विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 65, कुल 1001 में से
संदर्भ में पढ़ेंम्भवाः ॥४॥ तुङ्गभद्रा सुप्राकारा वाह्या कावेरिका तथा ॥ दक्षिणापथमध्यस्था सह्यपादविनिःसृताः ॥ ५ ॥ ऋषिका सुकुमारी च मन्दागा मन्दवा- सिनी ॥ नृपमाला शिरी चैव शुक्तिमत्पादनिःसृताः ॥ ६ ॥ मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ॥ तमसा पिप्पला चेति ऋक्षवत्पादनिः- सृताः ॥७॥ वेणी वैतरणी चैव नर्मदा च कुमुद्वती ॥ तोया सेतविशल्या चैव विन्ध्यपादविनिःसृताः ॥८॥ पारा चर्मण्वती पाशा विदिशा वेणुमत्यपि ॥ सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः ॥ ९॥ नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसंविताश्च ॥ सन्तीह नद्यश्च सहस्रशोऽन्याः वक्तुं न शक्या यदुनन्दनार्थ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सतार्गिधुर्वन्दनवर्णनो नाम दशमोऽध्यायः ॥ १० ॥ वज्र उवाच ॥ हिमवत्पादसम्भूताः पुण्या ब्रह्मर्षिनिषेवतः ॥ प्राधान्येन समाचक्ष्व नद्यः पापभयापहाः ॥ १॥ मार्कण्डेय उवाच ॥ कौशक्यवंसलिला कुशेशयविमिश्रिता ॥ कौशिकस्य प्रिया नित्यं कौशिकी निम्नगोत्तमा ॥ २ ॥ निमज्जतापसंधौघनिर्मलीकरणे शुभा ॥ निश्चरा निष्प्रभा श्रेष्ठा नित्यं मुनिजनप्रिया ॥३॥ गजेन्द्रभिन्नांकूला तु गङ्गातुल्या च पुण्यतः ॥ गन्धर्व्वगणगीता च गण्डकी गोकुलाकुला ॥ ४ ॥ लोकानां पापनाशार्थं लोकनाथेन निर्मिता ॥ लोकदृष्टिमनेोहारी लोहित्यश्च महानदः ॥५॥ दिवः सेव्या सदा विप्रैर्दिवि देवगणैयथा ॥ दृषद्वती समाकीर्णा दर्शनीयादका तथा ॥ ६ ॥ बहुदा बहुसत्त्वाऽथ मेना च प्रलयक्षमा ॥ अनवच्छिन्नप्रवाहा तु लिकितस्य च बाहुदा ॥७॥ धर्मप्रदा सेवकानां धूतपापा महानदी॥ गोमती गोकुलाकीर्णा गजेन्द्रगणगाहिता ॥ ८ ॥ गन्धर्व्वगीतगंभीरा गणऋषणैर्युता ॥ कुङ्कुदम्बकणत्केकारुताविनादिता ॥ ९ ॥ कुमुदोत्पल कहारकुसुमैराकुलोदका ॥ देवदेवस्य या देवी दयिता शङ्करस्य चा ॥ १० ॥ देविका सा पुरा राजन् देवलोकगतिमप्रदा ॥ विस्तार्तितमहाकूला विषमद्वीप वाजिता ॥ ११ ॥ विष्णुलोकप्रदा देवी वितस्ताद्यैघविनाशिनी ॥ चन्द्रभागा च चन्द्रांशुचारुशीतजलाविला ॥ १२ ॥ चन्द्रलोकप्रदा स्नाने चामरत्वप्रदायिनी ॥ १४॥ सरोजाकुलतीर्था च सरयूः सरितां वरा ॥ १३ ॥ सततं सेविता सद्भिः सोमोलोकमभीप्सुभिः ॥ इन्द्रेमभेसंवितातट्य इन्द्रलोक प्रदायिनी ॥ १४ ॥ इन्दीवराकुलजला तथा देवी इरावती ॥ विरिष्टपाशाविच्छेदे विपाशा कुशला तथा ॥ १५ ॥ तथैव सर्वपापानां विपाकैकका रिणी नृणाम् ॥ वशिष्ठाविद्रुता देवी शतद्रुर्तगगामिनी ॥ १६ ॥ रौद्रणामपि सत्त्वानां रुद्रलोकप्रदा शिवा ॥ कृष्णेन कृष्णतोया च बाल्ये पीतपयो धरा ॥ १७॥ यमस्वसा च यमुना याम्यदुःखविनाशिनी ॥ सप्तप्रकारा च नदी तथा देवी सरस्वती ॥१८॥ तस्याः सप्तसु भागेषु नामानि शृणु
१ 'वीणा' इति ख० । २ 'विपाप' इति क० ।