विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 69, कुल 1001 में से
संदर्भ में पढ़ेंकरिष्यसि ॥ ९ ॥ आश्रमस्यास्य ते बाधां यः करोति सदानघ ॥ कुवलाश्वेन तं गत्वा धुंधुं घातय मा चिरम् ॥ १० ॥ अहं चास्य प्रवेक्ष्यामि कुवलाश्वस्य विष्ण्वहम् ॥ तेजसा स मदीयेन धुंधुनाजो हनिष्यति ॥ ११ ॥ न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ! ॥ मार्कण्डेय उवाच ॥ एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः ॥ १२ ॥ जगाम च तथायोध्यां सुतपेकोऽपि महातपाः ॥ पूजितो बृहदश्वेन बृहदश्वमभाषत ॥ १३ ॥ उत्तङ्क उवाच ॥ कथं निद्रासि राजेन्द्र सुतं पर्यङ्कमाश्रितः ॥ धुन्धोश्चारितमालोक्य वद्धकक्षो भवाधुना ॥ १४ ॥ वचनान्मम गजेन्द्र धुंधुं हन्तुं त्वमर्हसि भोः ॥ शक्तिः किञ्चुभमाज्ञाज्ञां दुष्करं ते पुनः कथम् ॥ १५ ॥ जहि धुंधुं महाकायं नृपते द्विजबाधकम् ॥ श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत ॥ १६ ॥ अहं वनमवृत्तस्तु त्यक्तदण्डस्तथैव च ॥ जहि त्वं दानवं श्रेष्ठं त्वत्सुतेङ्केन पालितः ॥ १७ ॥ एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ॥ उत्तङ्कसहितो गत्वा धुंधूत्पादकशलभ् ॥ १८ ॥ युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ॥ उत्तङ्कात्सुमते पश्चाद्बलेन जघान तम् ॥ १९ ॥ हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ॥ कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम् ॥ २० ॥ मयुतैकैरभ्ययैः पुत्रै घातयित्वा नराधिप ॥ धुन्धुमारत्वमगमच्छोभत तथा पुरीम् ॥ २१ ॥ तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ॥ विनष्टविध्वं च जगतद्गता गजा च कीर्त्ति परमामवाप ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ मार्कण्डेय उवाच ॥ धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ॥ निकुंभस्तस्य तनयः संहितश्च तदात्मजः॥१॥ भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः॥ देवेन विधिना राजा जातस्तस्यैव चोदरात् ॥ २ ॥ पुरुकुत्सः सुतस्तस्य त्रसदस्युस्तदात्मजः ॥ शम्भूतस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः॥३॥ रावणेन हतो योऽसौ त्रैलोक्यविजयी पुरा ॥ दृढाश्वः सुतस्तस्य तस्माद्धुम्नमना नृपः ॥ ४ ॥ तस्य पुत्रस्त्रय्यारुणस्तस्मात्त्रय्यारुणिः स्मृतः ॥ तस्य सत्यव्रतः पुत्रः त्रिशङ्कु च प्रचक्षते ॥ ५॥ हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ॥ हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ॥ ६ ॥ विजयस्तस्य तनयश्चालिकेतस्तस्य चात्मजः ॥ अर्कस्तस्य वुकः पुत्रस्तस्माद्वाहुस्तु जज्ञिवान् ॥७॥ पातनश्चित्तगुणायोध्यां स बहुव्यसनानन्वितः ॥ व्यसने तस्य सक्तस्य नरेन्द्रस्यारिमस्तदा ॥ ८ ॥ हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ॥ छलेनापहृतं राज्यं हतराज्यो वनं गतः ॥ ९ ॥ पद्मभ्यामभ्युयौ तस्य वनं भार्या गुणान्विता ॥ गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ॥१०॥ ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ॥ जातपुत्रो नरपतिः संयुक्तः कालकर्मणा ॥ ११॥ अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला ॥ संस्कृतः सर्वसंस्कारैः सगर श्च्यवनेन च ॥१२॥ शास्त्राण्यथ धनुर्वेदं नीतः पारं