विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 653, कुल 1001 में से
संदर्भ में पढ़ेंनासत्यौ देवभिषजौ पूजयत्प्रयतः शुचिः ॥ ३ ॥ कृत्वा च रूपनिर्माणं नासत्यौ पूजयेन्नरः ॥ दीपमालां ततो दद्यात्तयोर्निशि विशेषतः ॥ ४ ॥ कनकं रजतं चोभे दद्याद्विप्रेषु दक्षिणाम् ॥ संमील्य नेत्रयुगलं विष्णुं च संस्मरेन्नरः ॥ ५ ॥ प्रदीप्ततेजा भवति चक्षुष्मांश्चैव जायते ॥ प्राणयात्रां तु कुर्वीत दध्ना घृतयुतेन च ॥ ६ ॥ नेत्रव्रतं द्वादशवत्सराणि कृत्वा भवेद्भूमिपतिः प्रतीतः ॥ सहस्ररूपो रिपुगणप्रमाथी धर्माभिरामो नृपवर्चयुक्त्यः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नासत्यपूजाचक्षुर्व्रतं नाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ मार्कण्डेय उवाच ॥ इमां तथान्यां वक्ष्यामि द्वितीयां सर्वकामदाम् ॥ यामु- पोष्य नरः कामान्सर्वान्प्राप्नोत्यभीप्सितान् ॥ १ ॥ चैत्रादितीयां संप्राप्य शुक्लपक्षस्य मानवः ॥ दिनावसाने कुर्वीत सम्यक् स्नानं नदीजले ॥ २ ॥ बालेन्दुमण्डलं कृत्वा पूजयेच्छ्वेतवर्णकैः ॥ श्वेतैः पुष्पैः फलैश्चैव परमाद्रेन भूरिणा ॥ ३ ॥ इक्षुनेक्षुविकारैर्वा गुडेन लवणेन वा ॥ दिनावसाने देवेशं पूजयित्वा निशाकरम् ॥४॥ घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः ॥ ततस्तैलेन हरितं भक्षयेत्सक्तुमेव च ॥५॥ एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः ॥ सौभाग्यं महदाप्नोति स्वर्गलोकं च गच्छति ॥६॥ एतत्पवित्रं रिपु- नाशकारि सौभाग्यदं रोगहरं च राजन्। प्रोक्तं व्रतं यावदवेक्षशुक्राय कार्यं प्रयत्नेन तथा क्रियापि॥७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे बालेन्दुद्वितीयाव्रतवर्णनो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥ मार्कण्डेय उवाच ॥ अशून्यशयनं राजन्द्वितीयां शृणुवतो मम ॥ यामुपोष्य न वैधव्यं प्रयाति स्त्री कथञ्चन ॥ १ ॥ पत्नीवियोगं च नरो नासादयति कर्हिचित् ॥ कृष्णपक्षद्वितीयायां ग्राह्या सा श्रवणे तिथिः ॥ २ ॥ स्वास्तीर्णे शयने विष्णुं लक्ष्मीं देवीं तथैव च ॥ संपूज्येत्फलैः पुष्पैर्गन्धैश्चैवं भगीव ॥ ३ ॥ नैवेद्यं च ततो दद्याद्दीपं धूपं च शक्तितः ॥ ततः संपूज्य देवेशं जपेन्मन्त्रमिमं शुचिः ॥४॥ श्रीवत्साङ्कश्चरीकान्त श्रीवास श्रीपतेऽच्युत ॥ गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थ- कामदम् ॥ ५ ॥ अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥ पितरो मा प्रणश्यन्तु मत्तो दांपत्यभेदतः ॥ ६ ॥ लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् ॥ तथा कलत्रसंबन्धो देव मा मे विनश्यतु ॥ ७ ॥ लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ॥ शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥ ८ ॥ एवं प्रसाद्य देवेशं नक्तं भुञ्जीत वाग्यतः ॥ ब्राह्मणाय द्वितीयेऽह्नि प्रदद्याद्वैच दक्षिणाम्॥९॥ शयने च द्विजेन्द्राय गते मास चतुष्टये ॥तस्य जन्मत्रयं राजन्गृहभङ्गो न जायते॥ १०॥ अशून्यशयनव्रतासो धर्मकर्माभिसाधकः ॥ भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः॥११॥
६४