भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥३८१॥

तृ० खं० अ० १४२

रूपं धर्मस्य बलस्योक्तं तदेव तु ॥ २ ॥ रूपं ज्ञानस्य ते प्रोक्तं नारसिंहं तथा नृप ॥ रुद्ररूपमैश्वर्य्यं कथितं ते मया नृप ॥ ३ ॥ शक्तिर्वैराहः कथितो देवो मधुनिषूदनः ॥ एवमेतन्मुखत्वात्तुं चतुर्मूत्तिधरस्य ते ॥ ४ ॥ पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत् ॥ दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः ॥ ५ ॥ ऐश्वर्यं पश्चिमं वक्रं रौद्रं पापहरं तथा ॥ वाराहमुत्तरं वक्रमनिरुद्धं प्रकीर्त्तितम् ॥ ६॥ त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम् ॥ तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम् ॥ ज्येष्ठे च पश्चिमं वक्रमाषाढेपि तथोत्तरम् ॥७॥गुहोपयोगि दातव्यं चैत्रे मासि द्विजातये ॥ रणोपयोगि दातव्यं वैशाखे याद्वोत्तमम्॥८॥योगोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये॥अक्षोपयोगि दातव्यं मास्याषाढे तथैव च॥९॥ व्रतमेतत्कृत्वो पूर्णं मासचतुष्टयम् ॥पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः॥ १०॥पाषणं प्रथमं कृत्वा स्वर्गलोके महीयते॥ दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथादितम् ॥ ११॥ सौम्यादिषु च मासेषु द्वितीयं पारणं भवेत् ॥ द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्छुचिः ॥ भोजनं गोरसप्रायं मृष्टोक्षारकंरायुतम्॥ १२॥ प्राप्ते तृतीये द्विजपारेणे च प्राप्नोति देवस्य स लोकतां सः ॥ स्वर्गोन्दुलौकौ च तथोककालं भुक्त्वा सुखी सर्वसमृद्धिकामः ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूत्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ विद्याकामेन कर्त्तव्यं नरेण सुविपश्चिता ॥ १ ॥ बहिः स्नानं नरः कृत्वा कृतञ्चंगंवदपूजनः ॥ ऋग्वेदं शृणु यान्नित्यं मासमासम्रतन्द्रितः ॥ २ ॥ चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः ॥ यस्माच्छ्रुते द्विजातस्य ज्येष्ठस्य चरमेऽहनि ॥ ३ ॥ वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम् ॥ घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा ॥ ४ ॥ आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत् ॥ आश्विनादिषु मासेषु सामवेदव्रतं भवेत् ॥ ५ ॥ तथा सर्वव्रतं नाम पौषादिषु विधीयते ॥ सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्त्तितम् ॥ ६ ॥ वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्वादशवत्सराणि ॥ विष्णोर्लोकं याति लोकैर्विशिष्टं यस्तं प्रातः सर्वदुःखं जहाति ॥ ७॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदम्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः॥ चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः ॥ १ ॥ चतुर्थ्यां वासुदेवस्य कृत्वा संंपूजनं शुभम् ॥ काञ्चनं दक्षिणां दद्याद्विजाय ब्रह्मचारिणे ॥ २ ॥ तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ॥ वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम् ॥ ३ ॥ संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि ॥ वनस्थाय तथा दद्यात्फलमूले सगोरसम् ॥ ४ ॥ अनिरुद्धं तथाषाढे

॥३८१॥

पूजयित्वा जगद्गुरूम् ॥ दद्यादलाबुपात्रं च योग्यस्थाय द्विजातये ॥ ५ ॥ इत्येवं पारणं प्रोक्तं स्वर्गलोके महीयते ॥ द्वितीये पारणे प्राप्ते शक्रलोके
महीयते ॥ ६ ॥ सालोक्यमायात्यथ केशवस्य प्राप्ते तृतीये त्वथ पारणे च ॥ इत्याश्रमव्रतं वृत्तमुक्तं ते मयोदितं कल्मषनाशकारि ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे आश्रमव्रतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥
मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूतिव्रतं तव ॥ चतुरात्मा हरिः प्रोक्तश्चत्वारस्तु हुताशनाः ॥ १ ॥ आहिताग्निर्द्विजो यस्य विद्य-
तेऽग्निचतुष्टयम् ॥ सोपवासश्चतुर्थ्यां तु शुक्लपक्षस्य फाल्गुने ॥ २॥ अभ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितः ॥ तस्मै दद्याद्द्विजेन्द्राय तिलप्रस्थानि
षोडश ॥ ३ ॥ सुवर्णस्य सुवर्णं च वस्त्रं घृततुलामपि ॥ एवं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ॥ ४ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ॥ ५ ॥ मातृपो दीप्ततेजाः स्याद्धोताग्निः प्रमदाप्रियः ॥ रिपूञ्जयति संग्रामे धनवांश्च तथा भवेत् ॥ ६ ॥
ये त्वग्नयो वै चतुरः प्रदिष्टाः स वासुदेवः कथितश्चतुर्था ॥ यः पूजयेद्ब्राह्मणमाहिताग्निं देवः स तेनाप्यथ पूजितः स्यात् ॥ ७ ॥ इति श्रीविष्णु-
धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तमचतुर्मूर्तिकल्पे अग्निब्रतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥ मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥ चैत्रशुक्लसमारम्भे प्रथमऽहनि पूजयेत् ॥ १ ॥ कृतं शुक्लेन सर्वण गन्धमाल्यादिना द्विजः ॥ द्वितीयेऽहनि
रक्तेन तथा श्वेतां तु पूजयेत् ॥ २ ॥ तृतीयेऽहनि पीतेन ह्यपरं पूजयेद्बुधः ॥ चतुर्थेऽहनि कृष्णेन तिष्यं संपूजयेद्बुधम् ॥ ३ ॥ सिद्धार्थकैः कुंकुमेन
तथैव च हरिद्रया ॥ तथैवामलकक्षानेनावैरोदिवसक्रमात् ॥ ४ ॥ सिद्धार्थकांसततिलैर्धृतेन जुहुयात्तथा ॥ मुक्ताफलं तथा वज्रं पद्मरागं च यादव ॥
॥ ५ ॥ इन्द्रनीलं तथा दद्याद्विप्रेषु दिवसक्रमात् ॥ क्षीरेण प्राणयात्र्रां तु कुर्यात्प्रत्यहमेव तु ॥ ६ ॥ कृत्वा व्रतं वत्सरमेतदर्कं चतुर्युगं मोदति
नाकपृष्ठे ॥ संपूज्य देवं युगमूर्तिसंज्ञं शास्ति महीं समग्राम् ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे अष्टमचतुर्मूर्ति-
कल्पे चतुर्युगव्रतवर्णनो नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४४ ॥ मार्कण्डेय उवाच ॥ इदमप्यन्यत्प्रवक्ष्यामि चतुर्मूतिव्रतं तव ॥
नित्यं चतुर्षु मासेषु श्रावणादिषु यादव ॥ १ ॥ चतुः सागरचिह्नानि पूर्णकुम्भानि पूजयेत् ॥ चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः ॥ स्नानं
समाचरेन्नित्यं नदीतोषु यादव ॥ २ ॥ होमं च प्रत्यहं कुर्याद् गन्धेन पयसा तथा ॥ तानि कुम्भानि विप्रभ्यः प्रत्यहं विनिवेदयेत् ॥ ३ ॥
सोपहाराणि धर्मज्ञ भक्त्या शक्त्या तथैव च ॥ नक्तं च प्राशनं कुर्यात्तप्ततं तैलवर्जितम् ॥ ४ ॥ कार्तिकस्यावसानेऽह्नि भोजयित्वा द्विजोत्त-

वि० ध० तृ० खं० अ० १४७

मान ॥ धेनुं दत्त्वा च विप्राय नाकपृष्ठे महीयते ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ५॥ मानुष्यमासाद्य महीपतिः स्यादृक्त्वा महीं सागरमेखलान्ताम् ॥ तत्रापि धर्मस्य पतिर्निविष्टो भवत्यरोगश्च बलेन युक्तः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुचतुर्मूर्तिकल्पे सागरव्रतवर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४५॥ मार्कण्डेय उवाच ॥ इदमन्वन्त्यवक्ष्यामि चतुर्मूर्तित्रतं तव ॥ वासुदेवस्य गरुडस्तालः सङ्कर्षणस्य च ॥१॥ प्रद्युम्नस्य तथा चित्रं मकरो व्यादिताननः। देवोऽनिरुद्धो धर्मज्ञ ऋष्यकेतः प्रकीर्तितः॥२॥पीतं नीलं तथा श्वेतं रक्तं च यदुनन्दना॥तेषां तु कथितं वासः पताका तादृगीष्यते॥ शय्यस्य यद्विधं त चात्मा नाम कीर्तितः ॥ पताका यादृशी यस्य वसनं तस्य तादृशम् ॥ ४ ॥ चैत्रे तु प्रत्यहं मासि गरुडं पूजयेन्नरः ॥ पीतेन गंधेनैवेद्यमाल्यवस्त्रादिना द्विजः॥५॥वैशाखे च तथा मासि तालं संपूजयेत्सदा ॥ नीलेन गंधेनैवेद्यमाल्यवस्त्रादिना द्विजः॥६॥क्रूञ्चं संपूजयेद्देवं मास्याषाढे यथाविधि ॥रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विजः॥७॥अधः बहिः स्नानं तथा कुर्याद्विसंपूजनं ततः ॥ नित्यं च कुर्याद्धर्मिज्ञ तथा ब्राह्मणतर्पणम् ॥ ८ ॥ प्राणयात्रा तथा कुर्याद्भक्तं तैलविवर्जितम् ॥ अधःशायी तथा च स्याद् ब्रह्मचारी तथा भवेत् ॥ ९ ॥ व्रतमतेत्था कुर्यान्नित्यं मासचतुष्टयम् ॥ ब्राह्मणान्पूजयेच्छक्त्या चाषाढचरमेऽहनि ॥ १० ॥ वस्त्रान्नयोषिनि धर्मज्ञ दद्याद्विप्रेषु दक्षिणाम् ॥ कृत्वैकं पारणं राजन्स्वर्गलोके महीयते ॥ ११ ॥ द्वितीयं पारणं कृत्वा शक्रलोके महीयते ॥ तृतीयं पारणं कृत्वा ब्रह्मलोके महीयते ॥ १२ ॥ कृत्वा पारणषटकं तु रुद्रलोके महीयते ॥ विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम् ॥ १३ ॥ ध्वजव्रतं द्वादशवत्सराणि कृत्वा नरो भार्गववंशमुख्य ॥ सायुज्यमायाति जनार्दनस्य देवस्य विष्णोः परमेश्वरस्य ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे ध्वजब्रतवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥ मार्कण्डेय उवाच ॥ इदमन्वत्यवक्ष्यामि चतुर्मूर्तित्रतं तव ॥ ईशानं च तथा वह्निं विरूपाक्षं समीरणम् ॥ १॥ विक्षेयं यदुशार्दूल देवमूर्तिचतुष्टयम् ॥ तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ॥ २ ॥ गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥ चैत्रशुक्ले महाभागं प्रतिपत्प्रभृति क्रमात् ॥ ३ ॥ भोजनाद्येताडात्कार्यैः स्नानमाचरेत् ॥ दध्ना तिलैर्यवैर्व्योमै घृतेन च तथा भवेत् ॥ ४ ॥ कर्पूरकुङ्कुमं चैव तथैवागुरुचंदने ॥ ब्राह्मणेषु प्रदातव्यं तथा राजन्दिने क्रमात् ॥ ५ ॥ दिनत्रयं तथारशनीयात्पालाशपात्रयाचितम् ॥ दिनमेकं तथाश्नीयाद्ब्रह्मचारी नरोत्तम ॥ ६ ॥ एवं संवत्सरं कृत्वा व्रतं पुरुषोत्तम ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ७॥ मानुष्यमासाद्य भवत्यरोगो वसुन्धरे शो विजितापरिक्षः ॥ जन्मान्तरे स्याद्विजवर्यमुख्यौ वेदप्रसक्तौ ॥३८२॥

बहुयज्ञयाजी॥८॥इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे देवमूर्त्तिव्रतवर्णनो नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः॥१४७॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ शङ्खचक्रगदापद्मश्चतुरात्मा प्रकीर्तितः॥ १॥ वासुदेवः स्मृतः शङ्खी चक्री संकर्षणस्तथा ॥ प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः॥२॥श्रावणादिषु मासेषु बहिः स्नानस्तु भक्तियुक्त ॥ तेषां संपूजनं कुर्यात्प्रतिमाससमतः कृत्वा तथा॥३॥कान्स्यपात्रं च नमस्करधूपदीपात्रसंपदा ॥ ततस्तु कार्त्तिकस्यान्ते समाप्ते तु तथा व्रते॥४॥ ब्राह्मणाम्भोजयेद्भक्त्या दद्याच्च्छक्त्या च दक्षिणाम् ॥ कांस्यपात्रं च सघृतं ससुवर्णं तथैव च ॥५॥ कृत्वा व्रतं मासचतुष्टयं तु प्राप्नोति लोकं त्रिदशेश्वरस्य॥ मानुष्यमासाद्य तथैव पश्चाद्रूपान्वितो भवतिह वीरः ॥ ६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे आध्रुवव्रतवर्णनो नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ त्रिरात्रोपोषितः सम्यग्वसन्ते विषुवद्दिने ॥ १ ॥ पूजां कृत्वा यथाशक्ति वासुदेवस्य शार्ङ्गिणः ॥ ततो मासत्रयं नित्यं वासुदेवं तु पूजयेत् ॥ २ ॥ तच्च मासत्रयं तिष्ठत्फलाहारो विचक्षणः ॥ ततः शारदमासाद्य धर्मज्ञं विषुवद्दिनम् ॥ ॥ ३ ॥ त्रिरात्रोपोषितः स्नात्वा प्रद्युम्नं पूजयेत्प्रियम् ॥ होमं कृत्वा ततोऽनीयाद्दत्त्वा दानं च शक्तितः ॥ ४ ॥ प्राणायात्रं तु कुर्वीत यावकान्नं महामते। व्रतावसानमासाद्य वासन्तं विषुवद्दिनम् ॥ ५ ॥ ब्राह्मणं भोजयेच्छक्त्या दद्याद्विप्रेषु दक्षिणाम् ॥५॥ काञ्चनं रजतं वस्त्रं गां च दद्यान्नन्दन ॥ एतत्संवत्सरं कृत्वा व्रतं नाम हरिप्रियम् ॥ ६ ॥ स्वर्गलोकमवाप्नोति बहुकालमसंशयम् ॥ ततोऽश्विलोकान्प्राप्नोति वसुलोकं ततो द्विजः ॥ ७ ॥ विश्वेषां चैव देवानां तथैवादित्यैर्द्विजः ॥ रुद्राणामस्य साध्यानां शक्रस्य सवितुस्तथा ॥ ८ ॥ मरुतामपि धर्मज्ञ शिशिरांशोस्तथैव च ॥ प्राप्नोति देवलोकं च कामचारी विहङ्गमः ॥ ९ ॥ प्राप्नोति लोकं स हुताशनस्य शक्रस्य देवस्य तथा हरस्य ॥ लोकं समासाद्य पितामहस्य ततः स विष्णोः पुरूषः प्रयाति ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे फलाहारहरिप्रियव्रतवर्णनो नामैकोनपञ्चा- शदुत्तरशततमोऽध्यायः ॥ १४९ ॥ मार्कण्डेय उवाच ॥ इदमन्यत्प्रवक्ष्यामि चतुर्मूत्तिव्रतं तव ॥ तस्मिन्नेव व्रते राजन्यथा पूर्वोदिते शुभे ॥ १॥ विष्णोः स्थाने त्वनन्तस्य पूजा कार्या विजानता ॥ तस्य संपूजनं कृत्वा महीगगनवेधसाम् ॥ २ ॥ द्वितीयादिषु कुर्वीत यथावद्विजितेन्द्रियः ॥ अनन्तं पूजयेद्विद्वान्प्रथमेहि यथाविधि ॥ ३ ॥ व्रतमेतत्नरः कृत्वा पूर्ण संवत्सरं ततः॥ विष्णोर्लोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥ ४ ॥ मानुष्य- मासाद्य भवेदरोगो जितेन्द्रियः सत्यपरो विनीतः ॥ धनेन रूपेण सुतेन युक्तो जनाभिरामः प्रमदाप्रियश्च ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे

तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकरणेऽनन्तव्रतवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥ मार्कण्डेय उवाच ॥ इदमप्यथव- क्ष्यामि चतुर्मूतिव्रतं तव ॥ वासुदेवांशकाज्जाताः सर्वे देवगणा नृप ॥ १ ॥ अधिकेन तदंशेन साध्या जातास्तथासुराः ॥ तत्रापि चाधिकोंऽशेन चतुरात्मा हरिः स्मृतः ॥ २ ॥ नरो नारायणश्चैव हयो हंसश्च वीर्यवान् ॥ हयो हरिरिति ख्यातो हंसः कृष्णश्च कीर्तितः ॥ ३ ॥ चतुरात्मा हरि र्जातो गृहे धर्मस्य यादव ॥ आदित्येषु तथा युक्तो मित्रावरुणसंज्ञकौ ॥ ४ ॥ तावेव साध्यौ जानीहि हरिं कृष्णं च यादव ॥ आदित्येषु तु या वृत्तौ शक्रविष्णू सुरोत्तमौ ॥ ५ ॥ तावेव सिद्धासाध्येषु नरनारायणौ पुनः ॥ चैत्रशुक्लचतुर्थ्यां तु सोपवासस्तु पूजयेत् ॥ ६ ॥ देवेशं चतुरा- त्मानं वित्तशक्त्या नराधिप ॥ व्रतमन्तरतः कृत्वा पूर्णं द्वादशवत्सरम् ॥ दुर्गतिमप्रवाप्नोति मोक्षोपायं च विन्दति ॥ शान्तः समाप्तावथ च निष्कलङ्कं परेण पुंसा च समत्वमेति ॥ सर्वेश्वरश्चाप्रतिमप्रभावो विष्णुर्लढःखो भुवनस्य गोप्ता ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूतिव्रते श्रीविष्णुकतवर्णनो नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥ समाप्तं चतुर्मूतिव्रतम् ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १ ॥ वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ॥ चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ॥ २ ॥ सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ॥ पञ्चमण्डलगाः कार्याः पञ्चभिर्वर्णकैः पृथक् ॥ ३ ॥ पार्थिवं मण्डलं कार्यं शुक्लं वर्णं महीपते ॥ वारुणं च तथा श्वेतं रक्तमाग्नेयमभिष्यते ॥ ४ ॥ पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ॥ समानवर्णैगन्धैस्तु पुष्पैस्तांनर्चयेत्पृथक् ॥ ५ ॥ शक्त्या च धूपदीपाद्यैर्धाथ्यलाभामरिन्दम ॥ यवैर्व्रीहिश्चैस्तिलैश्च सर्षपैश्च घृतेन च ॥ ६ ॥ पञ्चभिर्जुहुयान्मिश्रैः सर्वषां च पृथक्पृथक् ॥ तल्लिङ्गमन्त्रैर्वा त्वाथ वा नृप नामभिः ॥ ७ ॥ ॐकारपूर्वकेर्हत्वा विप्रांस्तु पूजयेत् ॥ एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ॥ ८ ॥ दत्त्वा विप्रेषु वस्त्राणि देवरङ्गंसमाप्ति च ॥ महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ॥ ९ ॥ पञ्चत्वमवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ बह्वयब्द- सहस्राणि स्वर्गलोके महीयते ॥ १० ॥ मातृव्यमासाद्य भवरोगैरो ग्लायिन्तो वेगिणाणपहर्ता ॥ श्रुतेन रूपेण गुणेन युक्तो जनाभिगमः प्रमदा- प्रियश्च ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥ मार्कण्डेय उवाच ॥ इदमन्द्यत्प्रवक्ष्यामि पञ्चमूर्तेिद्रतं तव ॥ संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः ॥ १ ॥ इडापूर्वकस्तथा सोम अनुपूर्वः प्रजापतिः ॥ तत्पूर्वश्च तथा प्रोक्तो देवदेवो महेश्वरः ॥ २ ॥ तेषां मण्डलविन्यासः प्राग्वदेव विधीयते ॥ प्राग्वच्च पूजनं कार्यं होमः

कार्यस्तथाविधः ॥ ३ ॥ तिलव्रीहियवैश्चैव घृतेन सितसर्षपैः ॥ तच्छिद्रैरथ वा मन्त्रैर्नामानिभिः प्रत्यहं क्रमात् ॥ ४ ॥ नक्ताशनस्तथा तिष्ठेत्प्राग्यदिवसपञ्चकम् ॥ संवत्सराख्ये वर्षे तु व्रतमेतत्समाचरेत् ॥ ५ ॥ व्रतावसाने दातव्यं सुवर्णं पञ्च यादवान् ॥ चतुर्वेदविदां देयं शाकवातेन यावकम् ॥ ६ ॥ एकैकं पञ्चमं देयं तथा कालविदे भवेत् ॥ अश्वमेधफलं ह्येतद्व्रतं तव मयेरितम् ॥ ७ ॥ यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः ॥ इति नानेन धर्मेण पूज्यमानः सुरानुरैः॥८॥ मानुष्यमासाद्य भवत्यरोगो वर्णेन रूपेण बलेन युक्तः ॥ नृपः प्रतापानतशत्रुसंघो देवोपमो वा बहुयज्ञयाजी ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चव्रतविधौ संवत्सरपूजायामश्वमेधफलवर्णनो नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ १६३ ॥

मार्कण्डेय उवाच ॥ अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम् ॥ चैत्रशुक्लद्वितीयायां स्नानमभ्यङ्गपूर्वकम् ॥ १ ॥ कृत्वा शुक्लाम्बरो राजञ्छुक्कुमाल्यानुलेपनः ॥ तिष्ठेद् घृतौदनाहारो भूमौ स्वप्याच्च तां निशाम्॥२॥ चतुर्थ्यां च तथा स्नानं बहिर्गत्वा समाचरेत्॥ पञ्चम्यां च विशेषेण ततः शुक्लाम्बरः शुचिः ॥ ३ ॥ लक्ष्मीं सम्पूजयेत्पद्मे कृतकेऽकृतकेऽपि वा ॥ शुक्लेन गन्धमाल्येन घृतदीपेन चाप्यथ ॥ ४ ॥ दध्ना च परमान्नेन आर्द्रकेण गुडेन च ॥ इक्षुणेक्षुविकारैश्च लवणेन च भूपिणा ॥ ५ ॥ स्वशक्त्या च महाराज भूयसा वल्किसैंणा ॥

श्रीसूक्तेन ततो वह्निं पद्मानि जुहुयाच्छुचिः ॥ ६ ॥ तदलाभे च बिल्वानि तदलाभे तथा घृतम्॥ ब्राह्मणान्गोरसप्रायं घृतं भूयिष्टमाशयेत् ॥ ७ ॥ सुवर्णमाषकं दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ॥ अनाहारस्ततः स्वप्याच्छुचौ देशे यथाविधि ॥ ८ ॥ ततस्तु पञ्चमीं प्राप्य पूर्वोक्ते पद्मिनीजले ॥ स्नात्वा सम्पूजनं कुर्यात्प्राग्वद्देव तथा प्रियः ॥ ९ ॥ भूय एव द्विजे दद्यात्पूर्वं कनकमाषकम् ॥ पद्माक्षमथ वा बिल्वं प्राशनीयात्तदन्तरम् ॥ १० ॥ ततो हविष्यमश्नीयाद्गायतो मानवोत्तमः ॥ संवत्सरमिदं बिल्वं प्राशनीयात्तदनन्तरम् ॥ संवत्सरमिदं कृत्वा व्रतं पार्थिवसत्तमम्॥११॥ फलमाप्नोति विपुलं राजसूयाश्वमेधयोः ॥ विना कनकदानेन व्रतमेतत्समाचरेत् ॥ १२ ॥ व्रतान्ते माषकं दद्याद्द्विहृतोमफलं लभेत् ॥ सम्पूज्य सोपवासस्तु शुक्लपक्षस्य पञ्चमीम् ॥ १३ ॥ नित्यमेव श्रियं देवीं श्रियमाप्नोत्यनुत्तमाम् ॥ बलवृत्ततमाम्रोति रूपमारोग्यमेव च ॥ १४ ॥ जगत्प्रधाना वरदा विभोवरी सर्वगता नरेन्द्र ॥ श्रद्धालुन्वितः पूजयतीह यस्तु कामानवाप्नोति स सर्वकुलम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिविधौ लक्ष्मीव्रतवर्णनो नाम चतुष्षष्ठ्यधिकशततमोऽध्यायः ॥ १६४ ॥

मार्कण्डेय उवाच ॥ अथापरं प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ॥ शङ्खं चक्रं गदां पद्मं पृथिवीं च महाभुज ॥ १ ॥ गन्धैर्मण्डलकाङ्कृत्वा पञ्चमूर्त्यै

वि० ध०
॥३८४॥
तृ० खं०
अ० १५८

पूजयेत् ॥ चैत्रशुक्लान्तमारभ्य पञ्चमीप्रभृतीन्नृप ॥२॥ सोपवासो बहिः स्नातस्तथा शुक्लाम्बरः शुचिः ॥ गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥३॥ सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदसि ॥ सर्वेषामेव देवानां नामभिस्तु तथा घृतम् ॥ ४ ॥ ब्राह्मणान्भोजयेन्नात्र तदा मधुरभोजनम् ॥ संवत्सरमिदं कृत्वा व्रतान्ते वस्त्र पञ्चकम् ॥ ५ ॥ अश्वमेधमवाप्नोति पश्चाद्रात्रिविदे ददत् ॥ पञ्चवङ्गे च राजेन्द्र राजसूयफलं लभेत् ॥ ६ ॥ मानुष्यमासाद्य भवत्यरोगी बलान्वितो धर्मपरो विनीतः ॥ धनेन रूपेण सुतेन युक्तो राजाधिराजोऽप्यथ वानरेन्द्रः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिव्रतं नाम आयुर्भाद्विव्रतनिरूपणो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५५ ॥ मार्कण्डेय उवाच ॥ अथातः संप्रवक्ष्यामि षण्मूर्तिव्रतं तव ॥ वसन्ते पूजयेद्वित्रयं द्वौ मासौ मधुमाधवौ ॥ १ ॥ फलैः पुष्पैः कषायैस्तु ग्रीष्मेग्रीष्मं च पूजयेत् ॥ मधुरेण महाराज प्रावृट्काले हिते रतम् ॥२॥ अन्नैस्तु पूजयेन्नित्यं शरदं लवणेन चा। कटुकेन च हेमन्ते तिक्तैर्न शिशिरे तथा ॥३॥ नक्तमश्नन्स्तथा तिष्ठेदृतूक्तं वर्जयेत्स्वयम् ॥ ब्राह्मणान्भोजयेच्चान्नं ऋतुक्तं रसभोजनम् ॥ ४ ॥ संवत्सरमिदं कृत्वा व्रतं परमापावनम् ॥ अश्वमेधमवाप्नोति राजसूयं च विन्दति ॥५॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ फलमक्षयमवाप्नोति व्रतस्यास्य नरोत्तम ॥ ६ ॥ चैत्रादधारयन्विते च षष्ठीं संपूजयेद्यो ऋतुषट्कमेवम् ॥ कृतीपवासस्तु यथोक्तमेतत्फलं लभेत्सुपूर्णमितीदमुक्तम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे षण्मूर्तिव्रतवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि सप्तमूर्त्तिव्रतं तव ॥ चैत्रमासादथारभ्य प्रतिपत्प्रभृति क्रमात् ॥ १ ॥ मुग्धांस्तथा बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥ क्रव्यादांश्चोपहूतांश्च आज्यपांश्च सुकालिनः ॥ २ ॥ पूजयेत्प्रत्यहं राजन्गन्धमाल्यानुलेपनैः ॥ नैवेद्यं कृसरं कुर्यात्तिलानां च होमयेत् ॥ ३ ॥ कृसरं भोजयेद्विप्रस्तिलान्दद्याच्च दक्षिणाम् ॥ नक्तमश्नन्स्तथा तिष्ठेदिव्यदर्शी नराधिप ॥४॥ संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ॥ व्रतावसाने दद्याच्च रजतस्य पलं द्विजे ॥५॥ व्रतेनानेन चीर्णेन सूर्यलोकगतिर्भवेत् ॥ त्रिदशैः पूज्यमानस्तु कामचारी विहङ्गमः ॥ ६॥ वर्षं समग्रं पुरुषस्तु कृत्वा संसारमोक्षं लभते नरेन्द्र ॥ कृत्वा तथा द्वादशवत्सराणि मानुष्यमासाद्य महीपतिः स्यात् ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० संवादे सुभास्वरादिपितृव्रतवर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥ मार्कण्डेय उवाच ॥ चैत्रमासात्समारभ्य कृष्णपक्षदिने दिने ॥ पातालपूजनं कुर्यात्प्रतिपत्प्रभृति क्रमात् ॥१॥ रुक्मभौमं तथा भौमं पातालं नीलमृत्तिकम् ॥ रक्तभौमं पीतभौमं श्वेतकृष्णमृदावपि ॥२॥
॥३८४॥

वि० ध० ॥ ३७६ ॥ तृ० खं० अ० १२३

मार्कण्डेय उवाच ॥ वासुदेवोऽच्युतानन्तस्सत्याद्यः पुरुषोत्तमः ॥ १ ॥ यस्मात्समेशश्चैव ततो मोक्षं प्रयच्छति ॥ २ ॥ धर्मवृद्धिमृद्धिकामी विद्वांश्चाविश्चेच्छुचिः ॥ ३ ॥ शुचिमादिमब्जाक्षञ्च पुष्कराक्षो ह्यधोक्षजः ॥ ३ ॥ ऋग्विद्या शिपिविष्टो यज्ञेशो यज्ञभावनः ॥ नाम्नामित्थं त्वमादीनां समुच्चारणतो नरः ॥ ४ ॥ धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥ ५ ॥ श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ॥ ५ ॥ श्रियः पतिः श्रीपरमः श्रीमान्छ्रीवत्सलाञ्छनः ॥ नृसिंहो दुष्टदमनो जयो विष्णुरित्रक्रमः ॥ ६ ॥ स्तुतः प्रयुङ्क्ते चाय अणिमादिभिरच्युतः ॥ काम्यः कामप्रदः कान्तः काम्यात्मा तथा हरिः ॥ ७ ॥ आनन्दो माधवश्चैव कामसंवृद्धये जपेत् ॥ रामः परशुरामश्च नृसिंहो विष्णुरेव च ॥ ८ ॥ विक्रमश्चैवमादीनि जप्यान्पारयिष्णोर्थिभिः ॥ दामोदानर्निरुद्धो च ज्ञेयो बन्धनमोक्षदौ ॥ ९ ॥ जप्तव्योम्यसता विद्यां महापुरुष इत्यपि ॥ विद्यार्थिना वा जप्तव्यं तथार्थारसिरसति च ॥ १० ॥ बलार्थी बलभद्रंति सौख्यार्थी सुखदेति च ॥ अर्थार्थी यार्थारिरसं गजार्थी नागमोक्षणम् ॥ ११ ॥ गोपिच्छार्थी जपेद्रामं वासुदेवेति कीर्तितम् ॥ युद्धार्थी युद्धपुरुषं कीर्तयन्जयते नरः ॥ १२ ॥ नारायणति च तथा विष्णवेति युद्धेऽक्षयद्धामिरोचते रागं सर्वार्थेषु हृदीश्येत ॥ सर्वाण्येतानि नामानि परस्य ब्रह्मणो यतः ॥ १३ ॥ सर्वाणि नामानि हितस्य राजन् भवन्ति कामाखिलदाम्यकानि ॥ यद्देव संकीर्तयते स शक्त्या तस्मादवाप्नोति हि कामसिद्धिम् ॥ १४ ॥

इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे काम्याप्तिवर्णनो नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥

वज्र उवाच ॥ कार्य्यारम्भे तथा कस्मिन्को नाम द्विज कीर्तयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्व विजानसे ॥ १ ॥

मार्कण्डेय उवाच ॥ चक्रिणं हलिनं चैव शार्ङ्गिणं खड्गिनं तथा ॥ क्षेमार्थी प्रव्रसन्न्राजन्दिषु प्राच्यादिषु स्मरेत् ॥ २ ॥ अर्चितं चार्थिकं चैव सर्वं सर्वेश्वरं प्रभुम् ॥ संस्मरेत्पुरुषं मत्सया व्यवहारेषु सर्वदा ॥ ३ ॥ कूर्मं वराहं मत्स्यं च जलप्रतरणे स्मरेत् ॥ भ्राजिष्णुमभ्रिनजने जपेदमृतमनिन्दितः ॥ ४ ॥ सङ्ग्रामाभिमुखे गच्छन्सस्मरेदपराजितम् ॥ केशवं पुण्डरीकाक्षं पुष्करार्थं तथा जपेत् ॥ ५ ॥ नेत्रबाधासु सर्वासु हृषीकेशं तथैव च ॥ अच्युतं चामृतं चैव जपेदौषधकर्मणि ॥ ६ ॥ गरुडध्वजमुत्सन्नमापादभ्यो मुच्यते नरः ॥ ज्वरदृष्टशिरोरोगविषवीर्य प्रशाम्यति ॥ ७ ॥ ग्रहनक्षत्रपीडासु देवबाधाविहेषु च ॥ दस्युचोरनिरोधेषु व्याघ्रसिंहादिसंकटे ॥ ८ ॥ अन्धकारे तथा तीव्रे नरसिंहोत कीर्तयेत् ॥ वित्तस्थापनकाले च धान्यसंस्थापने तथा ॥ ९ ॥ कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥ नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् ॥ १० ॥ वामनं खड्गिनं चैव दुःस्वप्नेषु तु संस्मरेत् ॥ अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ॥ ११ ॥ बलभद्रं समृद्ध्यर्थे कुर्याद्रत्ने

॥ ३७६ ॥

विश्वरूपं च ब्रह्माणं तथा देवं त्रिविक्रमम् ॥ ९॥ गवां कूर्म्म नरं चैव तथा नारायणं हरिम् ॥ ९॥ रामं कृष्णं च वरदं कृतिकांश्च पूजयेत् ॥ नृहरिं नृवराहं च तथा देवं त्रिविक्रमम् ॥ १० ॥ कपिलं योगिशयनं वराहं मत्स्यमेव च ॥ रामं रामं च धर्मज्ञं कूर्मं हंसं च यादव ॥ ११ ॥ प्रद्युम्नं बलदेवं च वराहं च तथा क्रमात् ॥ १३ ॥ तिथिषु प्रथमाद्यासु क्रमेणैव समर्चयेत् ॥ १२ ॥ गृहेष्वेतानिं देवं सर्वकामप्रसिद्धये ॥ तस्य सर्वातिथियुषस्मान्माहाश्लेषर्जगद्गुरोः ॥ १३ ॥ स सर्वशक्तिसम्पन्नान्महात्मा पूज्यः सदा भक्तिमुपेत्य राजन् ॥ संपूजनं देवरसस्य तस्य भक्तिः प्रधाना न हि कालयोगः ॥ १४ ॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनियमपूजावर्णनो नाम त्रिंशत्युत्तरशततमो ऽध्यायः ॥ १२० ॥ वज्र उवाच ॥ कस्मिन्देशे महाभाग प्रादुर्भावं कमर्चयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥ १ ॥ मार्कण्डेय उवाच ॥ ब्रह्माणं पुष्करे देवं प्रयागे योगशायिनम् ॥ कालंजरे महादेवं शक्रतीर्थे शतक्रतुम् ॥ २ ॥ सिन्धुकूले वराहं च शालिग्रामे त्रिविक्रमम् ॥ काश्मीरेषु तथा मत्स्यं सागरे वडवानलम् ॥ ३ ॥ अयोध्यायां तथा रामं नैमिषे धर्ममेव च ॥ कर्णाटे चाप्यनिरुद्धं मद्रदेशे नृकेसरिम् ॥ ४ ॥ शत्रुघ्नं मथुरायां च दण्डकेषु च लक्ष्मणम् ॥ भरतं केकयेष्वेव यमुनायां तथा बलिम् ॥ ५ ॥ प्राग्ज्योतिषेडनिरुद्धं च प्रद्युम्नं दक्षिणापथे ॥ तथा भार्गवरामं च मलये यदुनन्दनम् ॥ ६ ॥ पाञ्चालविषये राजन्पृत्थुं वैन्यं च पूजयेत् ॥ तमसामतीरमासाद्य वाल्मीकिं पूजयेन्नरः ॥ ७ ॥ वाराणस्याः परे पारे व्यासं यदुकुलोद्वह ॥ गङ्गाकूले महाराज वासुदेवं च पूजयेत् ॥ ८ ॥ गजेन्द्रमोक्षणं देवमङ्गुष्ठे यदुनन्दन ॥ द्वारवत्यां तथा कृष्णं नरनारायणावृभौ ॥ ९ ॥ बदर्याश्रममासाद्य पूजयेत्तु विचक्षणः ॥ कुरुक्षेत्रेष्वपि धर्मज्ञ रामं भृगुकुलोद्वहम् ॥ १० ॥ अथ वा यादवश्रेष्ठ रथस्थं कुष्णफाल्गुनौ ॥ हंसप्रपतने हंसं मत्स्यं मत्स्येषु यादव ॥ ११ ॥ गयशिरोषि वराहं तु मूलस्थाने दिवाकरम् ॥ प्रभासे च तथा सोमं हिमवत्यलकाधिपम् ॥ १२ ॥ एरावत्यां भोगमयं सरय्वां राममेव च ॥ योगिभोगासनसीनं सरयूतटसंस्थितम् ॥ १३ ॥ सर्वमूर्त्तिधरं देवं सर्वत्राप्यथ चार्चयेत् ॥ सर्वत्र सर्व शक्तिर्हि सर्वस्या स निगद्यते ॥ १४ ॥ सर्वत्र देवः स तु सर्वशक्तिः सर्वेश्वरः सर्वशरीरसंस्थः ॥ पूज्यः सदा सर्वफलप्रदाता लोके सकामानिव याति राजन् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुदेशविशेषाविर्भावपूजावर्णनो नामैकविंशत्युत्तरशतत मोऽध्यायः ॥ १२१ ॥ वज्र उवाच ॥ केन रूपेण देवस्य किंकिं नाम प्रकीर्त्तयेत् ॥ एतन्मे संशयं छिन्धि भुभुवंशविवर्धन ॥ १ ॥

वि० ध० ॥३७८॥

तृ० सं० अ० १२०

निराशिषः पूजयितो वरेण्यं देवेश्वरं वासुदेवं पुराणम् ॥ गृहेऽष्टदोषोपगतं नवीरं स्थानं तदुक्तं परमं हि गत्वात् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तप्तकाञ्चनपूजनवर्णनो नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ वज्र उवाच ॥ कस्मिन्कर्मणि संप्राप्ते कांकां संपूजयेत्तनुम् ॥ कार्यसिद्धिामिप्रेप्सुस्तन्मे वद महामुने ॥ १ ॥ मार्कण्डेय उवाच ॥ समुद्रपोतयात्रायां मत्स्यं संपूजयेद्द्विजम् ॥ वराहं वा महाभाग नद्युत्तारे तथैव च ॥ २ ॥ संपूज्यद्वेश्वरिशो विद्यारम्भे तु मानवः ॥ त्रिविक्रमं तथा देवं यात्रिकाले तु पूजयेत् ॥ ३ ॥ विवाहकाले संप्राप्ते प्रद्युम्नं पूजयेन्नृप ॥ संस्कारेषु च सर्वेषु दत्तात्रेयं च पूजयेत् ॥ ४ ॥ कान्तारम्भे तु कर्तव्यं वाल्मीकिं व्यासमेव च ॥ अभिषेके तथा राज्ञां मत्स्यं वैन्यं च पूजयेत् ॥ ५ ॥ अवश्यं व्यवहारे च संग्रामे द्यूत एव वा ॥ वराहं पूजयेद्देवं मारम्मे कौषिकमपि ॥ ६ ॥ अथ वापि महाराज देवं सङ्कर्षणं विभुम् ॥ नृसिंहं पूजयेद्व व्यवहारिणिरोधने ॥ ७ ॥ प्रतिज्ञापालणे रामं भार्गवं वाथ राघवम् ॥ औषधस्य समारम्भे कूर्मं श्रीकृष्णमेव वा ॥ ८ ॥ तीर्थयात्रासमास्रम्भे हंसं संपूजयेद्धिसुम् ॥ वाणिज्यास्य समारम्भे तथैव गरुडध्वजम् ॥ ९ ॥ शिल्पे कर्मसमासम्भे विश्वरूपं समर्चयेत् ॥ तपसश्च समारम्भे नराणारायणावुभौ ॥ १० ॥ गृहप्रवेशे च तथा देवं भोगिशयं विभुम् ॥ धर्मं संपूजयेद्देवं धर्मकार्यप्रवर्तने ॥ ११ ॥ वराहं पूजयेद्बुद्धि र्दानवान्धान्यकर्मणि ॥ व्यालक्रूरजडेषु रिपुचौरभयेषु च ॥ १२ ॥ पूजयन्नृसिंहं तु सर्वबाधाविनाशनम् ॥ १३॥ गृहेष्टरूपं धर्मज्ञ सर्वकामार्थमर्थिप्सितं वज्र ददाति कामम् ॥ सर्वोस्यथाऽऽशु गृहेऽस्यस्यास्त्वकामकामोविन्दद्याति मोक्षम् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कार्यकारम्भारूपप्रभूपूजनं नामैकोनविंशशततमोऽध्यायः ॥ ११९ ॥ वज्र उवाच ॥ कस्मिन्काले तु देवस्य प्रादुर्भावं कर्मार्चयेत् ॥ एतन्मे संशयं छिन्धि सुपुत्राविवर्धन ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ नृहयं त्वराहं च नरसिंहं च वामनम् ॥ त्रिविक्रमं तु धर्मज्ञ पञ्चस्वब्देषु पूजयेत् ॥ २ ॥ वासुदेवं हलंघरं पूजयेद्यनदये ॥ प्रद्युम्नमनिरुद्धं च तथा भोगशयं प्रभुम् ॥ ३ ॥ पञ्चानां दाशरथिं रामं भार्गवमेव च ॥ ४ ॥ वसन्तादिषु धर्मज्ञ पूजयेत्तु क्रमात् ॥ ५॥ गजेन्द्रमोक्षणं चैवं पृथुं वाल्मीकिमेव च ॥ ५ ॥ व्यासं च कृष्णं च नरं नरनारायणौ तथा ॥ रामं रामं तथा हरिं चैत्रादिषु क्रमात् ॥ ६ ॥ वह्नि प्रजापतिं सोमं रुद्रं श्रीकृष्णं तथा व्योमं शेषं वराहं च प्रद्युम्नं चार्ज्जुनं नृप ॥ ७ ॥ आदित्यं विश्वकर्म्माणं चक्रं देवं सुकेसरिम् ॥ गरुडं पुरुहूतं च कपिलं पञ्चमेव च ॥ ८ ॥

॥३७६॥

पुरुषस्य तस्मिन्नहनि यादृशे सुखदुःखे भवताम् ॥ तादृशेपि संवत्सरे तस्य ज्ञेये । तस्मात्तन्नादि स्वाशितेन सुवाससा प्रहृष्टेन नागरेण भवितव्यम् ॥ एवं नगरे संभ्रम्य चित्रांगसं ज्ञात्वा प्रविष्टायां प्रतिमाचार्या महोत्सवं कुर्यात् । द्वितीयादिवसादारभ्य यावत्सामर्थ्यं प्रत्यहं नटनर्तकनर्तकीमहेंद्रजालिकादीनां प्रीत्यापूर्वकं धनं दद्यात् ॥ प्रेक्षाकाले च प्रेक्षकं जनं माल्यताम्बूलानुलेपनादिदानेनार्चयेत् । अध्यक्षानां प्रेक्षकाणां भूतानां रङ्गादिदिग्विदिग्षु सोदकमन्नाद्यं फलानि पुष्पाणि पल्लवोत्क्षेपिकामोदकानि विकिरेत् ॥ प्रेक्षकाणां गृहागतानां च श्रेष्ठखांडस्वस्त्युदीरयेत् । गृहागतांश्च प्रेक्षका आगामिनीं यात्रां कुर्यात्सुरालये ॥ स सर्वकामानाप्नुयान्नमितोत्पत्तौ तदुपशमनायानेन विधिना पुनर्यात्रां संम्यक्कुर्यात् ॥ अनेन विधिना यस्तु यात्रां कुर्यात्सुरालये ॥ स सर्वकामानाप्नोति विष्णुलोकं च गच्छति ॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयप्रदम् ॥ नगराणां हितकरं यात्राकर्म प्रकीर्तितम् ॥ तुष्ट्यर्थं त्रिदशेन्द्राणां हितार्थं नगरस्य चा॥जनस्य राजनकर्त्तव्यं यात्राकर्म जयप्रदम्॥अतिवृष्टिकरे प्रोक्ते त्वनावृष्टिविनाशनम् ॥यात्राकर्म त्विदं कार्यं देवतायतने सदा॥ प्रतिसंवत्सरे राजन्राज्ञा विजयमिच्छता ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यात्राविविधवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

वज्र उवाच ॥ कांकां विष्णोस्तनुं मर्तः केन कामेन पूजयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥ १ ॥

॥ मार्कण्डेय उवाच ॥ सर्वकामप्रदं देवं चतुर्मूर्तिं तु पूजयेत् ॥ पूजयेद्दिनषड्ढन्धुं धर्मकामो नरः सदा॥ आराधया सङ्कर्षणं देवमर्थकामस्तु पूजयेत्॥ कामकामोपि राजेन्द्र प्रद्युम्नं पूजयेद्विभुम्॥३॥ पुनर्यशोभिकामस्तु वासुदेवं जगत्प्रभुम् ॥ पुत्रकामस्तथा राजन्रजन्याभं च पूजयेत्॥४॥ ताक्ष्र्याश्च शिरसं देवं विद्याकामस्तु पूजयेत्॥ भोगानामाप्तिकामस्तु पूजयेद्रोगशायिनम्॥५॥ भोगियोगरासनसीनं स्थानकामस्तु पूजयेत् ॥ मत्स्यं संपूजयेद्देवं धान्यकामो नरः सदा ॥ ६ ॥ तथैवोरोगकामस्तु कूर्मदेवं च पूजयेत् ॥ ज्ञानकामस्तथा हंसं नृसिंहमथ वा विभुम्॥७॥ विद्याकामोऽथ वाल्मीकिं व्यासं वाप्यथ पूजयेत्॥ सांसारिकान्नपीडानहेतवे कपिलं तथा॥८॥ धृतिकामो वराहं तु नृवराहमथार्चयेत्॥ व्यवहारे रणे द्यूते जयकामस्तथा पृथक् ॥ ९ ॥ धर्मकामस्तथा धर्मं ब्रह्माणं चापि पूजयेत् ॥ शत्रूणां नाशकामस्तु महादेवं तु पूजयेत् ॥ १० ॥ पूजयेद्भार्गवं रामं प्रतिज्ञापारगेच्छया ॥ अथ वा राजशार्दूलं रामं दशरथात्मजम् ॥ ११ ॥ श्रीकामस्तु महाराज श्रीसहायं च पूजयेत् ॥ बलकामस्तथा देवं बलभद्रं प्रपूजयेत् ॥ १२ ॥ तमेव राजशार्दूलं कृषिकर्मप्रसिद्धये ॥ सर्वकामप्रदं देवं यथेष्टं तनुमाश्रितम् ॥ १३ ॥ पूजयेत्सर्वशक्तित्वात्सर्वकामफलप्रदम् ॥

वि० ध० ॥३७४॥

तृ० खं० अ० ११७

कुर्यात् ॥ तोरणोद्धरणं मासिमासि सप्ताहोक्तं विधिं कुर्यात् ॥ यावत्संवत्सरं नित्यमेवं सर्वकामदं कर्म तत ॥ प्रतिष्ठाकल्पमनेते मणोक्तं पार्थिवोत्तम ॥ सर्वपापहरं ज्ञेयमायुष्यमपराजितम् ॥ अनेन विधिना कृत्वा स्थापनं शार्ङ्गिणो नरः॥ सर्वकामानवाप्नोति विष्णुलोकं च गच्छति ॥ ओषध्यः पवनं वृक्षा यत्किंचिदुपयुज्यते ॥ प्रतिष्ठायां हि तत्सर्वं विष्णुलोके महीयते ॥ प्रतिष्ठां येऽपि पश्यन्ति क्रियमाणां नराधिप ॥ अभिनन्दन्ति ये भक्तास्तेऽपि स्वर्गजितो नराः ॥ सात्वतोक्तेन विधिना नित्यमेव प्रतिष्ठितम् ॥ पूजयेद्देवदेवेशं य इच्छेच्छाश्वतं पदम् ॥ १ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तोरणोद्धारविधिवर्णनो नाम षोडशोत्तरशततमोऽध्यायः ॥ ११६ ॥ मार्कण्डेय उवाच ॥ अथ देवयात्राविधिर्भवति । यस्य देवस्य या तिथिः स्वकीया उक्ता तस्य तस्यां तिथौ यात्रां कुर्यात् ॥ यस्य तिथिर्न ज्ञायते तस्य पौर्णमास्यां कुर्यात् ॥ श्रीभगवतो वासुदेवस्य सर्वा एव तिथयः नास्य तिथिनियम तत्रादावेव सुधावदतं सुचित्रितं देवकुलं कृत्वा शुक्रेोहि विनायकपूजनं कुर्यात् ॥ द्वितीयेऽह्नि ब्रह्मेशपूजनं, तृतीयेऽह्नि नागपूजनम, चतुर्थेऽह्नि प्रमथपूजनम्, पञ्चमेऽह्नि ब्राह्मणपूजनम, दीनानाथदानं च षष्ठेऽह्नि स्नपनम् ॥ तत्र बृहत्स्नानं कृत्वा सर्व एव नगरजनाः सुशुक्लवाससः पवित्रहस्तपाणयः महता वाद्यघोषेण सुसुगन्धितेन सरःसारितश्रवणागारं नगरसंनिकर्षमासनन्तरम गच्छेयुः । तस्मादुदककलेशानादाय गजयुक्तानां वा वाससा शुभेनावच्छादितान्प्रवेशयेत् । प्रवेश्य श्रीभगवन्तं स्नापयेत, भोगविधिपूर्वेकेन प्रतिदिष्टेन विधिना पूजयेत, नृत्यवाद्यगीतैश्च श्रीभगवन्तमुपस्थेयत्, ततो यात्रादिने प्राते : स्वस्यां प्रतिमाभ्याम् । कूटागारे मनोहरे नानाप्रकारवस्त्रसंश्याच्छादिते सङ्किङ्किणीके रत्नमाल्पगताकोपेगोभिते रथे हरीकृत्वा अश्वैर्दो र्तेनय्येगेयितैर्वा पुरुषैर्नगरं भ्रामयेत् । नागरेण च जनेन स्वेशेन चापमात्रपाणिना कूटगारस्य पुरस्ताद्भ्रमणं कर्तव्यम् ॥ अन्यैश्च कुसुममालाविचेक्षणं कर्तव्यम् । स्तुतींश्च कुर्युः । वन्दिनो मङ्गलपाठकाश्च पुरतो भवेयुः । वाद्याणि वाद्यगुश्चतुर्दशबलायुगातो राजा चानुगमनं कुर्यात् ॥ नगरादधिकृतो वा तदधिकृतो वा गजपृष्ठगतश्च संवत्सररणानुगमनं कुर्यात् ॥ निमित्तानि च पश्येत् । विनावातं ध्वजभङ्गे राज्ञो मरणमादिशेत । छत्रभङ्गे जनपदविनाशः । ईषद्भङ्गे राजपत्नीमरणम ॥ रज्जुच्छेदे बलपीडा ॥ अश्वदानतनरविपतौ जनपद पीडा, मातृकाच्छेदे राजमातुः पीडा ॥ अर्चाभङ्गनिपतने लोकनाशः, समग्रकूटागारस्य पतने सराजकस्य राष्ट्रस्य विनाशः, विस्वरेषु वादिवेषु पञ्चकमागम्;, ध्वजस्थो नट्यादेः समरभयम् । अपृष्टजनपदे दुर्भिक्षभयम् ॥ शुश्रूषे शुभं बालका यत्र कुर्युः तत्र तथाविधमेव भवति । यस्य च

॥३७४॥

अष्टकौर्विनिणा पद्मम् । हिरण्यवर्णेति वा मात्रम् । तेन बिम्बस्नपनद्रव्याणि मङ्गलानि निवेदयेत् ॥ मधुपर्कविधिश्चैष कथितस्ते मयानघ ॥ एत- त्कृत्वा महाराज विष्णुलोके महीयते ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मधुपर्कादिनिवेदनो नाम त्रयोदशोत्तरशततमो- ऽध्यायः ॥ १३३ ॥ मार्कण्डेय उवाच ॥ हिरण्यवर्णैत्येतेन धूपेनैनं दद्यात् ॥ ततः समर्घ्यं सम्पूज्यं सहचरितकं सावदर्शं सफलं सावित्रेण निवेद- येन्नाशस्तस्या सुगन्धीनि मुख्यादीनि अनुपानानि च आपोहिष्ठेत्येति तर्पणेन, वात आवातु भेषजमिति निषुषन्सेनेन, शन्न आप इत्याचमनीयेन, अग्निसूर्येति पुनरनेनैव विधानेन, संविभागाध्यक्ष्येन अनुयज्ञेन श्रीभगवन्तमर्चयेत् ॥ मुखादिन्द्रश्च देवेषु तांबूलं दद्यात् ॥ तेनैव सुगन्धीनि, मुखवासानि. तेनैव दर्पणम् ॥ पुनरपि श्रीभगवन्तं गीतादिभिर्नृत्यैः सम्पूजयैत् ॥ अन्नयज्ञेन संवेज्य देवदेवं सनातनम् ॥ सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे इन्द्राद्यर्चनो नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ १३४॥ मार्कण्डेय उवाच ॥ ततः शङ्कस्गीतोक्तेन विधानेनेऽय्यां सास्वतः कुर्यात् ॥ कारिणश्च भोगैः शौचे भजेत ॥ देवपुरत एवत्विजो प्रत्येकं सुवर्णं महस्वं वासो गोवत्सकृतं कांस्यं दद्यात् ॥ स्वशक्त्या च तानभ्यर्चयेत् ॥ ततो ब्राह्मणान्भोजयेत् ॥ भुजानंश्च श्रीभगवन्माहात्म्यं श्रावयेत् ॥ ततो हविष्यं यजमानस्त्वश्नीयात् ॥ ततो देवागारे गीतनृत्यवाद्ययुक्तश्रवणे तिष्ठेत ॥ अनेन विधिना कृत्वा प्रतिष्ठां शार्ङ्गिणो नरः ॥सर्वान्का- मानवाप्नोति विष्णुलोकं च गच्छति ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे सात्वतेऽद्यवार्चनो नाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ॥ १३५ ॥ मार्कण्डेय उवाच ॥ वैदिकेन्ज्याविधानेन सारस्वतोक्तेन दर्शनेनविधिहोमेन सप्ताहे प्रत्यहमर्चामर्चा कुर्यात् । ततः सप्तमेऽह्नि बृहत्स्नपनं कृत्वा कल्पकः कलशपाणिः या ओषधय इति तोरणान्यामिसिंचेत् ॥ गन्धद्वारेनेत्यनुलेपनेनार्चयेत् । पुष्पवतीति पुष्पैः ॥ अग्निसूर्येति दीपेन । धूरसीति धूपेन । सावित्राणि सावित्र्यति नैवेद्येन ॥ ततः प्रागुत्तरं ततः पूर्वं ततो दक्षिणतः पश्चिमे श्रीविष्णुगायत्र्या तोरणान्युद्धरेत् ॥ सर्वे एव ऋत्विजस्तोरणान्यादाय गजपृष्ठगा अश्वरथपृष्ठगा गोरथपृष्ठगाः शिबिकागता वा नदीं गच्छेयुः । तत्र च स्वस्तिन इन्द्र इति मन्त्रेणाविक्षेपुः ॥ मङ्गलैरिति श्रीदेवतागृहं व्रजेयुः गृहेऽह भगवन्निति प्रविशेयुः ॥ ततो भोगैर्विविधैवृक्वैण सर्वेण प्रतिष्ठितेन विधिना श्रीभगवन्तमन्वेयुः । ततो सूक्तैवस्तु विषेषु मूर्धायि त्वेति मन्त्रेण यजमानस्य दीक्षाकरणं बद्धं मुञ्चेत् ॥ कवचेन च रक्षणं


१ 'सस्मिन्' इति ख० ।

वि० ध० ॥१७२॥

कालापगंभीरध्वनिस्वनेन वाद्यशब्देन जयजयकारवाग्दिशब्देन प्रसुभगान्गीतैश्च देयाः ॥ ततः पवित्रेणोपक्लृप्तांश्छिव्राम्रस्य देयां क्षिपेत् ॥ ध्रुवसीति घृतांशं दर्शयेत् ॥ सहस्रशीर्षेण शिरस्पूजोद्गमदशाटकं दद्यात् ॥ सुवासव्रात इति प्रतिनिवासनशाटकम् ॥ इदमापः प्रवहत इत्याचमनीयं ततो जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ बृहतस्नपनमेतद्धि यः करोति नरो हरेः॥ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥ न केवलं प्रतिष्ठायां सर्वदैवं समाचरेत् ॥ शान्तिदं पौष्टिकं काम्यं बृहतस्नपनमुत्तमम् ॥ दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ॥ देवदेवस्य राजेन्द्र बृहतस्नपनमाचरेत् ॥ नास्ति लोके सउत्पातो यो ह्यनेन न शाम्यति ॥ आरोग्यकामः श्रीकामो मोक्षकामश्च बन्धनात् ॥ सौभाग्यदृशन्तिकामश्च बृहतस्नपनमाचरेत् ॥ विद्यार्थी प्राप्नुयाद्विद्यां पुत्रकामस्तथात्मजान् ॥ प्रियांश्च सुभगाः प्राप्नोति यांश्च कामयते यदि ॥ अकामकामः प्राप्नोति तद्विष्णोः परमं पदम् ॥ इतिश्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बृहतस्नपनप्रशंसावर्णनो नामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्नातं श्रीभगवन्तं समर्चयेत् ॥ चन्दनबहुलैनियांसजातीफलमृगमदकर्पूराणि समस्तानि व्यस्तानि वाऽनुलेपनं कुर्यात् ॥ गन्धद्वारेति श्रीमद्भागवतमङ्गुलिम्पेत् ॥ वायुरप्रेणा इति तालवृन्तं निवेदयेत् ॥ वात आवातभेषजमिति बीजव्यत् ॥ सावित्राणि सावित्र्येति चामरं निवेदयेत् ॥ श्रीविष्णुगायत्र्या बीजानि निवेदयेत् ॥ सुवासवास इति महावस्त्रैः श्रीमद्भगवन्तं आच्छादयेत् ॥ नोपसूर्केनै नीलः हिरण्यवर्णमपरमुच्यते । कङ्कतो न कङ्कत इति कङ्कतेन इन्द्राविक्षेवेति कङ्कतेन दृष्यादृशिरिति प्रतिसंख्या अञ्जनमणिना प्रजनेन आत्मसूंक्तेन कूर्चप्रसादनेन पुष्पवतीति पुष्पैः प्रह्वितैरथायिस्थैश्च ॥ प्रजापतेन त्वदेतान्यन्य इति पदवासनेनाऽग्निर्मूर्धेति दीपेना॥ घूरसि धूर्वमिति धूपेन ॥ आभित्या शूरनोजुम इति छत्रेण॥ विष्णुगायत्र्या उपानद्वयम् ॥ इदं विष्णुर्विचक्रमे इति यानेन तेनैव प्रवहणेन । कंकुं हृणुष्वेति ध्वजैः तेनैव पताकादिभिः । ततः स्तोत्रैः श्रीभगवन्तमर्चयेत् ॥ ततो अभिसूर्धेति सर्वभोगपूरणीणियात्रया ॥ ततस्तत्त्वीवाद्यैः ततः शंखपटहमंगनिनादैः सुभगानोतेनेवेति ॥ अनेन विधिना भोगैः समभ्यर्च्य जनार्दनम् ॥ सर्वान्कामानवाप्नोति विष्णुलोके च गच्छति ॥ १ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भोगदानवर्णनो नाम द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥ मार्कण्डेय उवाच ॥ अथ मधुपर्कण श्रीमद्भगवन्तंमभ्यर्चयेत् ॥ हिरण्यवर्णेन्येग्रहणं दद्यात् । दधिक्राण्णेति दधि । घृतवतीति घृतम् ॥ मधुवाताऋतायते इति मधु ॥ त्रिसुवर्णन मंचेराज्य सवित्रेण नियोजयेत् ॥ आपोहिष्ठेति तर्पणं दद्यात्॥ वाता आचातु भेषजमिति निष्ठुप्सनस्रारत्न आप इति आचमनीयम्॥

तृ० खं० अ० ११२ ॥१७३॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भगवद्विबोधनस्नपनवर्णनो नाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥ मार्कण्डेय उवाच ॥ अथ प्रतिष्ठितस्य भगवतो वृहत्स्नपनमारभेत ततो गायत्रीं पठेत् ॥ इषेत्वेत्यनेन पत्तद्द्रं दद्यात् ॥ वैष्णवाग्यान्त्या पादुके । भूम्यावृत्वा मनोऽसीति मुद्दम् ॥ श्वन्न आप इत्यर्घ्यम् । देवेभ्यो वनस्पति इति दन्तकाष्ठम् ॥ यामालिंखेति जिह्वानिर्लेखनम् ॥ आपोहिष्ठेत्याचमनम् ॥ पात्रेणार्घ्यम् ॥ युवांसुवासा इति स्नानशाटकम् ॥ ध्रुवा द्यौरित्यासनम् । प्रतिष्ठासाम्ना पदपीठम् ॥ कनिक्रद्रेति बीजपात्रम् ॥ तेजोऽशुक्रमसीति दीपम् ॥ सुस्वाद्विन्द्रेत्यादर्शम् ॥ तथैव मुखालेपः ॥ रोभ्यः ॥ त्वक्, कोलसञ्जा ॥ वचा ॥ कुष्ठम् ॥ नीलोत्पलानि कुंकुमं चेति मुखालेपः ॥ सहस्रशीर्षेति तैलम् ॥ भद्रं कर्णेभ्यनेनोद्वर्त्तनम् ॥ सुप्रीतिकेन चमसाम्स्रनानम्॥ रूपसेनेन निष्पुंसनस्नानम् ॥ घृतवतीति घृतस्नानम्॥ दधिक्राव्ण इति दध्ना ॥ प्यवस्वतेति पयसा ॥ गंधद्वारेति गोमयेन ॥ गव्येण गोमूत्रेण॥ अश्वमेधेन पञ्चगव्येन । ध्रुवाद्यौरिति घृतं निष्पुंसनेन ॥ मधुवा तारुतायते इति मधुना ॥ सुप्रतीकेनेति इक्षुरसेन । मौनेन गुदोदकेना। अथवंविरसा शर्करोदकेना। वामदेवेनेति मधुम्यक्तमूलभृदा ॥ शीता द्यौरिति संगमसमुदा ॥ प्राणसूक्तेन सरोग्भृदा ॥ वराहेणेति वराहोद्धृतभृदा॥ वामदेवेनेति गजदन्तमृदा ॥ वृषभेणेति वृषभशृंगोद्भवमृदा ॥ अश्वक्रान्तेति सर्वा स्थिः ॥ मार्कण्डेयनेत्यामलकैः ॥ विष्णोर्नूनेति रोध्रेण । ज्येष्ठसाम्नेति कोद्रयेकेन ॥ बृहतसाम्नेति बीजपूरकेण ॥ कृष्णाजिननेति वर्णकस्नानीयेन । अग्न आयूगंसीति तगरेण । श्रीसूक्तेनेति प्रियङ्गुना॥ विष्णोरराटमसीति सिद्धार्थकैः ॥ कृणुष्वपाजनेनेति कृष्टेन ॥ शिरिमिटेनेति कुश्रोदकेन । या ओष धय इति सर्वौषधीभिः ॥ अत्रदानस्वाहाण इति बीजैः ॥ पुष्पवतीरिति पुष्पैः ॥ वनस्पतेविड्वंग इति वनस्पतिकलापैः ॥ पुष्पवतीति फलैः॥ आयूगुः शिशान इति रत्नैः ॥ गन्धद्वारेति गन्धैः । ॐकारनमस्कारपवित्रैः शिरःस्नानोपधौभिः यथा कुष्ठम्, रोध्रम्, मुस्ताः, वचा, सर्षपाः, जयन्ती, विष्णुकान्ता, पुनर्नवा, ब्राह्मी, तगरम्, अतिबला, नागबला, त्वक्पद्मकम्, अगुरुवालकम्, हरेणुकम्, लवङ्गम्, अगुरुम्, उशीरम्, नाळिका चूवकम्, द्वे हरिद्रे चेति ॥ एवं स्नानस्य कलशदानं भवति ॥ तत्रादवेवोड्डारनमस्करोपविगिम्भिर्नावा दशश्यात्मभिषण्डमधुरैः सात्वतो द्यात ॥ ततः सामविन्महावामदेव्य रथन्तरशर्करारुण्डबृहत्सामभिः ॥ अथर्वविद्व्यैवरिगरः प्रत्यङ्गिरः शङ्खगणिश्रणसूक्तमणीप्रभितिसरमणि भिः ॥ ऋग्वेदवित्.. गायत्रीसावित्रीगोसूक्तश्च ॥ सुसूलक्ष्णरुरुमुरुक्षैःश्रीसूक्तैर्यजुर्वेदवित् ॥ कृष्णाजिनचमखपृकण्डरुतकुष्माण्डरुद्रद्रविणैः। ततः स्वशक्त्या कलशसहस्रकलशाष्टशतं पञ्च वा शतानि चत्वारि वा शतमथाधिके वा अष्टार्विशतिर्वी वा स्वचित्तानवनस्पति

६३

वि० ध० ॥३७२॥

तृ० सं० अ० १७० ॥३७२॥

स्विष्टमन्त्रान्प्रभागांतरं प्रागुक्तं हुत्वा वक्ष्यमाणैर्नामभिः स्वाहान्तैश्चतुर्थीयुक्तैः यवतिलसिद्धार्थकैस्तेन नाम्ना अष्टौ वा अष्टाविंशति अष्टा- शतान्तरं वाऽव्याहृतीर्जुहुयात् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते संकर्षणाय ॥ ॐ नमो भगवते प्रद्युम्नाय ॥ ॐ नमो भगवते अनिरुद्धाय ॥ ॐ नमो भगवते पुरुषाय ॥ ॐ नमो भगवते सत्याय ॥ ॐ नमो भगवते अच्युताय ॥ ॐ नमः श्रियै ॥ ॐ नमः कालरात्र्यै ॥ ॐ नमः सृष्ट्यै ॥ ॐ नमो गरुडाय ॥ ॐ नमस्तालाय ॥ ॐ नमो मकराय ॥ ॐ नमो ऋष्याय ॥ ॐ नमोऽनन्ताय ॥ ॐ नमः कौस्तुभाय ॥ ॐ नमो वनमालायै ॥ ॐ नमः पृथिव्यै ॥ ॐ नमः शाङ्गाय ॥ ॐ नमः पद्माय ॥ ॐ नमो गदायै ॥ ॐ नमश्चक्राय ॥ ॐ नमो हलाय ॥ ॐ नमो मुसलाय ॥ ॐ नमश्शरापाय ॥ ॐ नमश्शर्मणे ॥ ॐ नमः खड्गाय ॥ ॐ नमो सुभद्राय ॥ ॐ नमो वसुभद्राय ॥ ॐ नमो आपादाय ॥ ॐ नमो युद्धाताताय ॥ ॐ नमो जयाय ॥ ॐ नमो विजयाय ॥ ॐ नमो आमोदाय ॥ ॐ नमः प्रमोदाय ॥ ततो व्याहृतिहोमः कार्यः । ततो गायत्र्या होमं कुर्यात् । ततस्तद्विष्णोः परमं पदमित्यनया ततो वैष्णववाग्भ्या ॥ ततो युञ्जे मन इति अनुवाकेन ॥ ततः पुरुषसूक्तेन ॥ ततो रथो अक्षेष्विति ऋक्चतुष्टयेन ॥ ततश्चक्रसूक्तेन ॥ ततस्सर्वाज्येन ॥ संवत्सराद्द्वादशोत्प्रेक्षण कर्मणोत्तरतंत्रं समापयेत् ॥ विष्णोः प्रतिष्ठा- करणे होम एष प्रकीर्तितः ॥ अन्यासां देवतानां च तल्लिङ्गमन्त्रैर्बुधाद्भिः ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे होमविधि- वर्णनो नाम नवोत्तरशततमोऽध्यायः॥ १७०॥ मार्कण्डेय उवाच ॥ अथ प्रतिष्ठादिवसे प्राप्ते शङ्खपटहतूर्यैः श्रीमद्भगवंतं विबोधयेत् ॥ विबोधन मन्त्रं पठेत् ॥ ततः कल्पकोत्थितोर्योध्वबाहुः कलशशरस्यप्रतिरथश्च भगवान् बुद्धे भगवानिति मन्त्रेण देवगारं प्रविशेयुः॥ ततः पञ्चगव्य- मिश्रसर्वौषधिः सर्वगन्धान् सर्वरत्नानि सुवर्णं च पिण्डिकाश्वभ्रे निक्षिपेतू ॥ तत्र च मन्त्रा भवंतीति महाभागः॥१॥ मासः ॥ त्रिसुपर्णः ॥ मारुण्डम् ॥ मुत्सुलोशूलम् ॥ स्वस्तिन इंद्रः द्वादशव्याहृत्याम् ॥ आत्यन्यूटं च ततः सांवत्सरोदिहे काले भगवन्तं सुसमं सहदीपिकयागम ॥ ध्रुवा द्यौरिति निश्चलमननेनं मन्त्रेण कुर्यात् ॥ नामचायण्योदिरेयेता॥ प्रतिष्ठासाम च पठेत् ॥ सर्वश्च जनो लजाकुसुमोत्करेण जयशब्देन कोलाहलं कुर्यात् ॥ वादिनाणि वादयेत् ॥ ॐ नमो भगवते वासुदेवायत्युदीरयेत् ॥ ब्रह्मसूक्तं च पठेत् ॥ अप्रथुरसीति जीवादानं कुर्यात् ॥ कल्पवृक्षं कल्शपा- णिः पठेत् ॥ ॐ उत्तिष्ठोत्तिष्ठि भगवन् सुप्रतिष्ठा भवयितव्यम् ॥ सान्निध्यं प्रतिपद्यस्व यजमानाभिवृद्धये ॥ शत्रोस्तु द्विपदे नित्यं शश्वत्थास्तु चतुष्पदे ॥ शत्रोस्तु सर्वलोकस्य राज्ञो राज्ञस्तथैव च ॥ यजमानः ससत्यो यो सपुत्रपशुबान्धवः ॥ रक्ष्यौ भगवता नित्यं देशश्चायं नमोस्तु ते ॥

तथा ॥ ८ ॥ प्रादुर्भावगतो विष्णुरर्च्यो देवगणैस्तथा ॥ आदितः सन्निहितो भवतीति विनिश्चयः ॥ ९ ॥ देवस्य द्विविधा मूर्तिः परा चैव तथापरा ॥ पराख्या पौरुषी मूर्तिः पञ्चभूतविवर्जिता ॥ १० ॥ तया समस्तिर्भवति सर्वगः परमेश्वरः ॥ पुरुषेण विना लोके न किंचिदिह विद्यते ॥ ११ ॥ अनादिमध्यनिधनस्सर्वमयस्ततस्तथा ॥ सर्वेन्द्रियमनाः शक्तिः सर्वतः स तथा नृप ॥ १२ ॥ प्रादुर्भावगतस्यापि तस्य या सर्वशक्तिता ॥ इच्छतः सा विनिर्दिष्टा न त्वेषानिच्छतो नृप ॥ १३ ॥ पुरुषत्वे ह्यनन्तस्य या राजनूर्ध्वशक्तिता ॥ निसर्गसिद्धा सा ज्ञेया सदा सर्वत्र यादव ॥ ॥ १४ ॥ आवाहनमथत्रापि क्रियते भुजगन्पतेः ॥ नित्यं संनिहितस्यापि सर्वत्र परमेष्ठिनः ॥ १५ ॥ केवलं कारणं तत्र मन- स्संतुष्टिकारणम् ॥ आवाहनाहतो मया देवः स्थाने संनिहितोऽपि च ॥ १६ ॥ आवाहनं स्तुत्यर्थं पुरुषस्य यथा स्थितम् ॥ तथान्यत्सर्वं महाभाग स्तुत्यर्थं प्रयोजनम् ॥ १७ ॥ नित्यतृप्तस्य किं तस्य कार्यं भवति चार्चया ॥ १८ ॥ केवलं भक्तितुष्ट्यर्थं स भक्तेभ्यः प्रतीच्छति ॥ योऽसावर्च्यते देवो यत्र देवोच्यते बुधैः ॥ १९ ॥ अर्च्यते च यैर्भावैः सर्वं तद्विद्धि तन्मयम् ॥ तस्याङ्गीकरणं विद्धि कर्तृप्रीतिप्रयोजनम् ॥ २० ॥ ज्ञेयं तथैव चात्मानं तस्य सर्वगतस्य तु ॥ अनादिकारणं तेन नित्यतृप्तेन यादव ॥ २१ ॥ अनुग्रहार्थं भक्तानां चात्मनः संप्रवर्तितम् ॥ अशरीरः शरीरस्थो यथा भवति सुप्ते ॥ २२ ॥ भक्तक्लेशप्रबोधार्थं तथैवावाह्यते त्वसौ ॥ अनाकारं महाराज लक्ष्यबन्धस्तु दुष्करः ॥ २३ ॥ साकारंलक्ष्यबन्धस्तु कर्तुं वै शक्यते सुखम् ॥ विविधस्तथाकारः प्रादुर्भावगतस्य हि ॥ २४ ॥ मयोक्तो गजशार्दूल पुरस्तादेव शाश्वतः ॥ भावो भवतु यो यस्मिन्भावनायां भवेन्नरः ॥ २५ ॥ तत्रैव भावनातेन कार्या चार्चा च यादव ॥ २६ ॥ आदौ कृत्वा महाभाग साकारे लक्ष्यबन्धनम् ॥ २६ ॥ ततः समर्थो भवति शून्ये ध्याने नरोत्तमः ॥ एवमावाहनं तस्य तथा पूजा च यादव ॥ २७ ॥ प्रबुद्धः क्रियते यत्नादात्मनाऽनुग्रहकारणम् ॥ नित्यतृप्तो न तृप्त्यर्थमुपहारं प्रयच्छति ॥ २८ ॥ प्रतीच्छति महाराज सत्वात्तुमनुकम्पकः ॥ मोक्ष- प्राप्तावुभावेतौ त्वया ज्ञेयौ महाभुज ॥ २९ ॥ ज्ञानमार्गः क्रियामार्गः श्रुतो यश्च निराशिषः ॥ तत्रबन्धाय भवति सकामेन क्रिया कृता ॥ निष्कामा येन कृता सैव मोक्षायैव विधीयते ॥ ३० ॥ आवाहनाहिताः संन्निहितास्तथैव भवन्त्यवश्यं नृप मन्युयुक्ताः ॥ स्वस्तुष्टये देववरस्य विष्णोरावाहनं वैत्र बुधैः प्रदिष्टम् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आवाहनप्रयोजनवर्णनो नामषष्टीत्तरशततमोऽध्यायः ॥ १०८ ॥ वज्र उवाच ॥ मानवस्तोमविधिमाचक्ष्व । तमुवाच भगवान्मार्कण्डेयः । अधिवासितो भगवानग्निं प्रज्वाल्य परिसमूह्याज्येन विलीनेनाज्येन

वि० ध० ॥३७७॥

नाथा ॥ ५३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शेषस्वस्तिवाचनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ मार्कण्डेय उवाच ॥ प्रोक्तो विबोधने वीर मंत्रो हि न दिवौकसाम् ॥ वासुदेवस्य वक्ष्यामि तव राजन्रिबोधनम् ॥ १ ॥ देवं विबोधयिष्यामि वासुदेवमजं विभुम् ॥ अनादिमध्यपर्यन्तं महाबलपराक्रमम् ॥ २ ॥ अनन्तं सर्वगं नाथं महद्भूतोपि महत्तरम् ॥ सूक्ष्मत्वासौक्ष्म्यं दूरस्थं सन्निकर्षगतं तथा ॥ ३ ॥ नारायणं शशाङ्काभं देवं शार्ङ्गिणमच्युतम् ॥ अतसीकुसुमश्यामं पीतवाससमुच्युतम् ॥ ४ ॥ विबुद्धः पुण्डरीकाक्षः शरणा- गतवत्सलः ॥ संसारसप्तमीमग्नानस्मानुद्धर्तुमर्हसि ॥ ५ ॥ चक्रपर्यन्तेन्दिरोच्छित्राय दुःखप्रशमनाङ्कुर्तेर ॥ ७ ॥ लक्ष्मीसंवाह्यमानाङ्गनिद्रासस्मीक्षितेक्षण ॥ ६ ॥ शेषाङ्गोपगपर्यन्तविस्तीर्णशयनाच्युत ॥ ८ ॥ शीतांगुरश्मिजालाभ्य दुग्धाम्भोधिशयाच्युत ॥ १० ॥ भक्तानां नरकश्वनिपातभयनाशन ॥ ९ ॥ निपुणीरतसमहोदत्थ कृतक्षेमजगत्त्रय ॥ ८ ॥ संसारसागरात्तारयामहापेत जनार्दन ॥ १० ॥ नप्तमदहणमात्रेण वनावश्यकराक ॥ स्वतिमान्बृहता तेषां स्वलोकंगमनदहस्तावलम्बन ॥ ९ ॥ त्रिविक्रमकमाकान्तब्रह्माण्डोदरमण्डप ॥ बालेन्दुचूडलक्ष्म श्रीलोढदृष्टवसुन्धर ॥ १२ ॥ एते विबोधयन्ति शेषमनोरथम्हाफल ॥ १३ ॥ त्रिविक्रमय महाभागाः त्रैलोक्यममळदर्शिनः ॥ १३ ॥ विबोधयति देव त्वां ब्रह्मामृचतुरमुखः ॥ गदावतो गदाभिस्त त्वां देवाः सेन्द्रपुरोगमाः ॥ ऋषयश्च महाभागाः त्रैलोक्यममळदर्शिनः ॥ १३ ॥ विबोधयति देव त्वां ब्रह्मामृचतुरमुखः ॥ गदावतो गदाभिस्त्वं गीर्भिर्द्विरदरावच्युत ॥ १४ ॥ त्यज विबुधगणारिसूदनार्थं निद्रां भव भुवनपतेसर्वचरापहो मे ॥ त्वयि भवति हि यस्य नाथ भक्ति रूपा गतिरतिशयिनी तु तस्य दैवेत्य्ः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे वासुदेवविबोधनो नाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ भगवन्सर्वदेवानां मूर्तयः परिकीर्तिताः ॥ पञ्चभूतयुता स्त्वयास्तत्समाप्तौ पृथक्तम ॥ १ ॥ आवाहनविधिश्चोक्तो यत्तदुक्तंततं मतम् ॥ आवाहिताः समायान्ति यत्र कामवसाचितम् ॥ २ ॥ आश्रित्य महिमां प्राप्तिं लघिमां च तथा सुराः ॥ विष्णुः सर्वगतो देवो महद्रूचोपि महत्तरः ॥ ३ ॥ सूक्ष्मेष्ववस्थितस्सूक्ष्मश्च सर्वव्यापी जगन्म- यः ॥ नास्ति किंचिज्जगत्यस्मिन्सन्न नास्ति जनार्दनः ॥ ४ ॥ सदसच्च महाभाग तेन व्याप्तं महात्मना ॥ आवाहनेन किं कार्य तस्य सर्वगतस्य तु ॥ ५ ॥ महद्भिथ महाभाग सर्वत्र परिरम्च्यते ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ ६ ॥ मार्कण्डेय उवाच ॥ सर्वदेवरुणा बुद्धद्रथ पि- ण्डितसंज्ञः ॥ प्रादुर्भावगतोपेक्ष्ये देवो मधुनिषूदनः ॥ ७ ॥ पञ्चभूतयुता मूर्तिः सर्वो भवति मण्डिता ॥ साधनमभ्यसंयुक्ता सर्वस्यैव यद्

तृ० खं० अ० १०८ ॥३७७॥

प्राणतस्करं रतिवल्लभम् ॥ प्रद्युम्न त्वमिहाभ्येहि परसैन्यविनाशन ॥ १३६ ॥ अष्टमावाहयिष्यामि अनिरुद्धं जगद्गुरुम् ॥ बाणासुरमहासैन्यसमुद्रबडवानल ॥ १३७ ॥ अनिरुद्ध त्वमभ्येहि महाबलपराक्रम ॥ खङ्गपाणे महाभाग उषाहृदयवन्दन ॥ १३८ ॥ साम्बमावाहयिष्यामि गदापाणिं महाबलम् ॥ एहि साम्ब महाभाग नाशितारिशेषदानव ॥ १३९ ॥ अष्टमावाहयिष्यामि युयुधानं बलोत्कटम् ॥ युयुधान त्वमभ्येहि दीर्घबाहोदरीमर्दन ॥ १४० ॥ अष्टमावाहयिष्यामि सौम्यमपराजितम् ॥ वसुभद्रं च धर्मज्ञं नीलाम्बरधरादुभौ ॥ १४१ ॥ वासुदेवप्रतीहारो पाशहस्तो सुलौचनौ ॥ ततश्चामुण्डदाकारौ महाबलपराक्रमौ ॥ १४२ ॥ सुभद्र शीघ्रमागच्छ पूर्वद्वारस्य वामतः ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४३ ॥ अष्टमावाहयिष्यामि तथाषाढं बलान्वितम् ॥ यज्ञांतं च धर्मज्ञं पीताम्बरधरादुभौ ॥ १४४ ॥ नीलजीमूतसङ्काशौ तथा मुद्गरपारिणौ ॥ सङ्कर्षणप्रतीहारौ चारुरूपौ मनोहरौ ॥ १४५ ॥ आषाढ त्वमिहागच्छ दक्षिणद्वारवामतः ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४६ ॥ यज्ञांत त्वमभ्येहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १४७ ॥ (जयमावाहयिष्यामि दीप्तेतेजससम्युतम् ॥ विजयं च विशालं च पाटलाम्बरधारिणौ ॥ १४८ ॥ शशांकांशुप्रतीकाशौ तथोभौ खङ्गधारिणौ ॥ प्रद्युम्नस्य प्रतीहारौ कामदेवौ सुवर्चसौ ॥ १४९ ॥ जय शीघ्रं त्वमभ्येहि पश्चिमद्वारवामतः ॥ गणैः सानुचरैः सार्धं भव संनिहितः सदा ॥ १५० ॥ विजय त्वमिहाभ्येहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १५१ ॥ अष्टमावाहयिष्यामि तथा मोदं जगत्प्रियम् ॥ प्रमोदं च महावीर्यं श्वेताम्बरधरादुभौ ॥ १५२ ॥ सिन्दूरारुणसङ्काशौ शक्तहस्तौ बलोत्कटौ ॥ अनिरुद्धप्रतीहारौ महाबलपराक्रमौ ॥ १५३ ॥ आमोद शीघ्रगच्छेहि द्वारदक्षिणतो भव ॥ गणैः सानुचरैः सार्धं भव सन्निहितः सदा ॥ १५४ ॥ सर्वानावाहयिष्यामि वासुदेवगणानहम् ॥ वासुदेवसमोकारान्वांसुदेवपराक्रमान् ॥ १५५ ॥ प्रद्युम्नस्य समाकारान्प्रद्युम्नसमपराक्रमान् ॥ प्रद्युम्नस्य गणानशीघ्रमायांतु भुवनेश्वराः ॥ १५६ ॥ सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ॥ सर्वानावाहयिष्यामि अनिरुद्धगणानहम् ॥ १५७ ॥ अनिरुद्धसमाकारान्निरुद्धपराक्रमान् ॥ अनिरुद्धगणाः शीघ्रमायान्तु भुवनेश्वराः ॥ १५८ ॥ सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ॥ प्राङ्भागतः स्येव विष्णोरपरिमिततेजसः ॥ १५९ ॥ नोक्तेष्वावाहनं यत्र वासुदेवोक्तमञ्जसा ॥ कार्यमावाहनं तत्र सर्वगस्य महात्मनः ॥ अथ वा विष्णुरूपोऽसमेतत्सारं तवेरितम् ॥ १६० ॥ आवाहने ये कथितास्तु मन्त्रा ज्ञेयास्त एवोद विबोधनेऽपि ॥ आवाहनं तत्र विबोधने तु बुधैः प्रयोज्यं यदुवीर।

वि० धं० ॥ ॥३७०॥

त्वमभ्येहि वेदरक्षणतत्पर ॥ ९९ ॥ वाल्मीके त्वमिहाभ्येहि वेदरक्षणतत्पर ॥ राममावाहयि- ष्यामि हतक्षत्रियमण्डलम् ॥ १०० ॥ भगवंस्त्वमभ्येहि मे नाथ जटामण्डलदुर्दृश ॥ आवाहनं करिष्यामि परशुं दीप्ततेजसम् ॥ १०१ ॥ आगच्छ परशो शीघ्रं लक्षीकृतवसुन्धर ॥ पृथुमावाहयिष्यामि चक्रवर्तिनसूर्जितम् ॥ १०२ ॥ पृथो शीघ्रं त्वमभ्येहि पृथ्विनाथ महाबल ॥ राममावाह- यिष्यामि कृतराक्षसनिग्रहम् ॥ १०३ ॥ राम शीघ्रं त्वमभ्येहि धर्मसेतो दुरासद ॥ अहमावाहयिष्यामि प्रद्युम्नं भरतं विभुम् ॥ १०४ ॥ भरत त्व- मिहाभ्येहि कृतान्तचयनिग्रह ॥ अहमावाहयिष्यामि लक्ष्मणं रिपुनाशनम् ॥ १०५ ॥ लक्ष्मण त्वमिहाभ्येहि मेघनादप्रभास्कर ॥ अहमावा- हयिष्यामि शत्रुघ्नं दीप्ततेजसम् ॥ १०६ ॥ शत्रुघ्न शीघ्रमाभ्येहि लवणायुरमर्दन ॥ व्यासमावाहयिष्यामि वेदव्यासं जगद्गुरुम् ॥ १०७ ॥ वेदव्यास त्वमभ्येहि सर्वधर्मप्रदर्शक ॥ अहमावाहयिष्यामि धर्मपुत्रं युधिष्ठिरम् ॥ १०८ ॥ युधिष्ठिर त्वमभ्येहि सर्वधर्मभृतांवर ॥ अहमावाहयि- ष्यामि भीमं मारुतपुत्रकम् ॥ १०९ ॥ भीमसेन त्वमभ्येहि शत्रूणांश तमोरुह ॥ अहमावाहयिष्यामि पार्थं रिपुनिषूदनम् ॥ ११० ॥ अर्जुनत्वमभ्ये- हि मे शीघ्रं लक्षीकृतवसुन्धर ॥ अहमावाहयिष्यामि नकुलं रूपशोभितम् ॥ १११ ॥ नकुल त्वमिहाभ्येहि शङ्खमण्डलशाम्युत ॥ अहमावाहयि- ष्यामि सहदेवं रणाप्रियम् ॥ ११२ ॥ सहदेव त्वमभ्येहि रूपद्रविणसंयुत ॥ कृष्णामावाहयिष्यामि स्वर्गलक्ष्मीं मनोहराम् ॥ ११३ ॥ याज्ञसे- नि त्वमभ्येहि लक्षीकृतवसुन्धरे ॥ सीतामावाहयिष्यामि रामपत्नीं यशस्विनीम् ॥ ११४ ॥ सीते देवि त्वमभ्येहि महीतलसमुत्थिते ॥ अह- मावाहयिष्यामि देवकीं कृष्णमातरम् ॥ ११५॥ देवकि त्वं समभ्येहि देवमातर्जगत्प्रिये ॥ अहमावाहयिष्यामि यशोदां जगतः प्रियाम् ॥११६॥ यशोदे त्वमिहाभ्येहि संवर्धितजनार्दने ॥ देवीमावाहयिष्यामि एकानंशांइति विश्रुताम् ॥११७॥ एकानंशे त्वमभ्येहि कृष्णरक्षार्थमुद्गते ॥ देवीमावाह- यिष्यामि रुक्मिणीं कृष्णवल्लभाम् ॥ ११८ ॥ रुक्मिणि त्वमिहाभ्येहि जगन्मातःकसुन्दरि ॥ देवीमावाहयिष्यामि सत्यभामां मनोहराम् ॥११९॥ सत्यभामे त्वमभ्येहि देवि केशवकङ्कणे ॥ देवीस्त्वावाहयिष्यामि कृष्णपत्नीर्द सुताः ॥१२०॥ देव्यः सर्वाः समायान्तु गान्धारप्रमुखारुत्विड् ॥ राममावाहयिष्यामि मदविभ्रान्तलोचनम् ॥ १२१ ॥ कुण्डलैकरुध्रं शान्तं वनमालाविभूषितम् ॥ एहि राम महाभाग रेवतीदयिताच्युत ॥१२२॥ हतप्रलम्बसौरोग्रव्यस्रुकृद्यदुनन्दक ॥ कृष्णमावाहयिष्यामि तोयदप्रणाम्बुदच्छविम् ॥ १२३ ॥ चाणूरबलदर्पघ्नं कंसासुरविनाशनम् ॥ एहि कृष्ण महाभाग लक्षीकृतवसुन्धर ॥ १२४ ॥ निस्तारदानवश्रेष्ठ धृतगोवर्धनचल ॥ अहमावाहयिष्यामि प्रद्युम्नं मकरच्छविम् ॥ १२५ ॥ देवारीणांम्बर

तृ० सं० अ० १०६ ॥३७०॥