भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 652, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 652

वि० ध० तृ० खं० अ० १२९ ॥३७८॥

मेव तत ॥ लेह्यञ्च द्विजे दद्यात्समाल्यं नृप दक्षिणाम् ॥ ७॥ तृतीयेहि ततः पूजा कार्या रुद्रस्य पार्थिव ॥ गन्धमाल्यनमस्कारधूप दीपैस्तथैव च ॥ मानस्तोकेति मंत्रेण घृतहोमो विधीयते ॥८॥ सघृतं लेह्यपात्रं च सहिरणयं सदक्षिणम् ॥ तृतीये दिनभागे तु वाताहारं समाचरेत् ॥ ९ ॥ तथा त्रिमधुरं द्वादशोजनं तच्च भक्षयेत् ॥ व्रतमेतन्नरः कृत्वा मासिमासि दिनत्रयम् ॥ संवत्सरेण धर्मज्ञ गतिमिष्टामवाप्नुयात् ॥ १० ॥ मातृव्यमासाद्य भवर्रोगो जितेन्द्रियः सत्यपरो विनीतः॥ सौभाग्यरूपद्रविणोपपन्नः साक्षाद्विद्यो लोकधुरन्धरः स्याता॥ १॥इति श्रीविष्णुधर्मो त्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिमूर्त्तित्रतं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७॥ मार्कण्डेय उवाच ॥ एकमेव जगत्सर्व प्रकृतिः पुरुषः स्मृतः॥ चैत्रशुक्लसमारभे सोपवासो जितेन्द्रियः ॥१॥ पुरुषं पूजयेद्विष्णुं स्थले वा यदि वा जले ॥ गन्धमाल्यनमस्कारधूपदीपात्रसंपदा ॥२॥ पौरुषं तु तथा सूक्तं जपेद्दन्तजले नरः ॥ तथा चैनं च प्रत्यहं बुधो दद्याज्जलाञ्जलिम् ॥३॥ तथा पुष्पाणि धर्मज्ञः फलानि च महाभुज ॥ धूपं दद्यात्सतंतचं जपेच्छक्त्या तथा च तम् ॥ ४ ॥ जुहुयाच्च तथाऽऽज्येन द्विजे दद्याच्च काञ्चनम् ॥ आहारं पयसा कुर्यान्निशाकाले च भार्गव॥ ॥ ५ ॥ एतत्संवत्सरं कृत्वा, नित्यव्रतमतीन्द्रितः ॥ पक्षयोरुभयोर्वीर सर्वपापैः प्रमुच्यते ॥ ६ ॥ प्रसादमासाद्य स वासुदेवात्सर्वं दृश त्सर्वगुणादिश्र्विन्त्यात् ॥ लोकेश्वरान्मॊक्षपदं प्रयाति ये यान्ति सिद्धा मनुषः प्रतीताः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्क ण्डेयवज्रसंवादे पौरुषीप्रतिपद्व्रतो नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥ मार्कण्डेय उवाच ॥ पुरुषः प्रकृतिश्चोभौ जगत्सर्वं प्रकीर्तितः म ॥ अग्नीषोमात्मकं सर्वं तथा तस्य प्रकीर्तितम् ॥१॥ वासुदेवश्च लक्ष्मीश्च तावेव परिकीर्तितौ ॥ चैत्रशुक्लसप्तम्यां च सोपवासो जितेन्द्रियः ॥२॥ पौरुषेण स सूक्तेन वह्निं संपूजयेन्नरः ॥ गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ ३ ॥ लक्ष्मीं च वरदां देवीं पूजयेदुदकेन तु ॥ श्रीसूक्तेन च धर्मज्ञ यथावन्मनुजेश्वर ॥ ४ ॥ काञ्चनं राजतं चौभौ दद्याद्विप्रेषु दक्षिणाम् ॥ प्राणयात्रां बुधः कुर्यात्क्षीरेण संयुतेन च ॥ ५ ॥ संवत्सरमिदं कृत्वा व्रतं सम्यगुपोषितः ॥ मुच्यते पातकैः सर्वैर्मोक्षोपायंच विन्दति ॥६॥ कामानावाप्नोत्यथ वा विचित्राँल्लोकांश्च मुख्यान्नृपु थां समग्राम् ॥ विरूपतो रूपमथापि चारुं यशस्तथाग्र्यं तनयांश्च मुख्यान् ॥६॥ इति श्रीविष्णुधर्मोत्तरे तृ०खण्डे मार्कण्डेयवज्रसंवादे प्रकृति पुरुषनिरूपणो नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ मार्कण्डेय उवाच ॥ नासत्यौ देवभिषजावश्विनौ परिकीर्तितौ ॥ तावेव कथितौ लोके सूर्येताराधिपौ नृप ॥ १ ॥ अश्वयान्ततौ यस्मादश्विनौ परिकीर्तितौ ॥ चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ॥ २ ॥