विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 663, कुल 1001 में से
संदर्भ में पढ़ेंकार्यस्तथाविधः ॥ ३ ॥ तिलव्रीहियवैश्चैव घृतेन सितसर्षपैः ॥ तच्छिद्रैरथ वा मन्त्रैर्नामानिभिः प्रत्यहं क्रमात् ॥ ४ ॥ नक्ताशनस्तथा तिष्ठेत्प्राग्यदिवसपञ्चकम् ॥ संवत्सराख्ये वर्षे तु व्रतमेतत्समाचरेत् ॥ ५ ॥ व्रतावसाने दातव्यं सुवर्णं पञ्च यादवान् ॥ चतुर्वेदविदां देयं शाकवातेन यावकम् ॥ ६ ॥ एकैकं पञ्चमं देयं तथा कालविदे भवेत् ॥ अश्वमेधफलं ह्येतद्व्रतं तव मयेरितम् ॥ ७ ॥ यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः ॥ इति नानेन धर्मेण पूज्यमानः सुरानुरैः॥८॥ मानुष्यमासाद्य भवत्यरोगो वर्णेन रूपेण बलेन युक्तः ॥ नृपः प्रतापानतशत्रुसंघो देवोपमो वा बहुयज्ञयाजी ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चव्रतविधौ संवत्सरपूजायामश्वमेधफलवर्णनो नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ १६३ ॥
मार्कण्डेय उवाच ॥ अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम् ॥ चैत्रशुक्लद्वितीयायां स्नानमभ्यङ्गपूर्वकम् ॥ १ ॥ कृत्वा शुक्लाम्बरो राजञ्छुक्कुमाल्यानुलेपनः ॥ तिष्ठेद् घृतौदनाहारो भूमौ स्वप्याच्च तां निशाम्॥२॥ चतुर्थ्यां च तथा स्नानं बहिर्गत्वा समाचरेत्॥ पञ्चम्यां च विशेषेण ततः शुक्लाम्बरः शुचिः ॥ ३ ॥ लक्ष्मीं सम्पूजयेत्पद्मे कृतकेऽकृतकेऽपि वा ॥ शुक्लेन गन्धमाल्येन घृतदीपेन चाप्यथ ॥ ४ ॥ दध्ना च परमान्नेन आर्द्रकेण गुडेन च ॥ इक्षुणेक्षुविकारैश्च लवणेन च भूपिणा ॥ ५ ॥ स्वशक्त्या च महाराज भूयसा वल्किसैंणा ॥
श्रीसूक्तेन ततो वह्निं पद्मानि जुहुयाच्छुचिः ॥ ६ ॥ तदलाभे च बिल्वानि तदलाभे तथा घृतम्॥ ब्राह्मणान्गोरसप्रायं घृतं भूयिष्टमाशयेत् ॥ ७ ॥ सुवर्णमाषकं दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ॥ अनाहारस्ततः स्वप्याच्छुचौ देशे यथाविधि ॥ ८ ॥ ततस्तु पञ्चमीं प्राप्य पूर्वोक्ते पद्मिनीजले ॥ स्नात्वा सम्पूजनं कुर्यात्प्राग्वद्देव तथा प्रियः ॥ ९ ॥ भूय एव द्विजे दद्यात्पूर्वं कनकमाषकम् ॥ पद्माक्षमथ वा बिल्वं प्राशनीयात्तदन्तरम् ॥ १० ॥ ततो हविष्यमश्नीयाद्गायतो मानवोत्तमः ॥ संवत्सरमिदं बिल्वं प्राशनीयात्तदनन्तरम् ॥ संवत्सरमिदं कृत्वा व्रतं पार्थिवसत्तमम्॥११॥ फलमाप्नोति विपुलं राजसूयाश्वमेधयोः ॥ विना कनकदानेन व्रतमेतत्समाचरेत् ॥ १२ ॥ व्रतान्ते माषकं दद्याद्द्विहृतोमफलं लभेत् ॥ सम्पूज्य सोपवासस्तु शुक्लपक्षस्य पञ्चमीम् ॥ १३ ॥ नित्यमेव श्रियं देवीं श्रियमाप्नोत्यनुत्तमाम् ॥ बलवृत्ततमाम्रोति रूपमारोग्यमेव च ॥ १४ ॥ जगत्प्रधाना वरदा विभोवरी सर्वगता नरेन्द्र ॥ श्रद्धालुन्वितः पूजयतीह यस्तु कामानवाप्नोति स सर्वकुलम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिविधौ लक्ष्मीव्रतवर्णनो नाम चतुष्षष्ठ्यधिकशततमोऽध्यायः ॥ १६४ ॥
मार्कण्डेय उवाच ॥ अथापरं प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ॥ शङ्खं चक्रं गदां पद्मं पृथिवीं च महाभुज ॥ १ ॥ गन्धैर्मण्डलकाङ्कृत्वा पञ्चमूर्त्यै