विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 71, कुल 1001 में से
संदर्भ में पढ़ेंददर्श तदा ऋषिः ॥ १५ ॥ चक्षुषा दृष्टमात्रास्ते भस्मीभूतास्तु सागराः ॥ नरकं च गताः सर्वे देवब्राह्मणकण्टकाः ॥ १६ ॥ विज्ञाय तनयान्नष्टां श्चारूढात्सगरो नृपः ॥ प्रेषयामास सततंमंशुमन्तं स धार्मिकम् ॥ १७ ॥ अंशुमानपि संप्राप्य कपिलं मुनिसत्तमम् ॥ अभिवाद्य महातेजास्तुष्टाव रघुनन्दनः ॥ १८ ॥ तस्य तुष्टोऽथ तुरगं दत्तावान्कपिलो मुनिः ॥ अंशुमन्तं तदोवाच पितॄणां सलिलार्थिनाम् ॥ १९ ॥ पौत्रस्ते भविता राजंस्तपसा तस्य तोषिता ॥ आगमिष्यति सा देवी गङ्गा गगनमेखला ॥ २० ॥ तया क्लिन्नमिदं भस्म सागराणां दुरात्मनाम् ॥ २१ ॥ यदा भविष्यति तदा सागराः स्वर्गगामिनः ॥ अन्यस्यापि यदा त्वस्थि गङ्गातोये पतिष्यति ॥ २२ ॥ तस्यापि स्वर्गलोकैर्गतिर्भविष्यति न संशयः ॥ एवमुक्तोऽशुमांञ्शीघ्रं चाभिवाद्य जगद्गुरुम् ॥ २३ ॥ आगत्य योजयामास तुरगेण पितामहम् ॥ यज्ञं समापयामास सगरोऽपि महीपतिः ॥ २४ ॥ एवं हि सागरैः खातको नृपसत्तम ॥ येन कृतमिदं द्वीपं सागरं नृप कथ्यते ॥ २५ ॥ लवणोदाम्समुद्रश्च तोयेन नृप सागरः ॥ यदा पूर्णस्तदा जातो लवणोदो नराधिप ॥ २६ ॥ कृतं च एवं जयति स सम्राडिति कीर्त्यते ॥ ततो गतः स धर्मात्मा कालेन महता दिवम् ॥ २७ ॥ दिलीपे भारमासज्य जगाम तनये स्वके ॥ दिलीपोऽपि समादाय राज्यं पुत्रं भगीरथम् ॥ २८ ॥ जगाम त्रिदिवं राजा वने तप्त्वा महत्तपः ॥ आसाद्य राज्यं स भगीरथोऽपि आनीय गङ्गां तपसा च भूमिम् ॥ २९ ॥ संप्लावयामास जलेन भस्म तत्सागराणां यदुवृन्दनाथ ! ॥ ३० ॥ संप्लाविते भस्मनि राजपुत्रा गङ्गाजलोचेन दिवं प्रयाताः ॥ स्वर्गलोकमासाद्य तथाऽऽश्चर्यं ते वसन्ति ह्यतिऋद्धिभिः समेताः ॥ ३१ ॥ इति श्रीविष्णुधर्मो- त्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ मार्कण्डेय उवाच ॥ राज्यं प्राप्य महातेजा दिलीपेपतनयो नृपः ॥ नरकस्थान् पितॄञ्श्रुत्वा राज्यं न्यस्याशु वृद्धये ॥ १ ॥ गङ्गामाराधयामास तपसा महता तदा ॥ गंधैश्च नियमै राजनप्रणानिनेकस्तथा ॥ २ ॥ दशवर्षसहस्राणि तपस्तेपे भृशं नृपः ॥ अथ गंगा महादेवी प्रसन्नाऽभूत्प्रकम्पा ॥ ३ ॥ भगीरथोऽपि धर्मात्मा वरं लेभे कुतूहली ॥ ततो ह्यैवनदीं देवीं प्रावोचंतं भगीरथम् ॥ ४ ॥ पतन्त्या गगनात्सोढुं मम वेगं वसुन्धरा ॥ ५ ॥ न समर्था यदा तस्मात्तोषयस्वाशु शंकरम् ॥ स हि शक्तः पतंत्या मे वेगं सोढुं नरेश्वर ॥ ६ ॥ एवमुक्त्वा गयो देवी तदान्तर्धानमिक्ष्वरी ॥ भगीरथोऽपि धर्मात्मा तपस्तेपे सुदारुणम् ॥ ७ ॥ आराधनायं देवस्य शङ्करस्य महात्मनः ॥ तपसोऽन्ते महातेजा दृष्टवाश्चागदीशश्वरम् ॥ ८ ॥ देवदेव उवाच ॥ तपसोम्रेण ते राजन्
१ 'तं देशं' इति ख० ।