विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 63, कुल 1001 में से
संदर्भ में पढ़ेंविज्ञेयं चतुरस्रं तु मध्यमम् ॥ दीर्घं तथैव विज्ञेयं वर्षाणां च चतुष्टयम् ॥ ३१ ॥ वर्षाणां नवसाहस्रो विष्कम्भः कथितो नृप ॥
योजनानां प्रमाणेन कथितस्तत्त्वदर्शिभिः ॥ ३२ ॥ विष्कम्भः पर्वतानां तु सहस्रादित्य संस्मृतम् ॥ मेगोर्योजनसाहस्रो विष्कम्भः
कथितस्तथा ॥ ३३ ॥ योजनानां तु नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ याम्योत्तरेण तस्येदं प्रमाणं ते मयोदितम् ॥ ३४ ॥ पूर्वापरेण तस्यापि
प्रमाणं शृणु पार्थिव ॥ योजनानां सहस्राणि द्वात्रिंशच्च शतानि च ॥ ३५ ॥ भद्राश्वकेतुमालौ द्वौ प्रत्येकं पार्थिवोत्तम ! ॥ योजनानां सहस्रेण
शतसाहस्रकानि च ॥ ३६ ॥ नवमेरुस्तथा प्रोक्तो गन्धमादनमानतः ॥ मेरोर्नवसहस्राणि माल्यवांश्च निगद्यते ॥ ३७ ॥ मेगोर्योजनसाहस्रो विष्क
म्भः कथितस्तथा ॥ एवमप्येष नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ ३८ ॥ हिमाचले यक्षवरा निविष्टा दैत्यप्रधानाः खलु हेमकूटे ॥ गन्धर्वमुख्या
निषधे च शैले नागा निविष्टाश्च तथैव नीले ॥ ३९ ॥ श्वेते पितॄणां च गतिर्निदिष्टा सिद्धास्तथा शृङ्गवतश्च पृष्ठे ॥ सेन्द्रास्तथा देवगणाश्च मेरौ
क्रीडाविहारेण सदा वसन्ति ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जम्बूद्वीपवर्णनो नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥
॥ वज्र उवाच ॥ भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ॥ कर्मभूमिरिषु मर्त्यानां वर्षं भार्गव ! भागवत् ॥ १ ॥ मार्कण्डेय उवाच ॥ भारतस्यास्य
वर्षस्य नव भेदाः प्रकीर्तिताः ॥ अष्टभिर्गिरिभिश्छन्ना येत्वाख्याः परस्परम् ॥ २ ॥ हिमाचलसमुद्देशे गीयन्ते व्यवस्थितः ॥ ग्राम्योत्तरेण
राजेन्द्र नामतस्तान्निबोध मे ॥ ३ ॥ स्वमाली हेममाली च शम्भुः कान्तस्तथापरः ॥ वैडूर्यपर्वतश्चैव रजतो मणिमान्भवः ॥ ४ ॥ इन्द्रद्युम्नः कदे
तश्च ताम्रवर्णो गभस्तिमान् ॥ गगोद्धेपरतथैवान्यो गान्धर्वस्त्वथ वारुणः ॥ ५ ॥ तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ॥ अस्मिन्मन्वन्तरे
क्षितः सागैश्च चतुर्दिशम् ॥ ६ ॥ वैडूर्यपर्वतः पूर्वसुत्तेणेण हिमाचलात् ॥ पश्चाच्च काञ्चनगिरिर्दुरुडंव च लावण तात् ॥ ७ ॥ वेष्टितः सागरः सर्वो
नानास्तत्त्वाश्रयो नृप ! ॥ हिमालयः सागरेस्तु कृतो देशइयस्तथा ॥ ८ ॥ लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ॥ पुरी लंका सन्निविष्टा
यस्यां वै रावणो हतः ॥ ९ ॥ लवणेन च संयुक्तः समुद्रो लवणो यतः ॥ हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ॥१०॥ तत्रास्ति शैलप्रवरो
द्वितीयो गन्धमादनः ॥ श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः ॥ ११ ॥ एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ॥ हिमाचलस्य मध्ये तु कैलासो
नाम पर्वतः ॥ १२॥ हिमवत्येव विख्यातो नरनारायणाश्रमः ॥ यत्र सा बदरी रम्या नानाशकुनिसंसेविता ॥१३॥ उष्णतोयवहा गङ्गा श्वेततोयवहा
१-‘नामतः’ इति ख० ।
२