भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

सुने ॥ ५३ ॥ ऋतावपि च योनिश्चेद्वातपित्तकफावृता ॥ भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते ॥ ५४ ॥ वृद्धा तु पुष्पसङ्ग्रहे हत्कोष्ठाद्यक्कुद धनाः ॥ तण्डुलञ्च महाभाग निबद्धाश्चाशये तु ते ॥ ५५ ॥ रसस्य पच्यमानस्य सारोद्भवति देहिनाम ॥ प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च फुक्फसः ॥ ५६ ॥ रक्तात्कीटश्च भवति तथा दुण्डुकसंज्ञकः ॥ मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः ॥ ५७ ॥ रक्तमांसप्रसादान्नश्च भवन्त्य न्त्राणि देहिनाम ॥ सावित्रियोमसंख्यानि तानि स्त्रीणां विनिर्दिशेत ॥ ५८ ॥ त्रिब्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः ॥ रक्तवायुसमायोगे गताल्कालो यस्योद्भवः स्मृतः ॥ ५९ ॥ कफप्रसादाद्भवति हृदयं पद्मसंन्निभम् ॥ अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः ॥ ६० ॥ चैतन्यालु गता भावाः सर्वे तत्र व्यवस्थिताः ॥ तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत ॥ ६१ ॥ दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम ॥ स्त्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु ॥ ६२ ॥ तेषां भूताणुनां तु भवतीन्दूसमुद्भवः ॥ नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पौत्तिकम् ॥ ६३ ॥ कृष्णं च मण्डलं वातातथा भवति मातृकम् ॥ सर्वदृङ्मण्डलं ज्ञेयं मातापितृसमुद्भवम् ॥ ६४ ॥ पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम् ॥ शुक्लं तृतीयं कथितं चतुर्थं कृष्णमण्डलम् ॥ ६५॥ दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम् ॥ अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके ॥ ६६॥ याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज ॥ नासामीपे कथितं तदपाङ्गेतिसंज्ञितम् ॥ ६७ ॥ कपोलयोः समीपे तु तथा प्रोक्ता कनी निका ॥ मांसामृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा ॥ ६८ ॥ वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम ॥ प्राणस्यायतनान्यत्र दशैतानि निबोध मे ॥ ६९॥ मूर्धा च हृदयं नाभि कण्ठो जिह्वानिबन्धनम् ॥ रक्तं शुक्लं गुदो बस्तिस्तस्तथा श्लूक्तौ च भार्गव ॥ ७० ॥ कण्डगः षोडश प्रोक्ता स्तथा देहे शरीरिणाम् ॥ द्वे हस्त्ये तथा द्वे च चरणस्य पृथक्पृथक् ॥ ७१ ॥ चतस्रः पृष्टगा ज्ञेया ग्रीवायां तावदेव तु ॥ जलांनि षोडशौवान विभागस्तेषु कथ्यते ॥ ७२ ॥ मांसस्नायुशिरास्थिम्यः चत्वारस्तु पृथक्पृथक् ॥ मणिबन्धानि गुल्फेषु निबद्धानि परस्परम् ॥ ७३ ॥ शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा ॥ ग्रीवायां च तथा मन्द्रे कथितानि मनीषिभिः ॥ ७४ ॥ देहंडियाश्च तथा ज्ञेयाश्चतसो पांशुराजवः ॥ पृष्टवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते ॥ ७५ ॥ तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः ॥ सीवन्त्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः ॥ ७६॥ एका मेढ्रगता चैका तथा जिह्वागता परा ॥ अस्थ्नामात्र शतानि स्युस्त्रीणि षट्षधिकानि तु॥७७॥ सूक्ष्मैः सह चतःषष्टि दर्शना विंशतिर्नखाः ॥ पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥ ७८ ॥ चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु ॥ द्वे द्वे जानुकपोलेऽक्षफलकांससमुद्भवे ॥ ७९ ॥

अस्थिस्यलट्टकं श्रोणिफलके चैवमादिशेत् ॥ भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ॥ ८० ॥ ग्रीवापञ्चदशास्थीनि जत्र्वेकं च तथा हनुः ॥
भ्रमूले द्वे ललाटाक्षिगण्डनासा तथास्थिका ॥ ८१ ॥ सङ्ककास्थ्यालकौ• सार्थमर्बुदैश्च द्विसप्ततिः ॥ द्वौ शङ्कौ कपालानि चत्वार्यथ शिर
स्तथा ॥ ८२ ॥ उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ तथा चैवात्र सन्धीनां द्वे शते तु शताधिके ॥ ८३ ॥ अष्टषष्टिश्च शाखासु पार्श्वके
कविवर्जिता ॥ अन्तराधौ त्वशीतिश्च कथिता मुनिनन्दन ॥ ८४ ॥ न च स्नायुशतान्यत्र द्वे तु त्रिंशाधिके मते ॥ अन्तराधौ तु कथिता ह्यक्ष्णो
श्चैव ससप्ततिः ॥ ८५ ॥ षट्कृतानि च शाखासु कथितानि मनीषिभिः ॥ पञ्चषष्टिशतान्यत्र चत्वारिंशत्तथोर्ध्वगाः ॥ ८६ ॥ चत्वारिंशच्छतान्यन्य
तथा शाखासु पण्डितैः ॥ अन्तराधौ तथा षष्टिः पञ्चस्तु कथिता बुधैः ॥८७॥ स्त्रीणां चैवाधिका ज्ञेया विशतिश्चोत्तरा तथा ॥ स्तनयोर्दश विज्ञेया
योनौ राम तथा दश ॥ ८८ ॥ गर्भाशये तथा ज्ञेयाश्चतस्रो गर्भचिन्तकैः ॥ त्रिंशच्छतसहस्राणि तथान्यानि दशैव तु ॥ ८९ ॥ पदूश्वास्तत्सह
स्राणि शिराणां कथितानि तु ॥ ता वहन्ति रसं देहे केदारमिव कुल्यकाः ॥ ९० ॥ अर्धाङ्गुलि तथा सर्व स्वेदलोपादिकं च यत ॥ द्विसप्तति
स्तथा कोट्यो रोम्णां विद्धि महासुज ॥ ९१ ॥ मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ॥ मूत्रस्य चैव पित्तस्य श्लेष्मणः शुक्रतस्तथा ॥ ९२ ॥
रक्तस्य च रसस्याथ क्रमशोञ्जलयः स्मृताः ॥ अर्धार्धाभ्यधिकाः सर्वाः पूर्वाञ्चाञ्जलिभिः स्मृताः ॥९३॥ अर्धाञ्जलिश्च शुक्रस्य शुक्रस्य तथाधं च
तथौजसः ॥ रजस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः ॥९४॥ समधातोरिदं प्रोक्तं प्रमाणं देहचिन्तकैः ॥ विलक्षणानि देहानि नित्यमेव शरी
णाम् ॥ तेषां भेदेन भिद्यन्ते मलदोषाणुरूपतः ॥ ९५ ॥ एतच्छरीरं मलदोषपिण्डं धातुवाश्रयं कर्मपाशाशयश्च ॥ मोक्षाय यत्न्यं भवेत्स धन्यो
मोक्षे च हेतुः परमो हि विष्णुः ॥९६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शरीरविषयवर्णनन्नाम पञ्चदशो-
त्तरशततमोऽध्यायः ॥ ११५ ॥ पुष्कर उवाच ॥ आयुषि कर्मणि क्षीणे संप्नाप्ते मरणे नृणाम् ॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥ १ ॥
शरीरमुपकुप्याथ रुन्त्स्यान्दानोदकान्गदि दै ॥ भिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥ २ ॥ शैत्यात्प्रकुपितो वायुश्छिद्रमन्वित्यवे
ततः ॥ द्वे नेत्रे च तथा कर्णौ द्वौ तु नासापुटो तथा ॥३॥ ऊर्ध्वं तु सप्त छिद्राणि सप्तकं वदनं तथा ॥ एतैः प्राणो विनिर्याति प्रायशः शुभक
र्मणाम् ॥ ४ ॥ अधः पायुरुपस्थं च छिद्रद्वयमुदाहृतम् ॥ छिद्रद्वयेन तेनाथ म्रियन्तेऽशुभकारिणः ॥ ५ ॥ मूर्धानं योगिनां भित्त्वा जीवो व्रजति
भार्गव ॥ अथवा स्वेच्छया राम येन चेच्छन्ति योगिनः ॥ ६ ॥ अन्तकाले तु सम्प्राप्ते प्राणापानेव्यवस्थितः ॥ तमसा संवृते ज्ञाने संवृतेषु च

मर्मसु ॥ ७ ॥ स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना ॥ स जीवश्वास्यमानस्तु कर्मभिस्तैः पुरातनैः ॥ ८ ॥ अप्राज्ञां प्राणवृत्तिं तां शनै-
श्च्यावयते द्विज ॥ शरीरं प्रजहात्यस्मात्रिश्वासस्तु भवेत्ततः ॥ ९ ॥ च्यवन्तं जायमानं वा प्रविशन्तं च योनिषु ॥ पश्यन्त्येवंविधं सिद्धा
जीवं दिव्येन चक्षुषा ॥ १० ॥ स तु देहपरित्यागकाले प्राप्ते तदानघ ॥ तत्क्षणादेव गृह्णाति शरीरमतिवाहिकम् ॥ ११ ॥
ऊर्ध्वं भजन्ति भूतानि त्रीण्येस्मात्तस्य विग्रहात् ॥ आकाशवायुतेजांसि द्वे चाधो भृगुनन्दन ॥ १२ ॥ सलिलं च महाभाग तथैव च वसुन्धरा ॥
एवं पञ्चत्वमापन्नः पुरुषस्त्वभिधीयते ॥ १३ ॥ एवं पञ्चत्वमापन्ने तद्देहमतिवाहिकम् ॥ भयानकंयमैर्घोरैर्नानारूपैश्चसंस्थिता ॥ १४ ॥ उच्छ्रस्तस्य
तदा बद्धं कालपाशेन सत्वरम् ॥ नीयते कालपुरुषैर्गम्यं मार्गं सुदुस्तरम् ॥ १५ ॥ तप्ताम्बरोपसङ्काशं खद्योतनिभं महत् ॥ संतप्तसिकतं घोरं
ताम्रपर्णनिभं तथा ॥ १६ ॥ षडशीतिसहस्राणि योजनानां महीतलम् ॥ यमस्य तु पुरी राम घोरा संयमनी स्मृता ॥ १७ ॥ नीयते तेन मार्गेण
तादृशेन तु तां पुरीम् ॥ आकृष्यमाणः पुरुषैर्यमैर्घोरैर्महीतले ॥ १८ ॥ पीडामनुभवंस्तत्र म्रियते न च मानद ॥ अत्यर्थविषमः स्रोतः स मार्गो
घोरदर्शनः ॥ १९ ॥ विषरूपधरो राम भुवि शीताकृतो महान् ॥ हिमप्रपातबहुलाश्चातिशीतः सुदुस्तरः ॥ २० ॥ अन्धकारवृते दुर्गे गर्भवासोपमस्तथा ॥
अग्निसंस्पर्शवदनैः काककोकोलजम्बुकैः ॥ २१ ॥ मक्षिकादंशमशकैरावृतः सर्पवृश्चिकैः ॥ भक्ष्यमाणोऽपि तैर्जन्तुर्भिद्यते चापि राक्षसैः ॥ २२ ॥
उत्कृत्योत्कृत्य सहसा न च प्राणैर्वियुज्यते ॥ मुद्गरैश्चूर्णयते घोरैस्तुद्यते लोहकण्टकैः ॥ २३ ॥ क्षुधया तृषया चैव धोग्या चापि पीड्यते ॥
दह्यमानोऽतिघोरेण सैकतेन च नीयते ॥ २४ ॥ एवं संप्राप्यमानस्तु प्राप्यते यममन्दिरम् ॥ दशभिः स मुहूर्त्तैस्तु पन्थानमतिदुस्तरम् ॥ २५ ॥
प्राप्नोति भीमिनिर्घोषं दुर्गन्धभयदर्शनम् ॥ तत्कालं सुमहद्भीतो पुरुषो देवमायया ॥ २६ ॥ पापानुरूपं तत्कालं तस्य तत्राभिजायते ॥ कस्यचि-
द्दिशते कालं कस्यचिच्छतसम्भवम् ॥ २७ ॥ क्षुत्तृष्णासम्भवाश्चैव भवन्त्यथ महाभयाः ॥ दण्डपिण्डुष्य धर्मज्ञ प्रेतत्वमुपजायते ॥ २८ ॥ प्रेत-
लोके स वसति ततः संवत्सरं नरः ॥ सोदकुम्भमथोन्नान्नं बान्धवैस्तस्य दीयते ॥ २९ ॥ दिनेदिने यद्धर्मज्ञ तद्भुङ्क्ते नात्र संशयः ॥ न दीयते तु
यस्यैतत्स तु तत्र यथा स्वयम् ॥ ३० ॥ पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव तु ॥ स्वयमंत्र न दत्तं तु तथा दाता न विद्यते ॥ ३१ ॥
न चास्त्युदकदाता च स तु तत्परितप्यते ॥ बान्धवैर्वस्तुदकं दत्तं तन्न तत्रास्य जायते ॥ ३२ ॥ नदी शीतलजला नाम बहुपानीयसंयुता ॥ मासि


१ 'यममन्दिरम्' इति पुस्तकान्तरे पाठः ।
४४

वि० ध०द्वि० खं०
॥२६१॥अ० ११७

मासि च यच्छ्राद्धं तस्य तत्र प्रदीयते ॥ ३३ ॥ तेन तृप्तिमवाप्नोति परमां नात्र संशयः ॥ मानुष्येण तु मासेन पितृलोके दिनं स्मृतम् ॥ ३४ ॥ प्रेतलोके तु दिवसो मानुष्येण विधीयते ॥ तस्माद्दिनेदिने देयं प्रेतायान्नं तु वत्सरम् ॥ ३५ ॥ एवं स याप्यमानस्तु प्राप्नोति यममन्दिरम् ॥ ततः पश्यत्यसौ देवं पापात्मा घोरदर्शनम् ॥ ३६ ॥ चित्रगुप्तस्ततस्तस्य ज्ञात्वा कर्म यथाविधम् ॥ आज्ञापयति धर्मज्ञ शुभं वा यदि वाशुभम् ॥३७॥ ततः श्मशानिका नाम देवा याम्या भयावहाः ॥ शीतवातातपतपेते तदा रक्षन्ति मानवम् ॥ ३८ ॥ यथेह बन्धने कश्चिद्दृश्यते विषमंनरैः ॥ प्रेत पिण्डेस्ततो दत्तेर्द्दशमासेति भार्गव ॥ ३९ ॥ भोगदेहस्थितिं भोक्तुं क्रमादेव न संशयः ॥ प्रतिपीडा न दीयन्ते यस्य तस्य विमोक्षणम् ॥ ४० ॥ श्म शानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ॥ तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥ ४१ ॥ ततः सपिण्डीकरणे बान्धवैश्च कृते नरः ॥ पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥ ४२ ॥ ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ॥ ततः स कालं वसति कर्मणामनुरूपतः ॥ ४३ ॥ अर्वाक् सपिण्डीकरणं यस्य संवत्सरात्कृतम् ॥ प्रेतत्वमपि तस्यापि शीघ्रं संवत्सरं ध्रुवम् ॥ ४४ ॥ यैरिटं विविधैर्यज्ञैः पूजितौ यैश्च केशवः ॥ प्रेतलोकं न ते यान्ति तथाये समरे हताः ॥ ४५॥ श्मशानिकानां देवानां भवन्ति वशगा न ते प्रेतलोकं प्रपद्यन्ते तथा घोरं भयावहम् ॥ ४६ ॥ एवं यात्येन मार्गेण यान्ति पापा नराधमाः ॥ आरामसदनं यान्ति तथैव द्रुमरोपकाः ॥४७॥ शीतलेन तु मार्गेण फलपुष्पवता सुखम् ॥ छत्रदाश्च सुखं यान्ति मार्गेण सुखेन ते ॥ ४८ ॥ यानमश्वतरीयुक्तमाश्रयायोपनाहप्रदाः ॥ विमानैर्यानविन्दा यान्ति तथा शय्यासनप्रदाः ॥ ४९ ॥ गृहदाः सविहान्तु यान्ति तथा जलप्रदाः ॥ भक्ष्यैर्भोज्यैस्तथा तृप्ता यान्ति भोजनदायिनः ॥ ५० ॥ दीपप्रदाः प्रकाशेन यान्ति मार्गेण ते सुखम् ॥ पूज्यमाना यमभटैर्यन्ति भक्ता जनार्द्दनम् ॥ ५१ ॥ नास्ति तेषां भयं किञ्चिदिहलोके परत्र च ॥ ते तृप्ताः सर्वकामैश्च तरसा यान्ति मानवाः॥ ॥ ५२ ॥ बुद्धिं समास्थाय तु सात्त्विकीं ये भक्ताः सुरेशस्य जनार्द्दनस्य ॥ तेषां गतिस्तत्र तु यत्र राम श्वेताः पुमांसो गतसर्वपापाः ॥ ५३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने यममार्गावणनोनाम षोडशोत्तरशततमोऽध्यायः ॥ ११६॥राम उवाच ॥ भगवञ्श्रोतु मिच्छामि ये नराः स्वर्गगामिनः ॥ केन धर्मभृतां श्रेष्ठ तथा निरयगामिनः ॥ १ ॥ पुष्कर उवाच ॥ आश्रमस्थेु यथोक्तेषु वर्तन्ते ये द्विजोत्तमाः ॥ स्वधर्मसक्ताः सततं ते नराः स्वर्गगामिनः॥२॥वर्तन्ते ये महीपाल राजधर्मानुसारतः ॥ पुरोहितमते युक्ता राजानः स्वर्गगामिनः ॥ ३ ॥ प्रजासुखे सुखं येषां तद्दुःखे ये च दुःखिताः ॥ दुष्टनिग्रहकर्त्तारो ज्ञेयास्ते स्वर्गगामिनः ॥४॥ स्वाम्यर्थे ब्राह्मणार्थे वा मित्रकार्य्ये च ये हताः ॥ गोष्ठे निहता

॥२६१॥

ये च ते नराः स्वर्गगामिनः ॥ ६ ॥ देहंधातून्परित्यज्य सलिलारण्यवह्निषु ॥ अनशने वा धर्मज्ञा मृताः स्युः स्वर्गगामिनः ॥ ६ ॥ तीर्थयात्रा प्रसक्ताश्च नित्यमध्वनि कर्षिताः ॥ तपसा कर्षिता ये च ते ज्ञेयाः स्वर्गगामिनः ॥ ७ ॥ मधुमांसानिवृत्ताश्च निवृत्ता मधुपानतः ॥ कामधेनुव्रतं श्चापि विज्ञेयाः स्वर्गगामिनः ॥ ८ ॥ मातापितृपरा दान्ता गुरुभक्ताः प्रियंवदाः ॥ सत्यार्जवरता ये च ते नराः स्वर्गगामिनः ॥ ९ ॥ वैशा- कानां वस्त्राणां प्रपाणां ये प्रदायिनः ॥ उद्यानारामकर्त्तारस्ते नराः स्वर्गगामिनः ॥ १० ॥ तडागकूपकर्त्तारस्तथा शय्याप्रदायकाः ॥ छत्रोपानत्प्रदा- तारस्ते नराः स्वर्गगामिनः ॥ ११ ॥ इन्धनानां प्रदातारस्तथा गोयामदायिनः ॥ गवां शुश्रूषका ये च ते नराः स्वर्गगामिनः ॥ १२ ॥ परोपकार- सक्ताश्च परवञ्चविवर्जकाः ॥ पूज्यपूजयितारश्च ते नराः स्वर्गगामिनः ॥ १३ ॥ स्वाध्यायसक्ता धीमन्तो गुरुशुश्रूषणे रताः ॥ उपासकाश्च वृद्धा- नां ते ज्ञेयाः स्वर्गगामिनः ॥ १४॥ प्रतिश्रयप्रदातारस्तथा ये सत्रदायकाः ॥ भक्ता गोद्विजविप्राणां ते नराः स्वर्गगामिनः ॥ १५ ॥ श्रोतारो ये च धर्म्मानां ये तथा यज्ञयाजिनः ॥ उपवासरता ये च ते ज्ञेयाः स्वर्गगामिनः ॥ १६ ॥ कृशाननुभवन्तीह शास्त्राध्ययनतत्पराः ॥ शास्त्राणां च हिते युक्तास्ते ज्ञेयाः स्वर्गगामिनः ॥ १७॥ आर्त्तानामप्रदा ये च ये च हिंसाविवर्जकाः ॥ अभीताश्च भयात्तानां ते नराः स्वर्गगामिनः॥ ॥१८॥दादिङ्गाश्च दातारः प्रभवश्च क्षमान्विताः ॥ यौवनस्थाश्च ये शान्तास्ते नराः स्वर्गगामिनः ॥१९॥ पौत्रदौहित्रसंयुक्ता ये तथा चिरजीवि- नः॥प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः॥२०॥ पोषकाणामनाथानां ये चैवोद्वाहककारिणः॥द्विरागमनदा ये च ते नराः स्वर्गगामिनः॥२१॥ ग्रहाणां पूजका ये च तथा श्राद्धकारिणः ॥ संविभागकरा ये च ते नराः स्वर्गगामिनः ॥ २२ ॥ सर्वासां देवतानां च ये च पूजारताः सदा ॥ सर्वदानरता ये च ते नराः स्वर्गगामिनः ॥ २३ ॥ अहताश्च तथा तत्र कृत्वा कर्मातिदुष्करम् ॥ कालेनापि मृता राम ते नराः स्वर्ग- गामिनः ॥२४॥ ये भक्तिमन्तो मधुसूदनस्य देवेश्वरस्याप्रतिमस्य नित्यम् ॥ सत्त्वेन हीना रजसा विमुक्तास्ते यान्ति नाकं सुरसंघपूज्याः॥२५॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्वर्गभागवर्णनन्नाम सप्तदशोत्तरशततमोऽध्यायः॥११७॥ पुष्कर उवाच ॥ महापातकिनो ये च ये च पातकिनो जनाः ॥ मांसाशिनो नरा ये च तथा येऽन्यायगामिनः ॥ परदाररता ये च ते वै निरयगामिनः ॥ १ ॥ अतिक्रामन्ति ये भार्या पीडयन्ति च ये नरान् ॥ ये समासञ्जयन्ते तै वै निरयगामिनः ॥ २ ॥ बहुभार्याश्च भार्यासु वर्तन्ते न समं च ये ॥ ऋतुकालहरा ये च ते वै निरयगामिनः॥३॥ सम्यग्भर्तृषु या नार्यो वर्त्तन्ते नावलेपतः ॥ अप्रिये च तथा सक्ता ज्ञेयास्ता निरयङ्गमाः॥४॥

वि० ध० ॥२६०॥

द्वि० सं० अ० ११८

भर्तारमवमन्यन्ते भाषन्ते विप्रियाणि च ॥ स्वातन्त्र्येण च वर्तन्ते ज्ञातय्या निरयुङ्क्ष्माः ॥ ५॥ राजशास्त्रापदेशं ये संत्यज्य वसुधाधिपाः ॥ वर्तन्ते सर्वकार्येषु ते वै निरयगामिनः ॥ ६ ॥ वर्णाश्रमोक्तं वर्तन्ते धर्मं त्यक्त्वा तु ये नराः ॥ बहिःशास्त्रान्महाभाग ते वै निरयगामिनः ॥ ७ ॥ अयाज्ययाजिनो ये च कूटसाक्ष्यप्रदाश्च ये ॥ तथानृतगता ये च ते वै निरयगामिनः ॥ ८ ॥ व्यवहारेषु ये सक्ताः पक्षपाताभिधायिनः ॥ असम्य- ग्दर्शिनो ये च ते वै निरयगामिनः ॥ ९ ॥ प्रीयमाणे परिजने मिष्टमश्नन्ति ये नराः ॥ असंविभज्य धर्मज्ञ ते वै निरयगामिनः ॥ १० ॥ भृतकास्त महाभाग कुर्वन्ते नैव ये भृतम् ॥ अनिर्दिष्टमुपञ्चैव ते वै निरयगामिनः ॥ ११ ॥ वञ्चका भृतकानां च तथैवाश्रितवञ्चकाः ॥ वञ्चकाश्च तथाऽन्येषां ज्ञेया निरयगामिनः ॥ १२ ॥ कृतघ्ना निर्गुणा ये च परस्वादायिनश्च ये ॥ शठाचाराश्च मित्राणां ते वै निरयगामिनः ॥ १३ ॥ गवां पानप्रवृत्तानां ये तथा विघ्नकारिणः ॥ तथाऽन्येषां च भूतानां ते वै निरयगामिनः ॥ १४ ॥ धर्मकार्यप्रवृत्तस्य ये नरा विघ्नकारिणः ॥ पापप्रोत्साहकाश्चैव ते वै निरयगामिनः ॥ १५॥ त्यागिनस्त्वन्निराश्रितानां ये ऋत्विजां त्यागिनश्च ये ॥ याज्यानां च गुरूणां च ते वै निरय- गामिनः ॥ १६ ॥ त्यागिनो देवतानां च वह्नीनां त्यागिनश्च ये ॥ शास्त्राणां त्यागिनो ये च ते वै निरयगामिनः ॥ १७ ॥ बालकातिथिविप्राणां सुराणां चैव मानद ॥ ये च पूर्वभुजो नित्यं ते वै निरयगामिनः ॥ १८ ॥ रजस्वलां च ये यान्ति ये च प्रेत्यकरां स्त्रियम् ॥ वियोनिं ये च गच्छन्ति ते वै निरयगामिनः ॥ १९ ॥ शुक्लं त्यजन्त्ययोनौ ये तथाकाशे च निर्घृणाः ॥ पर्वस्वपि च धर्मज्ञ ते वै निरयगामिनः ॥ २०॥ अनध्यायेशु ये राम स्वाध्यायमिह कुर्वते ॥ निन्दन्ति च गुरून्थे वै ते वै निरयगामिनः ॥ २१॥ देवतानां च वेदानां ब्राह्मणानां च निन्दकाः ॥ पुराणचरितानां च ते वै निरयगामिनः ॥ २२ ॥ ये नास्तिका नरा राम ये च श्रद्धाविव- र्जिताः ॥ अहङ्कारगृहीताश्च ते वै निरयगामिनः ॥ २३॥ कुकर्मसक्ता मनुजाः सुकर्मपरिवर्जकाः ॥ स्वामिमित्रद्रुहो ये च ते वै निरयगामिनः ॥ २४॥ ये च द्रोहरता राज्ञां ब्राह्मणानां गवामपि ॥ सुहृदामपि धर्मज्ञ ते वै निरयगामिनः ॥ २५ ॥ ये तु पैशुन्यसंसक्ताः परधर्मस्पृशोऽपि च ॥ अशुचयश्च तथा मद्यैस्ते वै निरयगामिनः ॥ २६ ॥ सोमविक्रयिणो ये च बीजविक्रयिणस्तथा ॥ आत्मविक्रयिणो ये च ज्ञेया निरयगामिनः ॥ २७ ॥ रजः पश्यन्ति धर्मज्ञ येषां वेश्मनि कन्यकाः ॥ शुल्कं च दत्ता सा यैश्च ते वै निरयगामिनः ॥ २८ ॥ ब्रह्महाभ्रूणहावानां च ये नरा भेदवादिनः ॥ तमोऽभिभूताः पतितास्ते वै निरयगामिनः ॥ २९॥ कुलजानां सपिण्डानां ये च पिण्डविलोपकाः ॥ अश्राद्धदाश्च पूर्वषां ते वै निरयगामिनः ॥ ३०॥

॥२६०॥

कामात्मानो नरा ये च ये तथाधर्मपरायणाः ॥ ये च धर्मद्विषो लोके ते वै निरयगामिनः ॥ ३१ ॥ नाभिपश्यन्ति ये शक्त्या दीनमातुरामाश्रितम् ॥ आर्तं च नाभिधावन्ति ते वै निरयगामिनः ॥३२॥ ये चावहासं कुर्वन्ति दीनानां मानगर्विताः ॥ अनागसं परिभवन्त्येते निरयगामिनः ॥ ३३ ॥ पीडामथोत्पाद्य नरस्य राम यथाकथंचिन्नरकं प्रयाति ॥ तस्मात्प्रयत्नेन विवर्जनीया परस्य पीडा मनुजेन राम ॥ ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने निरयगामिवर्णनन्नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ ॥ राम उवाच ॥ नामानि नरकाणां च यातना विविधास्तथा ॥ भगवञ्छ्रोतुमिच्छामि पुंसां नरकगामिनाम् ॥ १ ॥ पुष्कर उवाच ॥ तामिस्रं मन्धतामिस्रं महारौरवरौरवौ ॥ नरकं कालसूत्रं च महानरकमेव च ॥२॥ संजीवनं महावीचिं तपनं संप्रतापनम् ॥ संघातं च सकाकोलं कश्मलं प्रतिमृत्तिकम् ॥ ३ ॥ लोहशंक

वि० ध० ॥२६१॥

द्वि० खं० अ० ११९

तेन महतीं वेदनां गतान् ॥ २१ ॥ त्वचमुत्कृत्य चान्यत्र शुनां नरकवासिनः ॥ त्यजन्ति ते च भक्ष्यन्ते तीक्ष्णदंष्ट्रैर्मुहुर्मुहुः ॥ २२ ॥ अन्धकारे तथान्यत्र भीमगन्धे भयावहे ॥ अत्युष्णे तैश्च पात्यन्ते गर्भवाससमे जनाः ॥ २३ ॥ काकैकङ्कैर्गृध्रैरायुविभिः सर्पैर्वृश्चिकैर्मूषकैरपि ॥ मक्षिकामिश्च भक्ष्यन्ते तेषामन्यत्र शासनात् ॥ २४ ॥ अन्यत्र शाल्मलिं घोरं संततं तीक्ष्णकण्टकम् ॥ सर्पकीटादिसंयुक्तमारोह्यन्ते नराधमाः ॥ २५ ॥ अन्यत्र च तथा घोरां सन्तप्तामयसः शिलाम् ॥ आलिङ्गन्ते मुहुः स्पर्शात्तेषामेव तु शासनात् ॥२६॥ अन्यत्रास्रौघवसतो वसन्ति भयपीडिताः ॥ तत्र तेषां तु नासाक्षिकर्णवक्त्रेषु मानद ॥ २७ ॥ प्रविशन्ति महाभागाः कृमयो मांसभोजिनः ॥ क्षारनद्यां तथैवान्ये पात्यन्ते नारकाञ्छुशुः ॥२८॥ बहुशीतान्धकारे च पात्यन्ते नरके परे ॥ रक्ततोयवहामन्ये प्रपद्यन्ते महानदीम् ॥२९॥ असिपत्रवने चान्ये कृष्यन्ते भीमदर्शनाः ॥ तृष्णया क्षुधया चान्ये बाध्यन्ते तत्र मानवाः ॥ ३० ॥ पाराश्वानं लिप्सन्तस्ताड्यन्ते कूटमुद्गरैः ॥ पाययन्ति तथाप्यत्र पारायन्मयमदास्तथा ॥ ३१ ॥ कूटौगा तीव्रधूममथोवक्राञ्चन्द्धा वृक्षेषु मानद ॥३२॥ त्वचोत्कर्त्तनमन्यत्र तिलशः क्रियते भटैः ॥३२॥ काष्ठाञ्चन्यत्र बध्यन्ते नारकाणां तथास्थिषु ॥ ३४॥ सन्तप्ते रप्रमाणैश्च तथा देहैर्भयार्दिताः ॥३३॥ सूचीवक्त्रैस्तथान्त्रेषु पात्यन्ते क्षुधया भृशम् ॥ सिच्यन्ते च तथान्यत्र तैलेन च गुडेन च ॥३४॥ सन्तप्ते न महाभाग भृशं दुःखप्रदायिनाम् ॥ अन्यत्र जातपिटकाः सरुजाविह्वलाः॥३५॥ घोरात्पर्षविनिस्त्रिशता भक्ष्यन्ते च पिपीलिकैः॥ सूत्रेणान्यत्र छिद्यन्ते पादतः प्रभृति क्रमात् ॥ ३६ ॥ तिलशो मुहुशार्दूल नारकाः पर्वतोपमाः ॥ यावच्च तेषां मूर्धानं तावदेव पुनःपुनः ॥ ३७ ॥ कृत्वा च पिष्टं पच्यन्तेऽन्ये तथा भृशम् ॥ अयःपात्रेषु चान्यत्र तीक्ष्णशङ्कुभिरायतैः ॥ ३८ ॥ क्रियन्ते संयता घोरैः सन्तप्तेषु महासुज ॥ आपेथ्यन्ते तथान्यत्र विनिगृह्य शिलासु ते ॥ ३९ ॥ गर्तेषु ते मुदं दत्त्वा पूर्ववन्ते मुसलैर्भृशम् ॥ वद्धास्तम्भे तथान्यत्र क्षिप्यन्ते सायकैर्नराः ॥ ॥ ४० ॥ शृङ्खलामिश्च बध्यन्ते लोट्यन्ते कण्टकेषु च ॥ गन्धेनान्यत्र बोध्यन्ते विषमेण पुनःपुनः ॥ ४१ ॥ नारकैश्च तथा सर्वैर्नारीना वैर्भयानकैः ॥ यातनाभिश्च बर्हीभिर्यात्यन्ते नरके भृशम् ॥ ४२ ॥ अन्योन्यस्य च मांसानि भक्षयन्त्यपरे तथा ॥ हा तात मातेति तथा क्रन्दमानाः पुनःपुनः ॥ ४३ ॥ निन्दन्तः स्वानि कर्माणि ताड्यमानाश्च तैर्भटैः ॥ यातनाभिश्च बर्हीभिर्यात्यन्ते मृयु नन्दन ॥ ४४ ॥ विमुक्तान्नारका ह्यन्ये वहिमन्ध्ये पुरोहितम् ॥ विजानन्ति महाभाग सुखस्पर्शरतंम तथा ॥ ४५ ॥ विमुक्तो नारकाच्छीतात्सुखोष्णं हिमसंक्षयम् ॥ मन्यते सर्वमेवान्यत्सुखस्पर्शरतंम तथा ॥ ४६ ॥ नरकेभ्यश्च शास्त्रेभ्यो विमुक्तो यो नराधमः ॥

॥२६१॥

शस्त्राण्यान्यानि जातानि सुखस्पर्शसमानि च ॥४७॥ सुखदुःखे तु मानुष्ये त्रिदिवे केवलं सुखम् ॥ नरके दुःखमेवैकं सततं भृगुनन्दन ॥ ४८॥ तृष्णा तत्र क्षुधा तत्र गन्धस्तीव्रो भयङ्करः ॥ यातना विविधाः प्रोक्ता भयं तत्रातिदारुणम् ॥ ४९ ॥ दुर्निष्कण्टककार्पासं तथा कुणपसंकुलम् ॥ केशास्थिबहुलं भीमं नरकं दुःखमेव तु ॥ ५० ॥ आर्तनादमहानादकाककङ्कव्याघ्रसंकुलम् ॥ कृमिकीटपतङ्गाढ्यं पूयासृग्बहुलं तथा ॥ ५१ ॥ अन्योऽन्यक्लेशसंयुक्तमन्योऽन्यपकृकारकम् ॥ अन्योऽन्यताडकं घोरं तथाऽन्योऽन्यभयङ्करम् ॥ ५२ ॥ एवमेतेषु ते पापा नरकेषु समागताः ॥ बह्व्यः खलु याप्यन्ते मानवाः पापकारिणः ॥ ५३ ॥ यावत्तेषां न पापानि क्षयं यान्ति भृगूत्तम ॥ तावते न विमुच्यन्ते नरकाद् घोरदर्श- नात् ॥ ५४ ॥ अत्यन्तभीमा नरकाः सुघोरा भयावहव्यालगणावकीर्णाः ॥ भक्तिं वहन्तः पुरुषोत्तमस्य न यान्ति ते भार्गववंशमुख्य ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नरकयातनावर्णनन्नामैकोनविंशत्यधिकशततमोऽध्यायः॥ ११९॥ राम उवाच ॥ कर्मणा केन धर्मज्ञ नरा नरकवासिनः ॥ कांकां योनिं प्रपद्यन्ते तन्मे ब्रूहि तपोमय ॥ १ ॥ पुष्कर उवाच ॥ अमेध्यमध्ये क्रूरा ये महापातकिनो जनाः ॥ भवन्ति बहुधा भूम्यां तथैव शिलासु ते ॥ २ ॥ तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात् ॥ भवन्ति च मृगाः पश्चान्निवर्त्त्य व्याधभया- र्दिताः ॥ ३ ॥ ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु ॥ अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः ॥ ४ ॥ परदाररता मूढाः सन्तप्तायां तथा भुवि ॥ कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम् ॥ ५ ॥ अटव्यां घोररूपायां शुष्कद्रुमकोटरे ॥ कृष्णाऽहयो हि जायन्ते ततः पश्चान्न संशयः ॥ ६ ॥ कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम् ॥ भूत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम् ॥ ७ ॥ गुरुमित्रद्रुहः पापा ये च स्वा- मिद्रुहो जनाः ॥ द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा ॥ ८ ॥ त्यागिनो बान्धवानां च त्यागिनः शरणाथिंनाम् ॥ निक्षेपहारिणो ये च कन्यकाक्रयिणश्च ये ॥ ९ ॥ अमेध्ये कृमयः सर्पा मृगा व्यालानुगास्तथा ॥ ततो घोरनखोपेता जायन्ते जम्बुकाः खलाः ॥ १० ॥ परस्वहा- रिणः पापाः कुञ्जरास्तुरगाः खराः ॥ बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः ॥ ११ ॥ हतं यस्य तु तद्द्रव्यं तस्य भाग्यानुरूपतः ॥ आत्म- दोषाऽनुसारेण जायन्ते धनिनास्तु ते ॥ १२ ॥ चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुब्जका नराः ॥ आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु ॥ १३ ॥ असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा ॥ आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः ॥ १४ ॥ सूचकस्तु दुराचारो वागुरिर्नाम जायते ॥ बहु- कालं महाभाग भूयोभूय इति श्रुतिः ॥ १५ ॥ मांसं भुग् यावतां राम मांसमश्नाति देहिनाम् ॥ तावतां योनिमाप्नोति भूयोभूयो न संशयः ॥ १६ ॥

भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम् ॥ यावन्तः प्राणिनो येन बह्विधैर्वा निपातिताः ॥ १७॥ तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम ॥
योनीयोनौ च हन्तव्यस्तेनैतासो नात्र संशयः ॥ १८॥ वान्ताशी गुणपाशी च पूयस्रुतिश्चिराशिनः ॥ स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु ॥ १९॥
धान्यं हत्वा भवत्याखुः कांस्यं हंसो जलेप्लवः ॥ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ २०॥ मांसं गृध्रो वसां मद्रुस्तैलं
तैलापगः खगः ॥ चीरीवाकस्तु लवणं बलाका शकुनिर्द्धिधु ॥ २१ ॥ कौशेयं तित्तिरिर्हत्वा क्षौमं हत्वा च दर्दुरः ॥ कार्पासं तान्तवं क्रौञ्चो गां
गोधा वागुदो गुडम् ॥ २२ ॥ छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं शिखी तथा ॥ मक्षिकान्त्तु तथैवान्नमकृतान्नं तु शल्यकः ॥ २३ ॥ भेको
भवति हत्वानिं गृहहारी च तस्करः ॥ रत्नानि हत्वा वासांसि जायते जीवजीवकः ॥ २४ ॥ वृको मृगेभं व्याघ्राश्वं जग्ध्वा चैवार्हतं हविः ॥
स्त्रियं हत्वा भवेद्यक्षो यानसूरः पशूनजः ॥ २५ ॥ यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ॥ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवादृतं हविः ॥
॥ २६ ॥ तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम् ॥ भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति ॥ २७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णननाम त्रिंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥ राम
उवाच ॥ नरकान्भ्रान्ति तिर्यक्त्वं ततो मानुष्यमेव च ॥ तेषां चिह्नानि मे ब्रूहि मानुषत्वे वरुणात्मज ॥ १ ॥ पुष्कर उवाच ॥ मणिसुक्ताप्रवालानि
रत्नानि विविधानि च ॥ अपहृत्य नरो राम जायते हेमकूटेषु ॥ २ ॥ यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात् ॥ प्राप्नोति भृगुशार्दूल मानुष्यं
भारवाहिताम् ॥ ३ ॥ यं कञ्चिद् घातयित्वापि प्राणिनां भृगुनन्दन ॥ मांसं भुक्त्वा तु धर्मज्ञ भवन्तीह गदातुराः ॥ ४ ॥ सुवर्णचोरः कुनखी
सुरापः श्यावदन्तकः ॥ ब्रह्महा क्षयरोगी स्याद्धर्म्मघ्नो गुरुतल्पगः ॥ ५ ॥ पिशुनः पूतिनासः स्यात्सूचकः पूतिक्रकचः ॥ धान्यचोरोऽङ्गहीनः
स्याद्दग्धो मिश्रिद्वेव ॥ ६ ॥ व्याधितश्चाह्रतहर्त्ता स्यान्मूको वागपहारकः ॥ वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः ॥ ७ ॥ खल्वाटो
मत्सरी राम नास्तिको वेदनिन्दकः ॥ भूय एव समाप्नोति तथा नास्तिक्यतां द्विज ॥ ८॥ अन्यो दीपापहारी स्यात्काणो निर्वापकस्तथा ॥
अन्धो भवति गोघ्नस्तु वाण्टिकस्तोलकस्तथा ॥ ९ ॥ दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाभिदः ॥ प्रतिकूलो गुरोर्यस्तु सोऽपमारी प्रजापते
॥ १० ॥ मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः ॥ खगभक्ष्यस्तु कुण्ठाशी दीर्घरोगा च पीठकः ॥ ११ ॥ भवतीह सुगन्ध्याश्वस्त्वग्विक्रे
यस्य विक्रयात् ॥ श्रीपदी चावकोर्णी स्यान्मूर्खश्चाक्रोशको भवेत् ॥ १२॥ उक्तस्त मुख्य हि मया तिरश्चां या योनयो यानि च लक्षणानि ॥

शक्यं न कार्त्स्न्येन मया प्रवर्त्तुं या यातनाश्चैव नराधमानाम् ॥१३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंश- त्युत्तरशततमोऽध्यायः ॥ १२१ ॥ मार्कण्डेय उवाच ॥ एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः ॥ पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ ॥ १ ॥ तं विसंज्ञं महाभागं पीनोन्नतपयोधराः ॥ सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः ॥ २ ॥ वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः ॥ वीजयन्ति महाभागं रामं धर्मभृतां वरम् ॥ ३ ॥ लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम् ॥ आश्वासयामास तदा वारुणिः परवीरहा ॥ ४ ॥ समाश्र्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम् ॥ दुर्गार्णवतरणं वीरो रामो धर्मभृतां वरः ॥ ५ ॥ राम उवाच ॥ ॥ किञ्चि- न्मानेषु श्रुतेषु तैस्तैर्भावैस्ततस्ततः ॥ दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज ॥ ६ ॥ पुष्कर उवाच ॥ आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजा- तयः ॥ वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ ७ ॥ ये दृन्मात्रं जहतीह येषां वृत्तिश्च संहृता ॥ विपर्यांश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ ८ ॥ वासयन्त्यतिथिं नित्यं नित्यं ये चानसूयकाः ॥ नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ ९ ॥ मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ॥ वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते ॥ १० ॥ स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमुतावृत्तौ ॥ अग्निहोत्रपराः सन्तो दुर्गाण्यति- तरन्ति ते ॥ ११ ॥ आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ॥ धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥ १२ ॥ ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ॥ निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते ॥ १३ ॥ कर्माण्यकुहकानीह येषां वाचश्च सूनृताः ॥ येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते ॥ १४ ॥ ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ॥ विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ १५ ॥ येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित् ॥ येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥१६॥ परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः ॥ ग्राम्यान्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते॥१७॥ सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ॥ ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते॥१८॥ ये न लोभात्प्रयन्त्यर्थान्ना- जानो रजसा वृताः ॥ विषयानपरिरक्षन्तो दुर्गाण्यतितरन्ति ते॥१९॥ये न मानितिमिच्छन्ति मानयन्ति च ये नरान् ॥ मान्यानानात्मन्यस्यन्ति दुर्गा- ण्यतितरन्ति ते ॥२०॥ ये च श्राद्धानि कुर्वन्ति तिथ्यान्तिथ्यां प्रजांर्थिनः ॥ सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते॥२१॥ ये क्रोधं नैव कुर्वन्ति क्रोधात्तं शमयन्ति च ॥ न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते॥२२॥मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः॥ जन्मप्रभृति मद्यं च दुर्गा


१ 'ग्राम्यादनान्निवृत्ताश्च' इति ख० ।

वि० ध० ॥२६३॥

द्वि० खं० अ० १२३

ण्यतितरन्ति ते॥२३॥यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् ॥ वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥२४॥ तडागारामाकर्त्तारस्तथान्ये वृक्षरोपकाः ॥ कूपानां ये च कर्त्तारो दुर्गाण्यतितरन्ति ते ॥ २५॥ गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये ॥ भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते ॥ २६ ॥ पूजयन्ति सदा विप्रान्नाधुनी युक्तरुत्तथा ॥ तपस्विनश्च धर्मज्ञा दुर्गाण्यतितरन्ति ते ॥ २७ ॥ गायत्रीजापिनिरतास्तीर्थ यात्रारताश्च ये ॥ ये चैकमाश्रितास्तीर्थ दुर्गाण्यतितरन्ति ते ॥ २८ ॥ ये चैकमाश्रिता देवं सर्वभावेन भार्गव ॥ धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते ॥ २९ ॥ सायं प्रातश्च भुञ्जानाः पिबन्तश्चाप्सु ये नराः ॥ सदोपवासिनो राम दुर्गाण्यतितरन्ति ते ॥ ३० ॥ उपवासरता नित्यं नित्यं व्रतपरायणाः॥ नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते॥३१॥दुर्गाणितरणं ये च पठन्ति श्रावयन्ति च ॥ कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते ॥ ३२॥ ईश्वरः सर्वभूतानां जगतां प्रभवेोऽव्ययः ॥ भक्त्या नारायणं चैव दुर्गाण्यतितरन्ति ते ॥ ३३ ॥ भक्तानां केशवे राम न भयं विद्यते क्वचित् ॥ तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव ॥ ३४ ॥ पृथवीशतस्करसुजङ्गदुराशयाद्विमुह्यस्वप्नेऽनुतश्चातुलसत्फलजातपु ॥ संविद्यते न हि भयं भुवनेकभर्त्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोऽध्यायः॥ १२२ ॥ राम उवाच ॥ भूय एव समाचक्ष्व कर्मणा येन मानवाः ॥ दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर ॥ १ ॥ पुष्कर उवाच ॥ दुर्गाण्यतितरन्त्याशु ये नराः कृच्छ्रकारिणः ॥ प्राप्नुवन्ति तथा कामान्सर्वान् मनसिप्सितान् ॥ २ ॥ राम उवाच ॥ कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधंस्तथा ॥ एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम् ॥ ३ ॥ पुष्कर उवाच ॥ कृच्छ्राण्येतानि कार्याणि राम वर्णेणयेण च ॥ कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ॥ ४ ॥ आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव ॥ नित्यं त्रिषवणस्नानं केशवस्य च पूजनम् ॥ ५ ॥ होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च ॥ स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत् ॥ ६॥ एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः ॥ वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा ॥७॥ वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत् ॥ वीरासनेन रहितं विधिहीनं प्रकीर्तितम् ॥ ८ ॥ राम उवाच ॥ वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत ॥ वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः ॥ ९ ॥ पुष्कर उवाच ॥ उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥ एतद्वीरासनं प्रोक्तं महापातकनाशनम् ॥ १० ॥ आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा ॥ अष्टरात्रं तथा दध्ना चिरागमथ सर्पिषा ॥ ११ ॥ निराहारस्त्रिरात्रं तु कुर्याद्वा बालकेश्वरम् ॥ सर्वपापप्रशमनं

॥२६३॥

सर्वकामप्रदं तथा ॥ १२ ॥ स्नपयेदात्मनोऽथाय पावकं भृगुनन्दन ॥ वह्नौ ततोऽऽजुहुयाद्द्वादशञ्च कस्यचित् ॥ १३ ॥ ब्रह्म देवेति मन्त्रेण साध्यमाने विचक्षणः ॥ दर्भास्तु खलु बध्नीयाद्ब्राह्मार्थमिति नः श्रुतिः ॥ १४ ॥ घृतं च. आप्यमानं च भाण्डे न्यस्तं तथा पुनः ॥ अनेन राम मन्त्रेण नरस्त्विभिमन्त्रयेत् ॥ १५ ॥ यवोऽसि धान्यराजोऽसि वरुणो मधुसंयुतः ॥ निर्णेदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥ १६ ॥ घृतं यवा मधु यवा आपो वा अमृतं यवाः ॥ सर्वं पुनीतं मे पापं यन्मया दुष्कृतं कृतम् ॥ १७ ॥ वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम् ॥ अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः ॥ १८ ॥ श्वसूकरावलीढं च ह्युच्छिष्टोपहतं च यत् ॥ मातृगोगुरुशुश्रूषां सर्वं पुनीत मे यवाः ॥ १९ ॥ गणानां गणिकान्नं च शूद्वान्नं च तथा विशाम् ॥ चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः ॥ २० ॥ बालवृद्धगणान्नं च राजधर्मकृतं च यत् ॥ सुवर्णस्तेयव्रात्यात्मयाज्यास्य च याजनम् ॥ २१ ॥ ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥ भाण्डेऽन्यस्तस्य पञ्चोऽड्यं ततस्तु परिकीर्तयेत्॥२२॥ (ये देवा मनोजाता मनोजुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा) अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा ॥ नकुर्यादितिसौहित्यं व्रतमेतद्धि यावकम् ॥ २३ ॥ मेधाथिनिकरात्रं तु षडूरात्रमतिपापिनः ॥ उपपातकिनः प्रोक्तं सप्तरत्नमरिन्दम ॥२४॥ महापातकितश्चैव षडूात्रं द्विगुणं स्मृतम् ॥ एकविंशतिरात्रेण कामानामोत्यभीप्सितान् ॥ २५ ॥ मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥ गवां निहारैर्मुक्तेस्तु यवैः कुर्वीतदेव र् ॥ २६ ॥ फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम् ॥ मासेन साक्षाद्विशदाम्देवान्विप्रश्च पश्यति ॥ २७ ॥ वरशापसमर्थस्तु तथा भवति भार्गव ॥ शुक्लपक्षमसमारम्भादारभेत्प्रत्यहं नरः ॥ २८ ॥ एकैकवृद्ध्या ऽश्नीयात्पिण्डांऽस्त्रींश्चण्डसंयुतान् ॥ एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात् ॥ २९ ॥ हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये ॥ एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः ॥ ३० ॥ एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम् ॥ अष्टभिः प्रत्यहं ग्रासैर्वर्तयिताचान्द्रायणं स्मृतम् ॥ ३१ ॥ प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ॥ यथाकथांचित्पिण्डानां चत्वारिंशच्छतद्वयम् ॥ ३२ ॥ मासेन भक्षयेत्तत्तुसुरचान्द्रायणं स्मृतम् ॥ गोक्षीरं सप्तरात्रं तु पिवेत्तत्तनचतुष्टयम् ॥३३॥ स्तनद्वयात्सप्तरात्रं स्तनद्वयात् ॥ स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् ॥ ३४ ॥ एतत्सौमायनं नाम व्रतं कल्मषनाशनम् ॥ त्र्यहं पिबे दपस्तूह्णार्यहमुष्णं पयः पिवेत् ॥ ३५ ॥ त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्र्यहम् ॥ तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम् ॥ ३६ ॥ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३७ ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥

वि० सं० ॥२६४॥ द्वि० सं० अ० १२३

एतच्च प्रत्याख्यातं महासान्तपनं स्मृतम् ॥ ३८ ॥ कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम् ॥ एकभक्तेन नक्तेन तथैवायाचितेन च ॥ ३९ ॥ उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः ॥ एतदेव त्रिभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम् ॥ ४० ॥ त्र्यहं सायं त्र्यहं प्रातरहन्मह्यायाचितम् ॥ त्र्यहं परं च नाश्नीयात्प्राजापत्यं ऋन्दिजः ॥ ४१ ॥ पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ॥ एकैकमुपवासं च सौम्यकृच्छ्रं प्रकीर्तितम् ॥ ४२ ॥ अम्बुभक्षिदैस्तथा मासः केवलैर्व्वारुणं समैः ॥ फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः ॥ ४३ ॥ श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा ॥ मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४ ॥ पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तूक्तं पुच्छ्रमुच्यते ॥ मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु ॥ ४५ ॥ दध्ना क्षीरेण तक्रेण पिण्याकेन कणेस्तथा ॥ शाकैर्मासं क्वाणपि चुनानानि विचक्षणैः ॥ ४६ ॥ सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत् ॥ पद्म॑विर्षोरिदं प्रोक्तं कृच्छ्रं नित्यपोवासिता ॥ ४७ एकभक्तेन मासेन कथितं चैकभक्तिकम् ॥ न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद् वेत् ॥ ४८ ॥ नक्ताशिनस्तु धर्मज्ञ एकभुक्त्वा या पुनः ॥ त्र्यहं वोपवसेद्युक्तिः स्नायीत सवनत्रयम् ॥४९॥निम्बपत्रेषु तोयेषाप्सु त्रिः पठेद्घमर्पणम् ॥ देवताभाववृत्तस्तुच्छुन्द्वाश्चैवाप्यनुत्तमम् ॥ ५० ॥ संस्मरेत्सूर्य्यं च तथा ऋषिं चैवाघमर्पणम् ॥ चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने ॥ ५१ ॥ त्र्यहं जपेद्यथाशक्ति शुचिर्ब्रह्माद्यघमर्षणम् ॥ भाववृत्तस्तथा देवस्तथा च पुरुषः परः ॥ ५२ ॥ तदैवत्यं विजानीयात्सूक्तं तदघमर्षणम् ॥ यथाश्व मेधः क्रतुराट् सर्वपापापनोदनः ॥ ५३ ॥ तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम् ॥ कृष्णाजिनं वा कुतपं परिधायथ वल्कलाम् ॥५४॥ संवत्सरं व्रतं कुर्य्यात्स्मितं नाम भार्गव ॥ गृहं न प्रविशेत्तत्र भवेदवकाशाशायकः ॥ ५५ ॥ अशक्तौ वा भवेद्दाम तथा शैलगुहाशयः ॥ नित्यं त्रिपवणस्नायी तथा स्याद्विजसत्तमा॥५६॥भैक्ष्यशाकफलाहारः कामं स्याद्दिजपुङ्गव ॥ वीरासनं तथा कुर्य्यात्खाट्वामौने तथैव चा॥५७॥ सर्वकामप्रदःह्येतत्संवत्सरमल्प नाशनम् ॥ वायव्यं कृच्छ्रमूलैस्तु पाणिपूराग्रभोजिनः ॥ ५८ ॥ मासेनैनैक धर्मज्ञ सर्वकल्मषनाशनम् ॥ तिलैर्द्वादशरात्रेण कृच्छ्रमायसु च्यते ॥ ५९ ॥ लाजामृतमित्येकं कनकैन समन्वितम् ॥ सुज्ञानस्य तथा मासं कृच्छ्रं धनदमुत्तमम् ॥ ६० ॥ गवां निहारनिर्मुक्तिर्यवैः सक्तून्स मन्ततः ॥ ग्राम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन ॥ ६१ ॥ गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत् ॥ गवां मध्ये सदा तिष्ठेद्रात्रौपरीषं च संवसेत्॥६२॥ गोधृतमास्तु न पिबेदुक्तं भृगुनन्दन ॥ असुक्तेषु तु नाश्रीयाद्विधृतास्त्वितिष्ठतो भवेत्॥६३॥ज्ञात्वा चैवोपविष्टासु सर्वांस्तूपविशेश्वरः ॥ मासेनेकेन कथितं गोमन्त्रं कल्मषापहम् ॥ ६४ ॥ अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः ॥ तृणानां भक्षणेनेह समतुल्यफले उभे ॥ ६५ ॥ द्वाद ॥२६४॥

शार्ङ्गेण कथितं सर्वपातकनाशनम् ॥ उपोषितश्चतुर्दश्यां पञ्चदश्यामनन्तरम् ॥ ६६ ॥ पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम् ॥ ब्रह्मकूर्चं मिदं कुर्यादुक्तप्रशमनाय वै ॥ ६७ ॥ पक्षान्ते त्वथ वा कार्यं मासमध्ये तु वा पुनः ॥ ब्रह्मकूर्चं नरः कुर्यात्पौर्णमासीषु यः सदा ॥६८॥ तस्य पापं क्षयं याति दुर्मुक्तादि न संशयः ॥ मासाभ्यां च नरः कृत्वा ब्रह्मकूर्चं समाहितः ॥ ६९ ॥ सर्वपापविनिर्मुक्तो गणेयां गतिमाप्नुयात् ॥ ब्रह्मभूतम् मावस्यां पौर्णमास्यां तथैव च ॥ ७० ॥ योगभूतं परिचरेत्केशवं महदाप्नुयात् ॥ एवमेतानि कृच्छ्राणि कथितानि मया तव ॥ ७१ ॥ शासना नीह पापानां दुर्गतानां च भार्गव ॥ संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ॥ ७२ ॥ अज्ञातासुहृच्छ्रद्धार्थं ज्ञातस्य तु विशे षतः ॥ अज्ञातं यदि वा ज्ञातं कृच्छ्रं पापं विशोधयेत् ॥ ७३ ॥ कृच्छ्रैस्तुशुद्धपापानां नरकं न विधीयते ॥ श्रीकामः पुष्टिकामश्च स्वर्ग कामस्तथैव च ॥ ७४ ॥ देवताराधनपरस्तथा कृच्छ्रं समाचरेत् ॥ रसायनानि मन्त्रांश्च तथा चैवौषधाश्च ये ॥ ७५ ॥ तस्य सर्वे हि सिध्यन्ति यो नरः कृच्छ्रकृद्भवेत् ॥ वैदिकानि च कर्माणि यानि काम्यानि कानिचित् ॥ ७६ ॥ सिध्यन्ति सर्वाणि सदा कृच्छ्रकृत्तुर्भृगूत्तम ॥ तेजसा तस्य संयोगो महता चैव जायते ॥ ७७ ॥ वाञ्छितान्मानसान्कामान्स चाप्नोति न संशयः ॥ ज्ञातो भवति देवेषु तथा चर्षिगणेषु च ॥ विपाप्मा वितमस्कश्च संशुद्धश्च विशेषतः ॥७८॥ आराधनार्थं पुरुषोत्तमस्य कृच्छ्राणि कृत्वा मधुसूदनस्य ॥ सुरोत्तमानां समतीतलब्धं तल्लोकमाप्नोति जनार्दनस्य ॥ ७९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृच्छ्रप्रायश्चित्तवर्णनन्नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥ ॥ राम उवाच ॥ वैदिकानि समाचक्ष्व कर्माणि भृगुसत्तम ॥ अधि कारी भवेद्येषां कृच्छ्रकारी त्वनन्तरम् ॥ १ ॥ पुष्कर उवाच ॥ शृणु काम्यानि कर्माणि पुष्कलानि ममानघ ॥ प्रतिवेदं महाभाग गदतो भृगुन न्दन ॥ २ ॥ अन्तर्जले तथा होमे जपेच्च मानसेप्सितम् ॥ कामं करोति गायत्री प्राणायामादिशेषतः ॥ ३ ॥ गायत्र्या दशसाहस्रो जपो नक्ता शिनो द्विज ॥४॥ बहिः स्नातस्य तत्रैव सर्वकल्मषनाशनः ॥ ४ ॥ दशाहुतानि जप्त्वा च हविष्याशी संशयतः ॥ वायुभूतस्तदाप्नोति यद्विष्णोः परमं पदम् ॥५॥ परस्य ब्रह्मणो राम वाचकः प्रणवः स्मृतः ॥ पुरुषस्याप्रमेयस्य सर्वपापप्रणाशिनः ॥ ६॥ द्वा तज्जपेनेह पूयन्ते यदपि दुष्कृतकारिणः ॥ ॐकारपूतं सलिलं नाभिमात्रोदकस्थितः ॥ ७ ॥ शतजपं पिबेद्यस्तु स पापैर्विप्रमुच्यते ॥ अकारश्चाप्युकारश्च मकारश्च शृणुत्तम ॥ ८ ॥ यजुर्वेदः सामवेद ऋग्वेदश्च विचक्षणैः ॥ कथितस्तु त्रिमात्रश्च प्रणवः परिकीर्तितः ॥९॥ मात्रान्त्रयं तु प्रणवस्त्रयो देवाः सनातनाः ॥ एत एव त्रयो लोकाश्च

४५

वि० ध० ॥२६६॥ दि० सं० अ० १२४

श्चैवायस्तथा ॥ १० ॥ महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते ॥ महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः ॥ ११ ॥ गायत्री परमा जप्या होमे व्याहृतयस्तथा ॥ अन्तर्जले तथा रात्रौ प्रोक्तञ्चैवाघमर्पणः ॥ १२ ॥ अग्निमीळे पुरोहितं सूक्तोऽयं बर्हिषद्वृतः ॥ शिरसा धारयेद्वह्निं यो जपे- त्परिवत्सरम् ॥ १३ ॥ होमं त्रिषवणं चैव तथा तेन समाचरेत् ॥ अनग्निश्चज्वलं कुर्याद्द्वादशाहारस्तं वत्सरान् ॥ १४ ॥ अतः परम्पुरुषः सप्त चाग्नेय्यः परिकीर्तिताः ॥ ता जपन्नप्रयतो नित्यमिष्टान्कामान्समश्नुते ॥ १५ ॥ मेधाकामो जपेन्नित्यं सदसस्पतिमित्यृचम् ॥ अम्बयो यान्ति याः प्रोक्ता न बन्ध्योमृतपुत्रानिर्णी ॥ १६ ॥ शुनःशेफमृषिं तद्वत्सन्निरुद्धोऽथ वा जपेत् ॥ मुच्यते सर्वपापेभ्यो गदाच्चापहृतो गदन् ॥ १७ ॥ यदीच्छेच्छु- श्रुतं काममिन्द्रात्प्लुतं पुरन्दरात् ॥ ऋग्भिः षोडशभिः स्तुयादिन्द्रमिति दिनेदिने ॥ १८ ॥ हिरण्यस्तूपमित्येतज्जपञ्छ्रुतवान्प्रजायते ॥ क्षमी भवति चाभ्याने ये ते पन्थां¹ जपन्नरः ॥ १९ ॥ रथेक्ष्मिः षड्भिराशानं स्तूयाद्यो वै दिनेदिने ॥ चरुं वा कल्पयेद्द्रोहे तस्य शान्तिः परा भवेत् ॥ २० ॥ उदिद्यद्बृहत्तमादित्यमुपतिष्ठेद्दिनेदिने ॥ क्षिपञ्जलाञ्जलीन्सप्त मनोदुःखविनाशनम् ॥ २१ ॥ द्विषन्तमित्थ्यान्थानर्च्य द्विषन्तं च जपन्स्मरेत् ॥ अग्मच्छन्मुत्तरात्रेण विदध्मधिगच्छति ॥ २२ ॥ आरोग्यकामो रोगी च प्रस्कण्वस्योत्तसं जपेत् ॥ उत्तमस्तस्य चाव-जपैर्दरिद्रविनाशने ॥ २३ ॥ ॥ उदयात्यायुरक्षय्यं तेजम्ब्यन्दिने जपेत् ॥ अस्तं व्रजति सूर्यं च द्विषन्तं प्रतिपादितम् ॥ ॥ २४ ॥ नवचेति सूक्तानि जपञ्शत्रुन्नियच्छति ॥ एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत् ॥ २५ ॥ आध्यात्मिकैः कृ इत्येतज्जन्पन्मोक्षमवा- प्नुयात् ॥ आसन्नो रुद्रमित्येतद्घिर्मानुपराजनुयात् ॥ २६ ॥ त्वं सोमेति च सूक्तेन नवं पश्यन्निशाम्लम् ॥ उपातिष्ठेत्समिन्तान्विर्वासंस्याप्नोत्यसं- शयम् ॥ २७ ॥ आयुष्सिन्दिरिमिति कोलसक्तं यदाभ्यसेत् ॥ अपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् ॥ २८ ॥ यथा मुञ्जाद्विपोषीका तथा पापं प्रमुञ्चति ॥ जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ॥ २९ ॥ भयोर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम् ॥ बुध्याद्यां च तथा रात्रावेत- दुःखप्ननाशनम् ॥ ३० ॥ प्रमन्दिवेति सूर्यस्य जपेद्देविप्रमोचनम् ॥ जपन्निरिन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम् ॥ ३१ ॥ मुञ्चन्याज्यं तथा ऽहृतसकलं किल्बिषं नरः ॥ इमामिति जपञ्शक्त्यकामानाप्नोत्यभीप्सितान् ॥ ३२ ॥ मानस्तोक इति शम्भ्वाँ त्रिरात्रोपोषितः शुचि ॥ ओडु- म्बरैस्तु जुहुयाद्विधमवाज्यसंस्कृताः ॥ ३३ ॥ छित्वा सर्वान्मृत्युपाशाञ्जीवद्रोगविवर्जितः ॥ ऊर्ध्वबाहुर्ननेव स्तुत्वा शत्रूं तथैव च ॥ ३४ ॥ ॥२६६॥


¹ 'येन पन्था' इति ख० ।

मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥ अदृश्यः सर्वभूतानां जायते संशयं विना ॥ ३५ ॥ चित्रमित्युपतिष्ठेत त्रिसन्ध्यं
भास्करं तथा ॥ समित्पाणिर्नरो नित्यं प्राप्नुयाच्च धनायुषी ॥ ३६ ॥ एतद् दुःस्वप्नस्येति च जपन्प्रातर्दिनेदिने ॥ दुःस्वप्नं दहते कृत्स्नं भोजनं
चाप्नुयाच्छुभम् ॥ ३७ ॥ उभेनुनामति तथा रक्षा च परिकीर्तिता ॥ निर्वर्त्य पञ्चयज्ञांश्च हुत्वा चाग्निं कृताह्निकः ॥ ३८ ॥ देवासाविति
दैव्येदं जपन्कामानवाप्नुयात् ॥ आततायिनमायान्तं दृष्ट्वा व्याघ्रादिकं नरः ॥ ३९ ॥ न मागिरिन्नेति जपेत्स्तम्भ्य एव प्रमुच्यते ॥ कया शुभेति
च जपञ्जातिश्रैष्ठ्यमवाप्नुयात् ॥ ४० ॥ इमं तु सोममित्येतत्सर्वान्कामानवाप्नुयात् ॥ पिबन्त्वित्येतुपाठितेत नित्यमश्वमेधप्रथितम् ॥ ४१ ॥
नारस्य स्यादन्नतो व्याधिविपमप्यमृतान्मियात् ॥ अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद् घृतम् ॥ ४२ ॥ पक्वान्नं बलिपर्यन्तं कृत्वा चाकर्म गार्हतम् ॥
वीरान्वयं समाप्नोति सश्लोकं यो जपेत्सदा ॥४३॥ कं कता चेति सूक्तेन विप्रान्त्सर्वानपोहति ॥ यो जात इति सूक्तेन सुखमाप्नोत्यनुत्तमम् ॥ ४४॥
ये पराजन्नितीमां तु दुःस्वप्नशमनान्शुभम् ॥ एकामाहसमितीयां तु विद्ध्या श्रीकरी तथा ॥ ४५ ॥ चतुर्दशीष्वपोष्यैकां कृष्णासु जुहुयाद् घृतम् ॥
आत्तसूक्तेन रौहिण व्याधिमेकं विमुञ्चति ॥ ४६॥ स्नात्वात्वनश्ननअपेष्वेषु शीतत्रयममर्निन्दूतः ॥ आमिषस्पर्यतोयमोदाहृत्वा वा कर्म गर्हितम् ॥४७॥
अध्वनि प्रस्थितो यस्तु पश्येच्छकुनमुत्थितम् ॥ अप्रशस्ते प्रशस्ते वा कनिक्रदिमदं जपेत् ॥ ४८ ॥ अस्वेदेव न जतव्यमेतत्
स्परनमोहनम् ॥ ॐष्वित्युच्यमपां मध्ये जपेद्वै न नदीं तरेत् ॥४९॥ ऊर्द्धोमिभिरितीमां तु जपेद्गच्छन्त्सतन्तरम् ॥ अश्वानं प्रतिगृह्णाञ्च गन्जैरिति च
संस्मरेत् ॥ ५० ॥ सुदातारं मुपुष्ट्यर्थं सर्ववेदे स्थितं नरम् ॥ नास्ति विद्यासमो यस्य सुकृतस्यापि भागेव ॥ ५१ ॥
स सपीरिति च जपन्मासातं प्रतिपद्यते ॥ गानाशं समभज्यन्तं दृष्ट्वा दुर्गेऽध्वनि द्विज ॥ ५२ ॥ अभित्यवत्येतिजपेत्पक्षमाक्षबलं दधत् ॥
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितः शुचिः ॥ ५३ ॥ दक्षिणाप्रवणे देशे श्मशानस्थः समाहितः ॥ रक्तोष्णीषव्यिलापिंश्च तौलाकीभ्यार्शनिला
शनः ॥ ५४ ॥ सताहं जुहुयातैलं सापं लवणान्वितम् ॥ समिधो राजवृक्षस्य वसिष्ठे द्वेषिणीः पठन् ॥ ५५ ॥ यं च द्विष्यात्तस्य कृत्वा तु शम्या
केनाहतं निशि ॥ अधिष्ठाय च तं कुर्याद्गर्भञ्च तिसृभिर्द्विजः ॥ ५६ ॥ उद्दिश्य राम हेमोऽयं सप्तरात्रं न जीवति ॥ द्वात्रिंशकं जपन्सूक्तमध्य्या
त्मिकमनुत्तमम् ॥ ५७ ॥ पर्वसु प्रयतो नित्यमिष्टान्कामानवाप्नुयात् ॥ बृहस्पतिम्जाज्वं च सतारं वश्रुमेव च ॥ ५८ ॥ पञ्चैतं स्तुववैतान्पञ्चका
मानवाप्नुयात् ॥ क्रुणुष्वेति जपन्सूक्तं जुह्वदाज्यं समाहितः ॥५९॥ अरातीनां हरेत्प्राणानंशांस्त्यपि च नाशयेत्॥ उपतिष्ठेत यो वह्निं परीत्य च दिने

वि० ध० ॥२६६॥

द्वि० सं० अ० २४

दिनौ॥६०॥तां रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः॥को अर्धाति च सूक्तेन वासांसि लभते पयः॥६१॥कायेोति वामदेवेन कुर्यात्स्वस्त्ययनं निशि॥ हंसःशुचिषदित्येतच्छुचिरुल्किन्दिवारकम् ॥६२॥ कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ॥ जुहुयात्क्षेत्रमध्ये तु उता वाहस्तु पश्चिमेः ॥६३॥ इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च ॥ यथाल्लिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः ॥ ६४ ॥ पूर्णे धान्येाय सीतायै शुनासीरमयोनये ॥ गन्धमाल्योपहारैश्च यजेदेताश्च देवताः ॥ ६५ ॥ प्रवापणे प्रलपने खलेसीतोपहारेयोः ॥ अमोघं कर्म भवति वर्धते सर्वदा कृषिः ॥ ६६ ॥ क्षेत्रस्य पत्ये तत्संज्ञं सूर्येणग्विन्दते भुवम् ॥ आब्रह्मन्कर्णे चरणौ यजेदेतेन मृत्तिकाम् ॥ ६७ ॥ चित्रा इन्देति च स्तुयान्नाम्यूषां यो वह्निमर्चति॥ विज्येतिष्यति ज्वलेद्यग्रेऽच्छेज्जातेवदस्सृमा॥६८॥ समुद्रादिति सूक्तेन कामानाप्नोति पावकात्॥विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति॥ ॥६९॥स तरत्यापदः सर्वाः प्राप्नोति चाक्षयम् ॥ अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम्॥७०॥उरोष्ट इति सूक्तेन वित्तामाप्नोत्यसं- शयम् ॥ प्रजाकामेो जपेन्नित्यं वरुणादेवसत्तया ॥ ७१ ॥ स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत् ॥ स्वस्तिपन्थामिति प्रोच्य स्वस्तिमा- न्व्रजेत्ऽध्वनि ॥७२॥ विजहीह्येष्वन्येतानन्ते शत्रूणां वाधनं भवेत् ॥ स्त्रियो गर्भप्रसूढाया गर्भोषाणसुतस्तथा॥७३॥अर्वच्छदिति सूक्तेन मृत्तिकाम्- प्रयोजयेत्॥निराहारः क्लिन्नवासा न चिरेण प्रवर्षति॥७४॥श्रियः पञ्चदशर्चं तु जपञ्जुह्वद्वृतेन वा॥उपैतु मां देवसख इति सर्वांपयोजलैः ॥७५॥ सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम् ॥ मनसः काम इत्येतां पशुकामो नरो जपेत् ॥७६ ॥ कर्दमेनिति च स्नायात्प्रजाकामः शुचि- व्रतः॥अश्वपूर्वामिति स्नायाद्भाग्यकामस्तु मानवः॥७७॥ रोहिते चर्मणि स्नायाद्ब्रह्मवर्चस्रुतस्तथा॥यथाविधि ॥ राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ॥७८॥ दशाहाक्षिको होमः प्रत्येकं परिकीर्तितः ॥ अप्सु वा जुहुयादाम्र पञ्चान्युतृतोऽनिशि॥७९ ॥इद्दान इत्यृचा वह्निं स्तुवन्शूद्वान्दिनाशयेत्॥ आचार इति सूक्तेन गोष्ठे गां लोकमातरम्॥८०॥उपनिष्टेहृद्धेञ्चैव य इच्छेद्गाः सदाक्षयाः॥वाक्प्रिसद्दि तु स्तुवन्सूक्तं महद्वनमवाप्नुयात् ॥ ८१ ॥ उपैति मृगौ राज्ञो दुन्दुभीनमभिमन्त्रयेत् ॥ तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति ॥ ८२ ॥ तूष्णीमपिजपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ॥ ये के चैं मेत्यृचं जप्त्वा दीर्घमायुववाप्नुयात् ॥८३॥ यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि ॥ सौमारेांहं जपन्सूक्तं सर्वपापैः प्रमुच्यते ॥ ८४॥ जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत् ॥ यथाल्लिङ्गं ततो राजा विनिर्हन्ति रणे रिपून् ॥ ८५ ॥ अनिं नरेति सूक्तेन स्तुवन्वह्निं सुखी भवेत् ॥

॥२६६॥


१ ‘भवितव्यं च भक्ष्यान्नदिति’ इति पर्जन्यसूक्ते अच्छादयेद्वेष्यैः। । २ ‘श्रियः पञ्चदशं जूह्वद्वृद्धह’ इति ख० । । ‘प्रियायाञ्च पूर्वन्तु जपञ्जुह्वयाद् वृतेन तु’ इति क० । ३ ‘मृते’ इति ख० ।

प्राणपति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ॥ ८६ ॥ अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत् ॥ शंवतीः शन्न इन्द्राग्नी जपेद्ध्यार्थी वना- शनम् ॥ ८७ ॥ समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जलावहम् ॥ वास्तोष्पते प्रतीत्येतत्सूक्तं वातोपतेर्जपेत् ॥ ८८ ॥ अनीवहेति सूक्तेन भूतान्निःस्वाप- येन्निशि ॥ सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित् ॥ ८९ ॥ पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥ त्रिरात्रं नियतोपोष्य अपयेन्पा- यसं चरुम् ॥ ९० ॥ तेनायुतशतं पूर्णं जुहुयात्र्यम्बकेत्यृचा ॥ समुद्दिश्य महादेवं जीवेद्दशशतं सुखी ॥ ९१॥ तच्छयोरित्यूचा स्नात उपतिष्ठेदिवा- करम् ॥ उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः ॥ ९२ ॥ व्युषा इत्युपतिष्ठेत यः प्रातः प्रयततः शुचिः ॥ प्रापुयात्साङ्गिणोऽब्दि नानात्त्वारूपधरं बहु ॥ ९३ ॥ ध्रुवं सन्ध्यासु तिसृषु जपन्बद्धः प्रमुच्यते ॥ इदमापः प्रवहंत यत्किंचिदुरितं पुनः ॥ ९४ ॥ अपः प्रविश्य तु जपन्सर्वपापैः प्रमु- च्यते ॥ सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात् ॥ ९५ ॥ सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पादकस्थितः ॥ उपतिष्ठेद्राविं देवं पञ्चरात्रे गते नरः ॥ ९६ ॥ अनश्नन्भागेवं श्रेष्ठ महद्देपमवाप्नुयात् ॥ इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम् ॥ ९७ ॥ यस्य लुप्तोद्भूतं मोहाद्धा- स्त्यैर्वा संसृजेत्सह ॥ उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति ॥ ९८ ॥ आदित्यह्वक्रयब्राह्मपोजं जप्त्वा वादी जयी भवेत् ॥ समग्निभिरिभीष्विति प्रपद्ये- द्रावुभास्करौ ॥ ९९ ॥ अग्निं प्रथमयः स्तुत्वा महतकद्याद्यसूच्यते ॥ न हीति च चतुष्केण मुच्यते महतो भयात् ॥ १०० ॥ ऋचं जप्त्वा च इत्येत- त्सर्वान्कामानवाप्नुयात् ॥ प्राग्भोजनमिदं ब्रह्म मानवानां महापंणाम् ॥ १०१ ॥ पूर्वाहि जपती नित्यं त्वंर्थसिद्धिः परा भवेत् ॥ अग्नेनयेत्यारिखनं सूक्तं मुजाकरसुदाहृतम् ॥ १०२ ॥ समिधेति जुहोत्यग्रौ प्राप्नुयात्कीर्तितमुत्तमाम् ॥ द्विर्चवारिशकं चेन्द्रं जप्त्वा नाशयेते रिपून् ॥ १०३ ॥ नाशं महीति जत्वा च प्राप्नोत्यारोग्यमेव च ॥ दुःखस्वप्नः परा जप्त्वा नरः पापैः प्रमुच्यते ॥ १०४ ॥ शस्त्रो भवति द्वार्यां तु भुक्कान्नं प्रयततः शुचिः ॥ हृदयं पाणिना स्पृष्ट्वा व्याधिभिनिभिभूयते ॥ १०५ ॥ अहोरात्रोषितः स्नात्वा शर्कं सम्पूज्य मानवः ॥ इत इत्याज्यमुत्तूय जुहुयादिन्द्रम्- र्चयेत् ॥ १०६ ॥ घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते ॥ तत्वामन्दन्मिति स्नातो हुत्वा शत्रून्प्रमापयेत् ॥ १०७॥ तान्विष्यादित्येतत्सं¹ जप्त्वा मुच्येत बन्धनात् ॥ यद्याव इति जप्त्वा च सर्वान्कामान्समश्नुते ॥ १०८ ॥ पवित्राणां पवित्रं तु पावमान्यऋचः स्मृताः ॥ वैश्वानसर्चश्चैतिरेणत्प- वित्राः परर्माः स्मृताः ॥ १०९ ॥ ऋचां द्विपदिः² प्रोक्तं चोपवसेदेकचित्सत्तमैः ॥ सर्वकल्मपनाशाय पावनाय शिवाय च ॥ ११० ॥ स्वादि


¹ ‘तान्दिद्यादिति’ इति ख० । २ ‘द्विपष्टिः’ ख० ।

द्वि० खं० अ० १२४

घृतेति सूक्तानां सप्तषष्टिर्हृदाहताः ॥ दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् ॥ १११ ॥ एतज्जहुंश्चाप्यथर्व घोरं मृत्युभयं जपेत् ॥ आध्यात्मिकं पवित्रं च सूक्तं जपन्त्वल्पतः क्वचित् ॥ ११२ ॥ गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम् ॥ आपोहिष्ठेति महतः प्रसुजीतोदकस्थितः ॥ ११३ ॥ सर्वपापविनिर्मुक्तस्सर्वशोकफलमश्नुते ॥ उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ॥ ॥ ११४ ॥ चतुर्दशीं तु कुर्वीत स्थालीपाकं यथाविधि ॥ पञ्चविंशतिमित्युक्तस्तन्मन्त्र प्रयोजयेत् ॥ ११५ ॥ परायुष्यः प्रमीयेत न स जातु कथञ्चन ॥ मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज ॥ ११६ ॥ वैशाख्यां पौर्णमास्यां तु नक्तंभोजी सदा नरः ॥ परायुषः प्रमीयेत न स जा तु कथञ्चन ॥ ११७ ॥ फलाहारो जपेन्मृत्युं त्रिभिर्वर्षैः सदा नरः ॥ दशानां तु शान्त्यर्थं भद्रं न इति संस्मरन् ॥ ११८ ॥ फलाहारी भवेन्मासं मासान्मासं पयः पिबेत् ॥ वायुभक्ष्यो भवेन्मासं जपेत्प्रेतसहस्रशः ॥ ११९ ॥ अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान् ॥ प्रदेवेति नियतो जपेत् मरुधन्वसु ॥ १२० ॥ प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ॥ वेभीतकांस्तु त्रीन्शान्ताल्यैः समाधिवासयेत् ॥ १२१ ॥ पुष्पेण किंशुकैव स्थापयित्वा विहायसि ॥ संहत्य पादौ तौ तत्र तिष्ठेदस्तस्तुतिं जपेत् ॥ १२२ ॥ प्रावे मापेत्यचामंकं जपेच्च मनसा निशि ॥ व्युष्टायां मुदिते सूर्ये दूते जयमवाप्नुयात् ॥ १२३ ॥ अऋन्सुपर्णासन्तेत्येतत्स्वस्त्ययनं जपेत् ॥ नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः ॥ १२४ ॥ तथाऽजं त्र्युद्यानित्यं भीतिभ्यो विप्रमुच्यते ॥ द्वेष्येरिति नित्यं तु जपेद्देवं समश्नुते ॥ १२५ ॥ मा प्रभागीरिति मूढस्तु पन्थानं पथि विन्दति ॥ क्षीणाणुरिति मन्येत यं कंचित्सुहृदं प्रियम् ॥ १२६॥ यत्तेयामिति तु स्नातस्तस्य मूर्धानमालभेत् ॥ सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः॥१२७॥ सूक्तुष्वे दर्शमेनैव इध्ममोडुम्बरं भवेत् ॥ इदमित्थेति जुहुयाद् घृतं प्राज्ञः सहस्रशः ॥ १२८॥ पशुकामो गवां गोष्ठे अञ्जनाक्रमश्चतुष्पथे ॥ परावतः स्वस्त्ययनं स्नातकस्य विधीयते ॥ १२९ ॥ बृहत्पते प्रथममिति ज्ञानकामस्य भार्गव ॥ वयः सुपर्णमित्येततं जपन्वै विन्दते श्रियम् ॥१३०॥ यस्ते मन्यो इति सदा मपस्तन्त्रं विधीयते ॥ हविष्मतीमभ्यस्य सर्वपापैः प्रमुच्यते ॥ १३१ ॥ या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ॥ तस्य माया विनश्येत कायाभिर्वर्धते तथा ॥ १३२ ॥ बृहस्पतिः प्रतीत्येतद् बुद्धिकामः प्रयोजयेत् ॥ सर्वत्र तु परा शक्तिर्ज्ञेयाप्रतिरथा तथा ॥ ॥ १३३ ॥ भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् ॥ अहं रुद्रभिरित्येतद्भाग्यमी भवति मानवः ॥ १३४ ॥ न योनौ जायते विद्वा अपनश्शोति रात्रिषु ॥ रात्रिसूक्तं जपुन्नात्रौ रात्रिक्षेमी भवेन्नरः ॥ १३५ ॥ या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम् ॥ आयुष्यं चैव वर्चस्यं

॥२६७॥