भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 62, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 62

बि० ध० ॥ ६॥

प्र० सं० अ० ७

मण्डलः स्मृतः ॥ वृन्दपुष्पनिभश्चोर्ध्वं द्वात्रिंशच्चैव विस्तृतः ॥ ६ ॥ विस्तारो द्विगुणश्चास्य तत्राप्यधिकविधिः स्मृतः ॥ मेरोस्तु नवतिः प्रोक्तः सहस्रः पूर्वतो गिरिः ॥ ७॥ योजनानां सहस्रं तु माल्यवान् नाम नामतः ॥ आनीलं निषधं यावत्पार्श्वेन तु तावता ॥ ८ ॥ तावत्प्रमाणो निर्दिष्टः पूर्वतो गन्धमादनः ॥ मेरोस्त्ववततः श्वेतः पूर्वतोऽनन्त उच्यते ॥ ९ ॥ दक्षिणे च तथा पीतः कृष्णः पश्चिमस्तः स्मृतः ॥ अन्तेण स्मृतो विप्रः पूर्वतः क्षत्रियः स्मृतः ॥ १० ॥ दक्षिणेन तथा वैश्यः शूद्रः पश्चिमस्तः स्मृतः ॥ तस्माद्दूर्ध्वा विप्राणां प्राची स्यात्क्षत्रजन्मन ।म् ॥ ११ ॥ दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ॥ प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ॥ १२ ॥ वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना प्रभावती ॥ यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ॥ १३ ॥ प्रोक्ता वै नैर्ऋतौ भागे पुरी पश्चिमदक्षिणे ॥ पश्चिमेन तथा रम्या सुखदा वरुणस्य च ॥ १४ ॥ अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ॥ उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ॥ १५ ॥ अनन्तरं शिवस्योक्ता नगरी शार्ङ्गी शिवा ॥ मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ॥ १६ ॥ विज्ञेयास्ते तु दिक्पालास्तत्संस्थायौ तथा दिशि ॥ देवः स्वर्गे नगरी नित्यं मानसोत्तरमूर्द्ध नि ॥ १७ ॥ मेरुन्तु पश्यति विमुखास्तस्यो मेरुगतां पुरीम् ॥ उदक्‌शुक्लवतोऽधं तु याम्येन कुरुसंज्ञितम् ॥ १८ ॥ वर्षन्तु कथितं दिव्यं गवांपद‌व वर्जितम् ॥ शुक्लवच्छृंगयोर्मध्ये वर्ष ज्ञेयं हिरण्मयम् ॥ १९ ॥ रम्यन्तु वर्ष विझेयं मध्यतः श्वेतनीलयोः ॥ मध्ये निषधनीलायां पश्चाद्वै गन्ध मादनः ॥ २० ॥ केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ॥ मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ॥ २१॥ वर्षे भद्राश्वो नाम नित्यं मुदित मानवः ॥ मेरोश्चतुर्दश नाम्रा वर्षो गजलिलावृतः ॥ २२ ॥ तस्यापि भद्रश्वक्षणे नामतन्तान्निवोध मे ॥ भद्राश्वो जम्बूमालश्च केतुमालुकुव स्तथा ॥ २३ ॥ जम्बूवृक्षस्तु विख्यातो जम्बूमाले तु यादव ! ॥ योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ॥ २४ ॥ तत्फलभ्यः प्रभवति रम्या जांबूनदी शुभा ॥ मेरोः प्रदक्षिणं कृत्वा स्वमुखे मा च नश्यति ॥ २५॥ वृक्षोजन तनदं जम्बूद्वीपं प्रचक्षते ॥ इलावृतन्तु प्रभया मेरो र्नित्यं प्रकाशते ॥ २६ ॥ न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ॥ मेरोः शगवसंमध्यान्नित्यमेव तिरोहितः ॥ २७॥ हेमकूटादुत्तरतो हरिवर्षं प्रचक्षते ॥ हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ॥ २८ ॥ हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ॥ कर्मभूमिरिहोपाल यत्र वर्तमिहे वयम् ॥ २९॥ भारतोऽस्मिन्युगाख्या क्रमेवन विनिर्मिता ॥ वर्षे तु चाय संस्थाने विज्ञेयं दक्षिणात्तरं ॥ ३० ॥ वर्षत्रयं तु


१ 'पद्ममाल्या' इति क० ।

॥ ६॥