विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 569, कुल 1001 में से
संदर्भ में पढ़ेंकामात्मानो नरा ये च ये तथाधर्मपरायणाः ॥ ये च धर्मद्विषो लोके ते वै निरयगामिनः ॥ ३१ ॥ नाभिपश्यन्ति ये शक्त्या दीनमातुरामाश्रितम् ॥ आर्तं च नाभिधावन्ति ते वै निरयगामिनः ॥३२॥ ये चावहासं कुर्वन्ति दीनानां मानगर्विताः ॥ अनागसं परिभवन्त्येते निरयगामिनः ॥ ३३ ॥ पीडामथोत्पाद्य नरस्य राम यथाकथंचिन्नरकं प्रयाति ॥ तस्मात्प्रयत्नेन विवर्जनीया परस्य पीडा मनुजेन राम ॥ ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने निरयगामिवर्णनन्नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ ॥ राम उवाच ॥ नामानि नरकाणां च यातना विविधास्तथा ॥ भगवञ्छ्रोतुमिच्छामि पुंसां नरकगामिनाम् ॥ १ ॥ पुष्कर उवाच ॥ तामिस्रं मन्धतामिस्रं महारौरवरौरवौ ॥ नरकं कालसूत्रं च महानरकमेव च ॥२॥ संजीवनं महावीचिं तपनं संप्रतापनम् ॥ संघातं च सकाकोलं कश्मलं प्रतिमृत्तिकम् ॥ ३ ॥ लोहशंक