विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 561, कुल 1001 में से
संदर्भ में पढ़ेंतत्रैकगुणमाकाशं नित्यं ज्ञेयं मनीषिभिः ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ ३ ॥ भूमेर्गुणं विजानीयादुपान्ते गन्धवर्जिताः ॥ रसगन्धविहीनास्तु तेजसः परिकीर्तिताः ॥ ४ ॥ गन्धो रसस्तथा रूपं नास्ति वायोर्भृगूत्तम ॥ गन्धो रसस्तथा रूपं स्पर्शः खे न च विद्यते ॥ ५ ॥ रसो गन्धस्तथा रूपं स्पर्शनं शब्द एव च ॥ भूम्यादीनां गुणाः प्रोक्ताः प्रधाना भृगुनन्दन ॥ ६ ॥ आकाशजानि स्रोतांसि तथा श्रोत्रं विविक्तता ॥ श्वासोच्छ्वासौ परिस्पन्दो वाक् च संस्पर्शनं तथा ॥ ७ ॥ वायवीयानि जानीयात्सार्वेण्यान्येतानि पण्डितः ॥ रूपं संदर्शनं पक्तिं पित्तमुष्णत्वमेव च ॥ ८ ॥ मेधा वर्णं बलं छाया तेजः शौर्यं तथैव च ॥ सर्वाण्येतानि जानीयात्तेजसानि शरीरिणाम् ॥ ९ ॥ अम्भसानीह रसनं स्वेदः क्लेदो वसा तथा ॥ रसासृक्छुक्रमूत्रादि देहे दृक्च स्तथा ॥ १० ॥ शैत्यं स्नेहश्च धर्मज्ञ तथा श्लेष्माथमेव च ॥ पार्थिवानीह जानीहि घ्राणकेशनखादि च ॥ ११ ॥ अस्थ्नां समूहो धैर्यं च गौरवं स्थिरता तथा ॥ मातृजानि मृदून्यत्र त्वक् च मांसं च भार्गव ॥ १२ ॥ हृदयं च तथा नाभिः स्वेदो मज्जा यकृत्तथा ॥ क्लोमान्तं च गुदं राम आमाशयाशयमेव च ॥ १३ ॥ पितृजानि स्थिराण्यत्रभूमिजानीह यानि तु ॥ स्नायुशुक्रशिराश्चैव आत्मजानि निबोध मे ॥ १४ ॥ कामः क्रोधो भयं हर्षो धर्माधर्मस्तथा तथा ॥ आकृतिः स्वरवर्णौ च चेतनांश्च तथा वयः ॥ १५ ॥ तामसानि तथा ज्ञानप्रमादालस्यतृट्क्षुभः ॥ मोहमात्सर्यवपुष्णैय्यशोकायासाभयानि च ॥ १६ ॥ कामक्रोधौ तथा शौर्यं श्लेष्मा बहुभाषिता ॥ अहङ्कारः परावज्ञा राजसानि महाभुज ॥ ॥ १७ ॥ धर्मेच्छा मोक्षकामित्वं परा भक्तिश्च केशवे ॥ दाक्षिण्यं व्यवसायश्च सात्त्विकानि विनिर्दिशेत् ॥ १८ ॥ चतुरः क्रोधनो भीरुर्बहुभाषी कलिप्रियः ॥ स्वप्ने गगनगश्चैव बहुवातो नरो भवेत् ॥ १९ ॥ अकालपलितः क्रोधी महाप्रज्ञो रणप्रियः ॥ स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ॥ २० ॥ स्थिरचित्तः स्थीरोत्साहः स्थिरशङ्गरचनान्वितः ॥ स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत् ॥ २१ ॥ रसस्तु प्रीणनो देहे जीवनो रुधिरस्तथा ॥ लेपनं च तथा मांसे मेदः स्नेहकरं च तत् ॥ २२ ॥ धारणं त्वस्थि कथितं मज्जा भवति पूरणे ॥ गर्भोत्पादकरं शुक्रं तथा वीर्यविवर्धनम् ॥ २३ ॥ तेजः प्राणकरं नित्यं तत्र जीवो व्यवस्थितः ॥ शुक्रादपि परं सारममृतं हृदयोपमम् ॥ २४ ॥ षडङ्गानि प्रधाना नि कथयिष्यामि ते शृणु ॥ द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ॥ २५ ॥ षड्त्वचः शरीरेऽस्मिन्कीर्त्यमाना निबोध मे ॥ बाह्यतो ह्यवरा राम त्वचा रुचिरचारिणी ॥ २६ ॥ विलासकारिणी चान्या चतुर्थी कुष्ठकारिणी ॥ पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ॥ २७ ॥