विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 72, कुल 1001 में से
संदर्भ में पढ़ेंप्रसन्नोऽस्मि यथेप्सितम् ॥ ददामि ते यतो भक्तिं पितॄणां चाक्षयं यशः ॥ ९॥ मार्कण्डेय उवाच॥ एवमुक्तस्तु देवेन पूजयित्वा महेश्वरम् ॥ जगाम गङ्गां मनसा राजा पूर्णमनोरथः ॥ १०॥ शङ्कराधिष्ठितं ज्ञात्वा नृपतेश्च चिकीर्षितम् ॥ पपात गगनाद्गङ्गा तदा राजीवलोचन ! ॥ ११॥ गङ्गायाः पतनं ज्ञात्वा ब्रह्मा ते देशमागताः ॥ यमेन्द्रवरुणाद्रेन्द्रवान्पुरस्कृत्यामितौजसः ॥ १२ ॥ ऋषयो नागगन्धर्वाश्चारणाश्चोरगाः ॥ सुपर्णकिन्नरगणास्तथैवाप्सरसां गणाः ॥ १३ ॥ विमानशतसंबाधं तदभून्नभस्तलम् ॥ प्रकीर्यमाणं कुसुमैर्देवगणाविराजितम् ॥ सुप्रभाभिनिर्दिश्यं तदाभरणभासुरम् ॥ १४॥ सुगन्धि चारु पवनं सुरतूर्यनिनादितम् ॥ नभस्तलस्य मध्येन पपात गगनान्नदी ॥१५॥ विशामि भित्त्वा पातालं स्रोतसा गृह्य शङ्करम् ॥ इत्येवं दुष्टभावा सा पपात हरमूर्द्धनि ॥१६॥ ज्ञात्वा क्रूरमभिप्रायं देव्या देवः पिनाकधृत् ॥ जटाकलापे तां देवीं तिरश्चक्रे चतुर्मुखः ॥१७॥ बभ्राम सा तिरो- भूता तत्रैव रुचिरे नदी ॥ तस्याः पतन्त्या ये केचिद्विन्दवः क्षितिमागताः ॥ १८ ॥ तैः कृतं पृथिवीपाल तदा विन्दुसरः शुभम् ॥ देवीपि दृष्ट्वा राजानं क्षुधया व्याकुलेन्द्रियम् ॥ १९॥ तत्याज तां तदा शीघ्रं जटाग्रेण महेश्वरः ॥ २०॥ धृतगंगो जगामाथ ततोऽन्तर्धानमीश्वरः ॥ महेशेणशिरोधृता प्रविष्टा च सरः शुभम् ॥ २१॥ तस्माद्विनिःसृता भूयः सप्तधा देवनिम्नगा ॥ ह्लादिनी ह्लादिनी चैव प्लावनी चेति प्राच्यगाः ॥२२॥ सीताचक्षुश्च सिन्धुश्च प्रतीच्याभिमुखा गताः ॥ दक्षिणेन तथा गंगा भगीरथपथाऽनुगा ॥ कचिद्वेगेन महता क्वचिन्मन्दविसर्पिणी ॥ २३ ॥ क्वचित्फेनकुलाजला कचिदावर्तमालिनी ॥ कचिद्भस्मोरुशद्बोधा निशङ्का च तथा क्वचित् ॥ २४ ॥ क्वचिद्धंसपदाध्माता चक्रवाकयुगा क्वचित् ॥ ऊर्मिमालाकुलाजला कुसुमोत्करमण्डिता॥ २५॥ जलसत्त्वशताकीर्णा सुसिद्धसुखस्रवा ॥ अमृतस्वादुसलिला ह्यसंमर्शनिर्मला ॥ २६ ॥ विष्णुपादभ्रष्टगोत्या सर्वपात- कनाशिनी ॥ एवं संप्राप्य सा विंध्यं प्रविष्टा पूर्वसागरम् ॥ २७॥ सगरेण समासाद्य पातालं भीमदर्शनम् ॥ प्लावयामास तद्भस्म सागराणां महात्म- नाम्॥२८॥ भस्मनि प्लावितं सर्वं गतास्ते मार्गं दिवम् ॥२९॥ एवं भर्गं देवनदी प्रयाता सुपुण्यतोया ऋषिसंघजुष्टा ॥ महाप्रभावा नृप जह्नुकन्या विशेषपूता त्रिदिवप्रयाणे ॥ ३०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरणं नामैकोनविंशोऽध्यायः॥ १९॥ वज्र उवाच ॥ भागीरथित्वं गङ्गात्वं देवनद्या मया श्रुतम् ॥ किमर्थं जाह्नवी लोके कथ्यते सागरङ्गमा ॥ १ ॥ मार्कण्डेय उवाच ॥ पञ्चालस्याऽऽसिद्विषयो मध्यदेशे महीपते ॥ स्वधर्मकर्मनिरतैर्युतो वर्णाश्रमैः सदा ॥ २ ॥ महोदयं पुरं तत्र कुशनाम्नेन निर्मितम् ॥ सर्वसम्पत्समाकीर्णं कान्यकुब्जेति विश्रुतम् ॥ ३ ॥ तस्मिन्नभून्नृपालो जह्नुः परमधार्मिकः ॥ यस्य कीर्तिरमला कीर्तिब्रह्माण्डं व्याप्य तिष्ठति ॥ ४ ॥ स कदाचिन्महापालो