भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 694, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 694

प्रतिष्ठाकल्पे तर्पणवर्णनो नामाष्टानवतितमोऽध्यायः ॥९८॥ मार्कण्डेय उवाच॥ अथ पञ्चगव्यानि। तत्र कपिलाया गोः क्षीरम्। कृष्णायाश्च दधि । नीलायाश्च घृतम् । श्वेताया गोमयम् । ताम्रवर्णाया गोमूत्रम्। गायत्र्या गोमूत्रं गृहीयात्। गन्धद्वारेति गोमयम् । आप्यायस्वेति क्षीरम् । दधिक्राव्णेति दधि। घृतवती भुवनानामिति घृतम् । देवस्यत्वेति कुशोदकम्।अथर्षभशृंगेण संयोज्य गायत्रीमुदीरयेत् । ततस्तेन पञ्चगव्येन भवनमभ्युक्षयेत्ततोरणानि नि च, अर्घाशौचार्थमवस्थापयेत् ॥ बृहत्स्नपने तदेव स्यादन्यं वा कल्पयेत् ॥ अथाऽर्घ्यकल्पना । भवति तत्र राजते पात्रे शङ्खविल्वपद्मशोरीरदर्भमूलदूर्वाशालिशालिसिद्धार्थकपुण्ड्रालपुत्रकल्पयेत् । तीर्थोदकेन प्लावयेत् । रथ अक्षीति मंत्रमुदीरयेत् । द्रविणं पापमन्द्वः द्रुपदं पवित्रं शङ्खर्माणि ग्रैस्सूक्तैः काण्डात्काण्डोति पवित्रं च ततः शुभे दृढे स्वाञ्चिते भाण्डे पाव कुर्वीत् ॥ हिरण्यवर्णत्यस्य ऋक्सूत्रेण च पार्थिव ॥ १ ॥ आपोहिष्ठेति तिसृभिः शन्नोदेवीरिति चाप्यथ ॥ १ ॥ ब्रह्मजज्ञान सूत्रेण पवित्रेण तथैव च ॥ वाचेत्यत्र तीर्थमाहात्म्यमुत्तमम् ॥ २ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० व० सं० प्रतिष्ठाकल्पे पञ्चगव्यवर्णनोनामनानवनवतितमोऽध्यायः ॥ ९९॥ मार्कण्डेय उवाच ॥ अथाघाशौचं भवति। तत्र मुनयश्चाऽत्रकर्मकर्तारो च शौचयेत् । उभायोद्दर्भपवित्रके शौचं कुर्यादधिवासनं च गृह्यं तद्वन्योत्किरैश्चैवं चादावेव कुर्यात् । ततोम्बुना गायत्र्या कुर्यात् । आक्रम्येति द्वितीया मृदा अयं चात्रापरो मंत्रो भवति । अश्वक्रांन्ते रथक्रांन्ते विष्णुक्रांन्ते वसुन्धरे ॥ मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ १ ॥ उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ मृत्तिके त्वं प्रपृच्छेहं सर्वकामप्रदा भव ॥ तृतीयं शस्तियमिति भस्मना । इदं गाव इति चतुर्थं गोमयेन। विष्णोः पृथुस्सोति पञ्चमं गौरसर्षपैः ॥ बृहत्साम्ना षष्ठं श्वेतातिभस्मना ॥ शाकरेणेति सप्तमं पञ्चगव्येन ॥ मनसः काममाकूतिमित्युष्टमं कुष्ठेन । हिरण्यवर्णेति नवमं सुवर्णोदकेन ॥ तरत्समन्दीति दर्भैष्पिच्छेदंशमम् ॥ पावमानीभिरस्तीर्थशर्करेणेकादशम् । नदोमृदा द्वादशम् ॥ गिरयस्ते पर्वतामृदा त्रयोदशम् । ऋषभेण जातं¹शृङ्गोद्भूतसदा चतुर्दशम् ॥ अश्वक्रान्तेति लाङ्गलोद्भूतसृदा पञ्चदशम् ॥ कुप्याददीति वल्मीकामृदा पोडशम् ॥ पृथ्वीदेवीति मन्युना तीर्थमृदा सप्तदशम् ॥ सरोमृदा ब्रह्मज्ञानेत्यष्टदशम् ॥ दधिक्राव्णोति दध्ना एकोनविंशम् । घृतवती घृतेन विंशतितमम् ॥ अथर्षभेण रत्नोदकमेकविंशम् ॥ एवमेकोविंशत्यात्मक्रेन सोमेन तां शौचयित्वा परमपावना मन्त्रा जप्तव्याः ॥ अश्वमेषेण इंद्वंकेते शुद्धवत्यस्तत्सम्भाः ॥ कुष्माण्डाः पावमान्यश्च दुर्गा देवी सरस्वती ॥ १ ॥ चान्द्रायणं च ऋषभं वामदेवं रथन्तरम् ॥ पौरुषं


१ 'ऋषभम्' इति ख० ।