विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 560, कुल 1001 में से
संदर्भ में पढ़ेंते कललं प्रति तिष्ठति ॥ मूढस्तु कलले तस्मिन्मासमात्रं हि तिष्ठति ॥ १॥ द्वितीयं तु तदा मासं घनीभूतः स तिष्ठति ॥ तस्यावयवनिर्माणं तृतीये मासि जायते ॥ २ ॥ त्वक्चर्म पञ्चमे मासि षष्ठे रोम्णां समुद्भवः ॥ सप्तमे च तथा मासि प्रबोधश्चास्य जायते ॥ ३ ॥ स जीवोऽपि हि मण्डूकः शीते शीतादितोऽभ्युतः ॥ मूढस्तिष्ठति धर्मज्ञ षण्मासान्नाभिसंगस्तथा ॥ ४ ॥ मातुराहारपीतं तु सप्तमे मास्युपाश्नुते ॥ अष्टमे नवमे मासि भृशबुद्धिर्जायते तदा ॥ ५ ॥ जरायुवेष्टितो देही मूर्ध्नि बद्धाञ्जलिः सदा ॥ मध्ये क्लीवत्सु वामे स्त्री दक्षिणे पुरुषस्तथा ॥ ६ ॥ तिष्ठत्युत्तरभागे तु पृष्ठमस्थिभिर्युक्तस्तथा ॥ यस्यां तिष्ठति सा योनों तां तु वेत्ति न संशयम् ॥ ७ ॥ सर्वं स्मरति वृत्तान्तं त्वारभ्य जन्मतस्तथा ॥ अन्धकारे च महति पीडां विन्दति भार्गव ॥ ८ ॥ कीटगन्धेन महता कल्मषं विन्दते परम् ॥ मात्रानीते जले पीते परं शीतमुपाश्नुते ॥ ९ ॥ उष्णे भुक्ते तदा दाहं परमाप्नोति भार्गव ॥ व्याधिभिः परमां पीडां तीव्रां प्राप्नोति दुःसहाम् ॥ १० ॥ व्यायामे च तथा मातुः क्लमं महदुपाश्नुते ॥ व्यायितायां तथा तीव्रां वेदनां समुपाश्नुते ॥ ११ ॥ भवन्ति व्याधयश्चास्य तत्र घोराः पुनःपुनः ॥ न च माता पिता वेत्ति तदा कश्चिच्चिकित्सकः ॥ १२ ॥ सौकुमार्याद्रुजं तीव्रां जनयन्ति तु तस्य ताः ॥ आधिभिर्व्याधिभिश्चैव पीड्यमानस्य दारुणैः ॥ १३ ॥ स्वल्पमप्यथ तत्कालं याति वर्षशतोपमम् ॥ सन्तप्यते तथा गर्भे कर्मभिश्च पुरातनैः ॥ १४ ॥ मनोरथानि कुरुते सुकृतार्थं पुनःपुनः ॥ अन्य चेदहमाप्स्यामि मातुरुद्रे दैवयोगतः ॥ १५ ॥ ततः कर्म करिष्यामि येन मोक्षो भवेन्मम ॥ नास्ति मोक्षं विना सौख्यं गर्भवासे कथञ्चन ॥ १६ ॥ गर्भवासश्च सुमहच्छोके दुःखैककारणम् ॥ एवं विचिन्तयानस्य तस्य वर्षशतोपमम् ॥ १७ ॥ मासत्रयं तद्भवति गर्भमध्यस्य प्रपीडयतः ॥ ततस्तु काले सम्पूर्णा प्रबलैः सूतिमारुतैः ॥ १८ ॥ भवत्यवाङ्मुखो जन्तुः पीडामनुभवन्पराम् ॥ अधोमुखः संकटेन योनिद्वारेण वायुना ॥ १९ ॥ निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्ज्वरः ॥ योनिनिष्क्रमणात्पीडां चर्मोत्कर्त्तनसन्निभाम् ॥ २० ॥ प्राप्नोति च ततो जातः तीव्रं शीतमसंशयम् ॥ जन्मज्वरार्तिभूतस्य विज्ञानं तस्य नश्यति ॥ २१ ॥ करसंस्पर्शनान्मातुर्न च जानात्यसौ तदा ॥ करपन्नस्य संस्पर्शान्मत्स्यमात्रं विमोहितः ॥ २२ ॥ संभवमेतदहं प्रोक्तं जन्तोर्मया तुभ्यम् ॥ क्रमतो वच्मि त्वाहं तत्सत्यं ब्रूहि धर्मज्ञ ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सम्भववर्णननाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥
॥ राम उवाच ॥ शरीरं सकलं देव तन्ममाख्यातुमर्हसि ॥ एतदेव परं ज्ञानं त्वं हि वेत्सि महाभुज ॥ १ ॥
॥ पुष्कर उवाच ॥ भूमिः पञ्चगुणा ज्ञेया जलं ज्ञेयं चतुर्गुणम् ॥ तेजस्तु त्रिगुणं राम पवनो द्विगुणो मतः ॥ २ ॥