुभौ प्रोक्तौ शुभाशुभकर्मणोः ॥ भोगदेहं शुभं तस्य देवरूपस्य जायते ॥ १८ ॥ नानाप्रकारमशुभं नीरूपं घोरदर्शनम् ॥ यादृशं तस्य मानुष्यं रूपमासीत्पुरातनम् ॥ १९ ॥ किञ्चित्तस्य तु सादृश्यं तत्रापि प्रतिपद्यते ॥ भुक्त्वा स भोगदेहेन यथाकालं त्रिविष्टपम् ॥ २० ॥ कर्मणोऽल्पावशेषे तु त्रिदिवान्दिनिपात्यते ॥ त्रिदिवात्पतितं तस्य भोगदेहं राक्षसाः ॥ २१ ॥ भक्षयन्ति तदा भूमौ विकृता भीमदर्शनाः ॥ पापे तिष्ठति चेत्स्वर्गे तेन भुक्तं तथा द्विज ॥ २२ ॥ तदा द्वितीयं गृह्णाति भोगदेहं तु पापिनम् ॥ भुक्त्वा पापं तु ते पश्चात्तेन भुक्तं त्रिविष्टपम् ॥ २३ ॥ शुभानां पापानां तथा चेह स्वर्गाद्भ्रष्टाऽभिजायते ॥ पुण्ये तिष्ठति चेत्पापं तेन भुक्तं तदा भवेत् ॥ २४ ॥ तस्मिन्सम्भाक्षिते देहे शुभं गृह्णाति विग्रहम् ॥ कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ॥ २५ ॥ मुक्तस्तु नरकाद्याति तिर्यग्योनिमसंशयम् ॥ तत्राप्यशेषतः पापं न तदश्नाति भार्गव ॥ ततोऽवशेषं मानुष्यं भुङ्क्तेऽसौ कृतलक्षणः ॥२६॥ रज्जुग्रंथा स्याद्बद्भूतन्तुवद्वा विरूपेण शक्तिमती गृह्णाम् ॥ स्वर्गाय पुण्यं नरकाय पापं तथा नृणां स्यादिह भार्गवाय ॥ २७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने भोगदेहवर्णनन्नाम त्रयोदशोत्तरशततमोऽध्यायः ॥ १३१ ॥ पुष्कर उवाच ॥ जीवः प्रविष्टो गर्भं

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 559, कुल 1001 में से · BharatKosha