भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 671, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 671

वि० ध० ॥१७२॥

कालापगंभीरध्वनिस्वनेन वाद्यशब्देन जयजयकारवाग्दिशब्देन प्रसुभगान्गीतैश्च देयाः ॥ ततः पवित्रेणोपक्लृप्तांश्छिव्राम्रस्य देयां क्षिपेत् ॥ ध्रुवसीति घृतांशं दर्शयेत् ॥ सहस्रशीर्षेण शिरस्पूजोद्गमदशाटकं दद्यात् ॥ सुवासव्रात इति प्रतिनिवासनशाटकम् ॥ इदमापः प्रवहत इत्याचमनीयं ततो जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ बृहतस्नपनमेतद्धि यः करोति नरो हरेः॥ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥ न केवलं प्रतिष्ठायां सर्वदैवं समाचरेत् ॥ शान्तिदं पौष्टिकं काम्यं बृहतस्नपनमुत्तमम् ॥ दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ॥ देवदेवस्य राजेन्द्र बृहतस्नपनमाचरेत् ॥ नास्ति लोके सउत्पातो यो ह्यनेन न शाम्यति ॥ आरोग्यकामः श्रीकामो मोक्षकामश्च बन्धनात् ॥ सौभाग्यदृशन्तिकामश्च बृहतस्नपनमाचरेत् ॥ विद्यार्थी प्राप्नुयाद्विद्यां पुत्रकामस्तथात्मजान् ॥ प्रियांश्च सुभगाः प्राप्नोति यांश्च कामयते यदि ॥ अकामकामः प्राप्नोति तद्विष्णोः परमं पदम् ॥ इतिश्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बृहतस्नपनप्रशंसावर्णनो नामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्नातं श्रीभगवन्तं समर्चयेत् ॥ चन्दनबहुलैनियांसजातीफलमृगमदकर्पूराणि समस्तानि व्यस्तानि वाऽनुलेपनं कुर्यात् ॥ गन्धद्वारेति श्रीमद्भागवतमङ्गुलिम्पेत् ॥ वायुरप्रेणा इति तालवृन्तं निवेदयेत् ॥ वात आवातभेषजमिति बीजव्यत् ॥ सावित्राणि सावित्र्येति चामरं निवेदयेत् ॥ श्रीविष्णुगायत्र्या बीजानि निवेदयेत् ॥ सुवासवास इति महावस्त्रैः श्रीमद्भगवन्तं आच्छादयेत् ॥ नोपसूर्केनै नीलः हिरण्यवर्णमपरमुच्यते । कङ्कतो न कङ्कत इति कङ्कतेन इन्द्राविक्षेवेति कङ्कतेन दृष्यादृशिरिति प्रतिसंख्या अञ्जनमणिना प्रजनेन आत्मसूंक्तेन कूर्चप्रसादनेन पुष्पवतीति पुष्पैः प्रह्वितैरथायिस्थैश्च ॥ प्रजापतेन त्वदेतान्यन्य इति पदवासनेनाऽग्निर्मूर्धेति दीपेना॥ घूरसि धूर्वमिति धूपेन ॥ आभित्या शूरनोजुम इति छत्रेण॥ विष्णुगायत्र्या उपानद्वयम् ॥ इदं विष्णुर्विचक्रमे इति यानेन तेनैव प्रवहणेन । कंकुं हृणुष्वेति ध्वजैः तेनैव पताकादिभिः । ततः स्तोत्रैः श्रीभगवन्तमर्चयेत् ॥ ततो अभिसूर्धेति सर्वभोगपूरणीणियात्रया ॥ ततस्तत्त्वीवाद्यैः ततः शंखपटहमंगनिनादैः सुभगानोतेनेवेति ॥ अनेन विधिना भोगैः समभ्यर्च्य जनार्दनम् ॥ सर्वान्कामानवाप्नोति विष्णुलोके च गच्छति ॥ १ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भोगदानवर्णनो नाम द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥ मार्कण्डेय उवाच ॥ अथ मधुपर्कण श्रीमद्भगवन्तंमभ्यर्चयेत् ॥ हिरण्यवर्णेन्येग्रहणं दद्यात् । दधिक्राण्णेति दधि । घृतवतीति घृतम् ॥ मधुवाताऋतायते इति मधु ॥ त्रिसुवर्णन मंचेराज्य सवित्रेण नियोजयेत् ॥ आपोहिष्ठेति तर्पणं दद्यात्॥ वाता आचातु भेषजमिति निष्ठुप्सनस्रारत्न आप इति आचमनीयम्॥

तृ० खं० अ० ११२ ॥१७३॥