भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 708, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 708

त्रिदशाधिवासे सुधाशिला नैव गृहेषु देया ॥ १५॥ इति श्रीविष्णुधर्मोत्तर तृतीयखण्ड मा०प० सं०२८१।२८२।
मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि वज्रलेपविधिं तव ॥ १॥ बिन्दुकांश्च कपित्थांश्च आम्रान्संहृत्य यत्नतः ॥ १ ॥ शाल्मलीनां तथा पुष्पं ¹सल्लकीबीजमेव च ॥ धनुष्प्रश्व तथा कल्के वज्रं च मनुजेश्वर ॥ २ ॥ एतेषां सम्मलानां समानं मनुजोत्तम ॥ तोयमधुगुणं तोयमधुभागं च शोषितम् ॥ ३ ॥ ततस्तत्र द्विषड्द्रव्यं शृणु तच्च समासतः ॥ मक्कीनो तु विन्यासंस्र वत्सलस्य च गुग्गुलम् ॥ ४ ॥ भल्लातकानि बिल्वानि कुङ्कुमं सर्जमेव च ॥ अतसीं वसुतस्तोऽथ वज्रलेपः प्रकीर्तितः ॥ ५ ॥ लाक्षां च कुन्दुरुं चैव गृहधूमं तथैव च ॥ कपित्थबिल्वमध्यानि तथा नागफलं नृप ॥ ६ ॥ बलां च मधुकं चैव किंजापं मदनं तथा ॥ मञ्जिष्ठासहकं सर्जं वज्रलेपः प्रकीर्तितः ॥ ७ ॥ अष्टौ भागास्तु नागस्य कांस्यभागद्वयं तथा विषाणानि गवां राजन्यहिषाणां तथैव च ॥ अजानां च तथा चर्म माहिषं गव्यमेव च ॥ ८ ॥ ²रसोऽविकपिथ्यास्तु वज्रलेपः प्रकीर्तितः ॥ अष्टौ भागास्तु नागस्य कांस्यभागद्वयं तथा ॥ ९ ॥ रीतिभागं च कथितो वज्रलेपस्तथैव च ॥ सुधापक्का ततः क्षिप्त्वा गन्धचर्मसमन्विता ॥ १० ॥ खरोग्रमुता राजन्वज्रलेपस्तथैव च ॥ तेषामेकैकसंयुक्ताः कार्याः शैलमृहा नृप ॥ ११ ॥ पञ्चैकत्वगताश्चैव स्थायिनो मनुजोत्तम ॥ वज्रलेपयुता होते भवन्त्यपि दृढस्तथा ॥ १२ ॥ तिष्ठन्ति समहाराज संवत्सरशतान्यपि ॥ सहस्राणि च धर्मज्ञ चायुतान्यर्बुदानि च ॥ १३ ॥ सुधावर्णेन सर्वेण लेपं दद्यात्तथा बहिः ॥ ततश्च तां सुधां दद्याच्छोभार्थंमरिंमर्दन ॥ १४ ॥ वज्रलेपविधानं तु प्रोक्तं सम्यक्तया तव ॥ देवायतनसृष्ट्येषु तथा च भवनेषु च ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वज्रलेपनिरूपणनाम द्विनवतिमतोऽध्यायः ॥ ९२ ॥ ॥ छ ॥ ॥ छ ॥
॥ मार्कण्डेय उवाच ॥ ॥ कृते तु देवायतने विधानं नामसंस्थितौ ॥ केवलंहि तदा ह्यासीत्प्रत्यक्षेण नराधिप ॥ १ ॥ प्रत्यक्षेणापि दृश्यन्ते त्रेता द्वापरयोर्जनाः ॥ देवानां प्रतिमाः कृत्वा पूजयन्ति यथाविधिम् ॥ २ ॥ गृहे प्रतिष्ठा तत्रापि त्रेतायां तु प्रवर्तिता ॥ द्वापरे चाप्यरण्येषु ऋषिभिस्तु ततः कृता ॥ ३ ॥ तेषां सम्पूजनं नित्यं सिद्धैस्तु क्रियते नृप ॥ प्रतिमामात्रकरणाद्भित्वा रूपयस्तु ते ॥ ४ ॥ कलौ प्रवृत्तः सर्वोऽथ प्रतिष्ठाकरणो जनः ॥ ज्ञानं परं कृतयुगे त्रेतायां च तपः परम् ॥ ५ ॥ द्वापरे तु तथा ज्ञेयं प्रतिष्ठा तु कलौ युगे ॥ देवतावेशनृपवीणि नगराणि कलौ युगे ॥ ६ ॥ कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥ राजा तु सर्वंनगरं न कुर्यान्नृपसत्तम ॥ ७ ॥ यो न राजा हतो युद्धे स पुरं कर्तुम्


१ 'सल्लकीनाम' इति ख० । २ 'रसौर्विकार्केस्तु' इति क० 'रसौर्विकापिक्यादि' इति ख० ।