विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 73, कुल 1001 में से
संदर्भ में पढ़ेंहयमेधमुपाहरत् ॥ दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्नगा ॥ ५ ॥ प्लावयामास वेगेन जलौघैर्दुद्दुतम् ॥ प्लाविते यज्ञवाटे तु राजा गङ्गां तदा ब्रवीत् ॥ ६॥ अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ पिवामि सकलं तोयं तव सागरवल्लभे ॥ ७॥ एवमुक्त्वा पपौ गङ्गा सर्वं मार्गोगतञ्जलम् ॥ तपसा महता राजंस्तथा योगबलेन च ॥ ८॥ दृष्ट्वा गङ्गां निस्तोयां दीनेर्मुनिजनैस्ततः ॥ प्रसादितस्तु गङ्गायै तत्याज श्रवणेन ताम् ॥ ९ ॥ दुहितृत्वे च जग्राह राजा भागीरथीं तदा ॥ तेन सा कथिता लोके जाह्नवी यदुनन्दन ॥ १० ॥ अतीव दर्पिता गङ्गा गङ्गायाः स यदा नृप ॥ यशोऽर्घ्यं प्लावयामास यज्ञवाटं तदानघ ॥११॥ एवं विलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ॥ हिमाचलब्याहृतितन्तुरूजा मञ्जुद्वपन्ती वरदा विशोका ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः ॥ २० ॥ वज्र उवाच ॥ गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ॥ तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन ! ॥ १ ॥ मार्कण्डेय उवाच ॥ स्वायम्भुवेऽन्तरे पूर्वं चत्वारो देवतागणाः ॥ जयास्याश्चाजितास्याश्च शुक्राख्याश्च प्रकीर्तिताः ॥ २ ॥ तेषां वभूव देवेन्द्रो विश्वसृग्लोकपूजितः ॥ आसीत्पुलोमस्तस्यैव सुरा घोरस्तदा दायाद्वान्धवाः ॥ ३ ॥ वभूव राजा तेषां च वाष्कलिर्नाम नामतः ॥ येन विक्षिप्य शक्रन्तद् राज्ञं तदा वलात् ॥ ४ ॥ हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ॥ ब्रह्मापि शक्रमादाय जगाम शरणं हरिम् ॥ ५ ॥ निवेद्यामास तदा देवेन्द्रस्य पराङ्मुखम् ॥ वाष्कलेर्विनयञ्चैव सर्वं ब्रह्मा शुभचक्षुषेः ॥ ६ ॥ श्रीभगवानुवाच ॥ ब्रह्मन्मत्त्यारिहरिष्यामि राज्यमस्य शतक्रतोः॥ दिवि देवेषु धर्मात्मन्विभ्रुता भव मा चिक्षुम् ॥७॥ अहं वामनरूपेण प्रयास्ये वाष्कलिं नृपम् ॥ मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतुं देवराट् ॥ ८ ॥ लोकत्रयं मम दत्तं त्वया विक्षिप्य वाष्कले ॥ तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ ९ ॥ अतीव ह्रस्वगात्रस्य वामनस्याल्प मा चिरम् ॥ एवमुक्तस्तु भक्तेण तदा दाता क्रमत्रयम् ॥ १० ॥ मार्कण्डेय उवाच ॥ ॥ इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ॥ देवोऽपि वामनो भूत्वा प्रयातो यत्र वाष्क लिः ॥ ११ ॥ वाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ निरीक्ष्य तं यथाकाममकुर्व्वद्बुद्धिभिर्वृतः ॥ १२ ॥ एतस्मिन्नेव काले तु शक्रस्तं देश माययौ ॥ पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य वाष्कलिः ॥ १३ ॥ किमागमनकश्चार्ये ते तमुवाच प्रहृष्टवत् ॥ अत्याश्चर्य्यमिदं मन्ये तवागमन कारणम् ॥ १४ ॥ शक्र उवाच ॥ लोकत्रयं मेऽपहृतं विक्रमेण तु वाष्कले ! ॥ तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ १५ ॥ अतीव ह्रस्वगा त्रस्य वामनस्यास्य पार्थिव ॥ भूमिभागे तु पारक्ये वस्तुं न त्वमुत्सहे॥ १६॥ वाष्कलिर्कुरुवाच ॥ क्रमत्रयं वामनक्रे देवराज कृतंशुभम् ॥ तत्रास्त्व