विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 567, कुल 1001 में से
संदर्भ में पढ़ेंये च ते नराः स्वर्गगामिनः ॥ ६ ॥ देहंधातून्परित्यज्य सलिलारण्यवह्निषु ॥ अनशने वा धर्मज्ञा मृताः स्युः स्वर्गगामिनः ॥ ६ ॥ तीर्थयात्रा प्रसक्ताश्च नित्यमध्वनि कर्षिताः ॥ तपसा कर्षिता ये च ते ज्ञेयाः स्वर्गगामिनः ॥ ७ ॥ मधुमांसानिवृत्ताश्च निवृत्ता मधुपानतः ॥ कामधेनुव्रतं श्चापि विज्ञेयाः स्वर्गगामिनः ॥ ८ ॥ मातापितृपरा दान्ता गुरुभक्ताः प्रियंवदाः ॥ सत्यार्जवरता ये च ते नराः स्वर्गगामिनः ॥ ९ ॥ वैशा- कानां वस्त्राणां प्रपाणां ये प्रदायिनः ॥ उद्यानारामकर्त्तारस्ते नराः स्वर्गगामिनः ॥ १० ॥ तडागकूपकर्त्तारस्तथा शय्याप्रदायकाः ॥ छत्रोपानत्प्रदा- तारस्ते नराः स्वर्गगामिनः ॥ ११ ॥ इन्धनानां प्रदातारस्तथा गोयामदायिनः ॥ गवां शुश्रूषका ये च ते नराः स्वर्गगामिनः ॥ १२ ॥ परोपकार- सक्ताश्च परवञ्चविवर्जकाः ॥ पूज्यपूजयितारश्च ते नराः स्वर्गगामिनः ॥ १३ ॥ स्वाध्यायसक्ता धीमन्तो गुरुशुश्रूषणे रताः ॥ उपासकाश्च वृद्धा- नां ते ज्ञेयाः स्वर्गगामिनः ॥ १४॥ प्रतिश्रयप्रदातारस्तथा ये सत्रदायकाः ॥ भक्ता गोद्विजविप्राणां ते नराः स्वर्गगामिनः ॥ १५ ॥ श्रोतारो ये च धर्म्मानां ये तथा यज्ञयाजिनः ॥ उपवासरता ये च ते ज्ञेयाः स्वर्गगामिनः ॥ १६ ॥ कृशाननुभवन्तीह शास्त्राध्ययनतत्पराः ॥ शास्त्राणां च हिते युक्तास्ते ज्ञेयाः स्वर्गगामिनः ॥ १७॥ आर्त्तानामप्रदा ये च ये च हिंसाविवर्जकाः ॥ अभीताश्च भयात्तानां ते नराः स्वर्गगामिनः॥ ॥१८॥दादिङ्गाश्च दातारः प्रभवश्च क्षमान्विताः ॥ यौवनस्थाश्च ये शान्तास्ते नराः स्वर्गगामिनः ॥१९॥ पौत्रदौहित्रसंयुक्ता ये तथा चिरजीवि- नः॥प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः॥२०॥ पोषकाणामनाथानां ये चैवोद्वाहककारिणः॥द्विरागमनदा ये च ते नराः स्वर्गगामिनः॥२१॥ ग्रहाणां पूजका ये च तथा श्राद्धकारिणः ॥ संविभागकरा ये च ते नराः स्वर्गगामिनः ॥ २२ ॥ सर्वासां देवतानां च ये च पूजारताः सदा ॥ सर्वदानरता ये च ते नराः स्वर्गगामिनः ॥ २३ ॥ अहताश्च तथा तत्र कृत्वा कर्मातिदुष्करम् ॥ कालेनापि मृता राम ते नराः स्वर्ग- गामिनः ॥२४॥ ये भक्तिमन्तो मधुसूदनस्य देवेश्वरस्याप्रतिमस्य नित्यम् ॥ सत्त्वेन हीना रजसा विमुक्तास्ते यान्ति नाकं सुरसंघपूज्याः॥२५॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्वर्गभागवर्णनन्नाम सप्तदशोत्तरशततमोऽध्यायः॥११७॥ पुष्कर उवाच ॥ महापातकिनो ये च ये च पातकिनो जनाः ॥ मांसाशिनो नरा ये च तथा येऽन्यायगामिनः ॥ परदाररता ये च ते वै निरयगामिनः ॥ १ ॥ अतिक्रामन्ति ये भार्या पीडयन्ति च ये नरान् ॥ ये समासञ्जयन्ते तै वै निरयगामिनः ॥ २ ॥ बहुभार्याश्च भार्यासु वर्तन्ते न समं च ये ॥ ऋतुकालहरा ये च ते वै निरयगामिनः॥३॥ सम्यग्भर्तृषु या नार्यो वर्त्तन्ते नावलेपतः ॥ अप्रिये च तथा सक्ता ज्ञेयास्ता निरयङ्गमाः॥४॥