भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 562, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 562

वि० ध० ॥२६७॥

द्वि० खं० अ० १९५

कलाः सत्यस्मृता देहे तासां वक्ष्यामि लक्षणम् ॥ एका मांसधरा राम धमन्यो यत्र संस्थिताः ॥ २८ ॥ असृग्धरा द्वितीया तु यकृतप्लीहाश्रया मता ॥ मेदोधरा तृतीया स्यात्सूक्ष्मस्थूलाभया तु या ॥ २९ ॥ मज्जाश्रया चतुर्थी तु तथा श्लेष्मपरा मता ॥ पुरीषधारिणी चान्या यथा पक्वाशये स्थितेः ॥ ३० ॥ षष्ठी पित्तधरा नाम जठराग्नी समाश्रिता ॥ शुक्राशया शुक्रधरा तथा ज्ञेया च सप्तमी ॥ ३१ ॥ बुद्धीन्द्रियाणि पञ्चात्र श्रोत्रं घ्राणं च चक्षुषी ॥ त्वक् तथा रसना चैव महाभूताश्रयाणि तु ॥ ३२ ॥ इन्द्रियार्थांस्तथा पञ्च तेषां नामानि मे शृणु ॥ श्रोत्रस्य शब्दः कथितो गन्धो घ्राणस्य पार्थिवः ॥ ३३ ॥ रूपं च चक्षुषो ज्ञेयं त्वक् च संस्पर्शनं तथा ॥ रसनस्य रसश्चैव महाभूताश्रयास्तु ते ॥ ३४ ॥ कर्मेन्द्रियाणि पञ्चात्र तेषां नामानि मे शृणु ॥ पायूपस्थं हस्तपादौ जिह्वा चैवात्र पञ्चमी ॥ ३५ ॥ तेषामर्थांस्तथा पञ्च तानप्रवक्ष्याम्यतः परम् ॥ उत्सर्गं च तथानन्द आदानगमने तथा ॥ ३६ ॥ इन्द्रियाणि दशैतानि तेषां वै नायकं मनः ॥ पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च ॥ ३७ ॥ इन्द्रियार्थाश्च पञ्चात्र महाभूतानि पञ्च च ॥ इन्द्रियेभ्यः पराः प्रोक्ताश्चत्वारो भृगुनन्दन ॥ ३८ ॥ मनो बुद्धिरथैवात्मा अव्यक्तञ्च महाभुज ॥ तदाश्रयाणीन्द्रियाणि इन्द्रियेभ्यः पराश्च ते ॥ ३९ ॥ तत्त्वान्येतानि जानीहि चतुर्विंशतिसंख्यया ॥ येषामैक्यं महाभाग पुरुषः पञ्चविंशकः ॥ ४० ॥ संशयंस्तद्विधुंश्चैव तथा मत्स्योदके उभे ॥ मनः संशयकृन्नित्यं तथा बुद्धिश्चिवेचनी ॥ ४१ ॥ आत्मा जीवः स्मृतो राम यो भोक्ता सुखदुःखयोः ॥ अव्यक्तो मिश्रितानीह रजःसत्वतमांसि च ॥ ४२ ॥ पुरुषस्त्वपरो ज्ञेयो यश्च सर्वगतो महान् ॥ चतुर्विंशतिकासंख्याद्यः स नित्यः पृथक् स्थितः ॥ ४३ ॥ एकत्रिंशानि तत्त्वानि पुरुषस्य तथैकतः ॥ न चैव व्यतिरिक्तानि तत्त्वानि पुरुषात्परम् ॥ ४४ ॥ प्रकृतिः पुरुषो राम निष्कलः पञ्चविंशकः ॥ विकृतिस्तस्य विज्ञेया शेषस्तत्त्वगणो बुधैः ॥ ४५ ॥ सर्वतः पाणिपादोऽसौ सर्वतोऽक्षिशिरोमुखः ॥ पुरुषः स परो ज्ञेयः सर्वशक्तिस्तु सर्वतः ॥४६॥नादिर्न मध्यो नैवान्तो व्याप्तिसम्भवयोर्द्वयोः ॥ यस्य जानन्ति मुनयो यस्तं वेद स वेदवित् ॥ ४७॥स याति परमं स्थानं यो वेति पुरुषं परम् ॥ एतदेव च विज्ञानं प्रस्तुतं शृणु भार्गव ॥ ४८ ॥ सप्तमाशयाः स्मृता देहे शृणु तानपि भार्गव ॥ आशयो रुधिरस्यैकः कफस्य च तथा परः ॥ ४९॥ आमाशयाथो चान्यौ ज्ञेयः पक्वाशयोऽपरः ॥ वायुमाश्रयागो चान्यो आशयाः सप्त कीर्तिताः॥५०॥ स्त्रीणां गर्भाशयो राम पित्तपक्वाशयान्तरे ॥ अष्टमः स भवेत्तासां यत्र गर्भः स तिष्ठति ॥ ५१ ॥ ऋतौ विकोशा भवति योनिः कमलवत्सदा ॥ गर्भाशये ततः शुक्रं धृते रक्तसमन्वितम् ॥ ५२ ॥ अन्यत्र काले मुकुला योनिर्भवति योषिताम् ॥ न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं

॥२६७॥