भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 658, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 658

वि० ध० ॥३८१॥

तृ० खं० अ० १४२

रूपं धर्मस्य बलस्योक्तं तदेव तु ॥ २ ॥ रूपं ज्ञानस्य ते प्रोक्तं नारसिंहं तथा नृप ॥ रुद्ररूपमैश्वर्य्यं कथितं ते मया नृप ॥ ३ ॥ शक्तिर्वैराहः कथितो देवो मधुनिषूदनः ॥ एवमेतन्मुखत्वात्तुं चतुर्मूत्तिधरस्य ते ॥ ४ ॥ पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत् ॥ दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः ॥ ५ ॥ ऐश्वर्यं पश्चिमं वक्रं रौद्रं पापहरं तथा ॥ वाराहमुत्तरं वक्रमनिरुद्धं प्रकीर्त्तितम् ॥ ६॥ त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम् ॥ तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम् ॥ ज्येष्ठे च पश्चिमं वक्रमाषाढेपि तथोत्तरम् ॥७॥गुहोपयोगि दातव्यं चैत्रे मासि द्विजातये ॥ रणोपयोगि दातव्यं वैशाखे याद्वोत्तमम्॥८॥योगोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये॥अक्षोपयोगि दातव्यं मास्याषाढे तथैव च॥९॥ व्रतमेतत्कृत्वो पूर्णं मासचतुष्टयम् ॥पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः॥ १०॥पाषणं प्रथमं कृत्वा स्वर्गलोके महीयते॥ दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथादितम् ॥ ११॥ सौम्यादिषु च मासेषु द्वितीयं पारणं भवेत् ॥ द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्छुचिः ॥ भोजनं गोरसप्रायं मृष्टोक्षारकंरायुतम्॥ १२॥ प्राप्ते तृतीये द्विजपारेणे च प्राप्नोति देवस्य स लोकतां सः ॥ स्वर्गोन्दुलौकौ च तथोककालं भुक्त्वा सुखी सर्वसमृद्धिकामः ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूत्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ विद्याकामेन कर्त्तव्यं नरेण सुविपश्चिता ॥ १ ॥ बहिः स्नानं नरः कृत्वा कृतञ्चंगंवदपूजनः ॥ ऋग्वेदं शृणु यान्नित्यं मासमासम्रतन्द्रितः ॥ २ ॥ चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः ॥ यस्माच्छ्रुते द्विजातस्य ज्येष्ठस्य चरमेऽहनि ॥ ३ ॥ वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम् ॥ घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा ॥ ४ ॥ आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत् ॥ आश्विनादिषु मासेषु सामवेदव्रतं भवेत् ॥ ५ ॥ तथा सर्वव्रतं नाम पौषादिषु विधीयते ॥ सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्त्तितम् ॥ ६ ॥ वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्वादशवत्सराणि ॥ विष्णोर्लोकं याति लोकैर्विशिष्टं यस्तं प्रातः सर्वदुःखं जहाति ॥ ७॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदम्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः॥ चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः ॥ १ ॥ चतुर्थ्यां वासुदेवस्य कृत्वा संंपूजनं शुभम् ॥ काञ्चनं दक्षिणां दद्याद्विजाय ब्रह्मचारिणे ॥ २ ॥ तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ॥ वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम् ॥ ३ ॥ संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि ॥ वनस्थाय तथा दद्यात्फलमूले सगोरसम् ॥ ४ ॥ अनिरुद्धं तथाषाढे

॥३८१॥