विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 662, कुल 1001 में से
संदर्भ में पढ़ेंतृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकरणेऽनन्तव्रतवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥ मार्कण्डेय उवाच ॥ इदमप्यथव- क्ष्यामि चतुर्मूतिव्रतं तव ॥ वासुदेवांशकाज्जाताः सर्वे देवगणा नृप ॥ १ ॥ अधिकेन तदंशेन साध्या जातास्तथासुराः ॥ तत्रापि चाधिकोंऽशेन चतुरात्मा हरिः स्मृतः ॥ २ ॥ नरो नारायणश्चैव हयो हंसश्च वीर्यवान् ॥ हयो हरिरिति ख्यातो हंसः कृष्णश्च कीर्तितः ॥ ३ ॥ चतुरात्मा हरि र्जातो गृहे धर्मस्य यादव ॥ आदित्येषु तथा युक्तो मित्रावरुणसंज्ञकौ ॥ ४ ॥ तावेव साध्यौ जानीहि हरिं कृष्णं च यादव ॥ आदित्येषु तु या वृत्तौ शक्रविष्णू सुरोत्तमौ ॥ ५ ॥ तावेव सिद्धासाध्येषु नरनारायणौ पुनः ॥ चैत्रशुक्लचतुर्थ्यां तु सोपवासस्तु पूजयेत् ॥ ६ ॥ देवेशं चतुरा- त्मानं वित्तशक्त्या नराधिप ॥ व्रतमन्तरतः कृत्वा पूर्णं द्वादशवत्सरम् ॥ दुर्गतिमप्रवाप्नोति मोक्षोपायं च विन्दति ॥ शान्तः समाप्तावथ च निष्कलङ्कं परेण पुंसा च समत्वमेति ॥ सर्वेश्वरश्चाप्रतिमप्रभावो विष्णुर्लढःखो भुवनस्य गोप्ता ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूतिव्रते श्रीविष्णुकतवर्णनो नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥ समाप्तं चतुर्मूतिव्रतम् ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १ ॥ वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ॥ चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ॥ २ ॥ सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ॥ पञ्चमण्डलगाः कार्याः पञ्चभिर्वर्णकैः पृथक् ॥ ३ ॥ पार्थिवं मण्डलं कार्यं शुक्लं वर्णं महीपते ॥ वारुणं च तथा श्वेतं रक्तमाग्नेयमभिष्यते ॥ ४ ॥ पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ॥ समानवर्णैगन्धैस्तु पुष्पैस्तांनर्चयेत्पृथक् ॥ ५ ॥ शक्त्या च धूपदीपाद्यैर्धाथ्यलाभामरिन्दम ॥ यवैर्व्रीहिश्चैस्तिलैश्च सर्षपैश्च घृतेन च ॥ ६ ॥ पञ्चभिर्जुहुयान्मिश्रैः सर्वषां च पृथक्पृथक् ॥ तल्लिङ्गमन्त्रैर्वा त्वाथ वा नृप नामभिः ॥ ७ ॥ ॐकारपूर्वकेर्हत्वा विप्रांस्तु पूजयेत् ॥ एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ॥ ८ ॥ दत्त्वा विप्रेषु वस्त्राणि देवरङ्गंसमाप्ति च ॥ महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ॥ ९ ॥ पञ्चत्वमवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ बह्वयब्द- सहस्राणि स्वर्गलोके महीयते ॥ १० ॥ मातृव्यमासाद्य भवरोगैरो ग्लायिन्तो वेगिणाणपहर्ता ॥ श्रुतेन रूपेण गुणेन युक्तो जनाभिगमः प्रमदा- प्रियश्च ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥ मार्कण्डेय उवाच ॥ इदमन्द्यत्प्रवक्ष्यामि पञ्चमूर्तेिद्रतं तव ॥ संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः ॥ १ ॥ इडापूर्वकस्तथा सोम अनुपूर्वः प्रजापतिः ॥ तत्पूर्वश्च तथा प्रोक्तो देवदेवो महेश्वरः ॥ २ ॥ तेषां मण्डलविन्यासः प्राग्वदेव विधीयते ॥ प्राग्वच्च पूजनं कार्यं होमः