विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 658, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥३८१॥
तृ० खं० अ० १४२
रूपं धर्मस्य बलस्योक्तं तदेव तु ॥ २ ॥ रूपं ज्ञानस्य ते प्रोक्तं नारसिंहं तथा नृप ॥ रुद्ररूपमैश्वर्य्यं कथितं ते मया नृप ॥ ३ ॥ शक्तिर्वैराहः कथितो देवो मधुनिषूदनः ॥ एवमेतन्मुखत्वात्तुं चतुर्मूत्तिधरस्य ते ॥ ४ ॥ पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत् ॥ दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः ॥ ५ ॥ ऐश्वर्यं पश्चिमं वक्रं रौद्रं पापहरं तथा ॥ वाराहमुत्तरं वक्रमनिरुद्धं प्रकीर्त्तितम् ॥ ६॥ त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम् ॥ तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम् ॥ ज्येष्ठे च पश्चिमं वक्रमाषाढेपि तथोत्तरम् ॥७॥गुहोपयोगि दातव्यं चैत्रे मासि द्विजातये ॥ रणोपयोगि दातव्यं वैशाखे याद्वोत्तमम्॥८॥योगोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये॥अक्षोपयोगि दातव्यं मास्याषाढे तथैव च॥९॥ व्रतमेतत्कृत्वो पूर्णं मासचतुष्टयम् ॥पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः॥ १०॥पाषणं प्रथमं कृत्वा स्वर्गलोके महीयते॥ दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथादितम् ॥ ११॥ सौम्यादिषु च मासेषु द्वितीयं पारणं भवेत् ॥ द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्छुचिः ॥ भोजनं गोरसप्रायं मृष्टोक्षारकंरायुतम्॥ १२॥ प्राप्ते तृतीये द्विजपारेणे च प्राप्नोति देवस्य स लोकतां सः ॥ स्वर्गोन्दुलौकौ च तथोककालं भुक्त्वा सुखी सर्वसमृद्धिकामः ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूत्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ विद्याकामेन कर्त्तव्यं नरेण सुविपश्चिता ॥ १ ॥ बहिः स्नानं नरः कृत्वा कृतञ्चंगंवदपूजनः ॥ ऋग्वेदं शृणु यान्नित्यं मासमासम्रतन्द्रितः ॥ २ ॥ चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः ॥ यस्माच्छ्रुते द्विजातस्य ज्येष्ठस्य चरमेऽहनि ॥ ३ ॥ वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम् ॥ घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा ॥ ४ ॥ आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत् ॥ आश्विनादिषु मासेषु सामवेदव्रतं भवेत् ॥ ५ ॥ तथा सर्वव्रतं नाम पौषादिषु विधीयते ॥ सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्त्तितम् ॥ ६ ॥ वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्वादशवत्सराणि ॥ विष्णोर्लोकं याति लोकैर्विशिष्टं यस्तं प्रातः सर्वदुःखं जहाति ॥ ७॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदम्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः॥ चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः ॥ १ ॥ चतुर्थ्यां वासुदेवस्य कृत्वा संंपूजनं शुभम् ॥ काञ्चनं दक्षिणां दद्याद्विजाय ब्रह्मचारिणे ॥ २ ॥ तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ॥ वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम् ॥ ३ ॥ संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि ॥ वनस्थाय तथा दद्यात्फलमूले सगोरसम् ॥ ४ ॥ अनिरुद्धं तथाषाढे
॥३८१॥