विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 563, कुल 1001 में से
संदर्भ में पढ़ेंसुने ॥ ५३ ॥ ऋतावपि च योनिश्चेद्वातपित्तकफावृता ॥ भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते ॥ ५४ ॥ वृद्धा तु पुष्पसङ्ग्रहे हत्कोष्ठाद्यक्कुद धनाः ॥ तण्डुलञ्च महाभाग निबद्धाश्चाशये तु ते ॥ ५५ ॥ रसस्य पच्यमानस्य सारोद्भवति देहिनाम ॥ प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च फुक्फसः ॥ ५६ ॥ रक्तात्कीटश्च भवति तथा दुण्डुकसंज्ञकः ॥ मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः ॥ ५७ ॥ रक्तमांसप्रसादान्नश्च भवन्त्य न्त्राणि देहिनाम ॥ सावित्रियोमसंख्यानि तानि स्त्रीणां विनिर्दिशेत ॥ ५८ ॥ त्रिब्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः ॥ रक्तवायुसमायोगे गताल्कालो यस्योद्भवः स्मृतः ॥ ५९ ॥ कफप्रसादाद्भवति हृदयं पद्मसंन्निभम् ॥ अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः ॥ ६० ॥ चैतन्यालु गता भावाः सर्वे तत्र व्यवस्थिताः ॥ तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत ॥ ६१ ॥ दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम ॥ स्त्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु ॥ ६२ ॥ तेषां भूताणुनां तु भवतीन्दूसमुद्भवः ॥ नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पौत्तिकम् ॥ ६३ ॥ कृष्णं च मण्डलं वातातथा भवति मातृकम् ॥ सर्वदृङ्मण्डलं ज्ञेयं मातापितृसमुद्भवम् ॥ ६४ ॥ पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम् ॥ शुक्लं तृतीयं कथितं चतुर्थं कृष्णमण्डलम् ॥ ६५॥ दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम् ॥ अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके ॥ ६६॥ याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज ॥ नासामीपे कथितं तदपाङ्गेतिसंज्ञितम् ॥ ६७ ॥ कपोलयोः समीपे तु तथा प्रोक्ता कनी निका ॥ मांसामृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा ॥ ६८ ॥ वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम ॥ प्राणस्यायतनान्यत्र दशैतानि निबोध मे ॥ ६९॥ मूर्धा च हृदयं नाभि कण्ठो जिह्वानिबन्धनम् ॥ रक्तं शुक्लं गुदो बस्तिस्तस्तथा श्लूक्तौ च भार्गव ॥ ७० ॥ कण्डगः षोडश प्रोक्ता स्तथा देहे शरीरिणाम् ॥ द्वे हस्त्ये तथा द्वे च चरणस्य पृथक्पृथक् ॥ ७१ ॥ चतस्रः पृष्टगा ज्ञेया ग्रीवायां तावदेव तु ॥ जलांनि षोडशौवान विभागस्तेषु कथ्यते ॥ ७२ ॥ मांसस्नायुशिरास्थिम्यः चत्वारस्तु पृथक्पृथक् ॥ मणिबन्धानि गुल्फेषु निबद्धानि परस्परम् ॥ ७३ ॥ शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा ॥ ग्रीवायां च तथा मन्द्रे कथितानि मनीषिभिः ॥ ७४ ॥ देहंडियाश्च तथा ज्ञेयाश्चतसो पांशुराजवः ॥ पृष्टवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते ॥ ७५ ॥ तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः ॥ सीवन्त्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ॥ ७६॥ एका मेढ्रगता चैका तथा जिह्वागता परा ॥ अस्थ्नामात्र शतानि स्युस्त्रीणि षट्षधिकानि तु॥७७॥ सूक्ष्मैः सह चतःषष्टि दर्शना विंशतिर्नखाः ॥ पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥ ७८ ॥ चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु ॥ द्वे द्वे जानुकपोलेऽक्षफलकांससमुद्भवे ॥ ७९ ॥