भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 74, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 74

वि० ध० | प्र० सं० अ० ३२ ॥ १२ ॥ | ॥ १२ ॥

मुदितः प्रातः सुखी सुरपते भव ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तो वाकलिना त्यक्त्वा रूपं तु वामनम् ॥१८॥ हरिविव्रद्धे लोकान्देवानां हितकाम्यया ॥ ब्रह्मलोकं ततो गत्वा........... ॥ देवस्य वामश्रवणो निर्विक्षो दानवस्तये ॥ १९ ॥ ततः क्रमं स प्रथमं ददौ सूर्ये जग- त्पतिः ॥ द्वितीयं च ध्रुवे देवस्तृतीयं च यादव् । ॥ २० ॥ ब्रह्माण्डं ताडयामास हासंशूर्णेन केशवः ॥ ब्रह्माण्डस्ताडितस्तेन छिद्रुतामग- मत्प्रभो ॥२१॥ ब्रह्माण्डबाह्यतोयेन शतयोजनामसावृतम् ॥ तेनच्छिद्रेण ततोयं विवेशाण्डं महीपते ॥ २२ ॥ अंगुष्ठाग्रक्षतादण्डात्प्रविशद्वै जलं शुचि ॥ प्राप्ता देवनदीत्वं तु सा तु विष्णुपदी नदी ॥ २३ ॥ देवनद्या तया व्याप्तं ब्रह्माण्डं सकलं नृप ! ॥ विभूतिमभिमाद्भागं सर्वानुग्रहकाम्यया ॥ २४ ॥ वामनेन समाक्रान्ताः सर्वे लोका यदानघ ! ॥ असुरैस्ते तदा त्यक्ता देवानां सत्यवान्धवैः ॥ २५ ॥ पातालञ्च यदा तेन नाक्रान्तं हरिमेधसा ॥ असुरैस्तेस्तदा घोरैरुरुधे यदुनन्दन ! ॥ २६ ॥ देवोऽपि हृत्वा त्रैलोक्यं जगामादर्शनं तदा ॥ पातालनिलयञ्चापि सुखमास्ते स वाकलिः ॥ २७॥ शक्रोऽपि पालयामास विपाश्चैष्टुवं तदा ॥ इमं त्रिविक्रमं नाम प्रादुर्भावं जगद्गुरोः ॥ २८ ॥ गङ्गांसंभवसंयुक्तं सर्वकिल्विषनाशनम् ॥ २९ ॥ तेनेव देवदेवेन प्रातं वैश्ववन्तेऽन्तरे ॥ भूयो लोकास्त्रयः क्रान्ताः पदा मयमितो नृप ॥ ३० ॥ अनेन कारणेनोक्ता गंगा विष्णुपदी नृप ॥ यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥३१॥ गंगासमुत्पत्तिरियं मयोक्ता श्रुतेव यां मुञ्चति सर्वपापम् ॥ पापेर्विपि- ष्टोऽपि नरो त्वंग साधुनरस्तु त्रिदिवं प्रयाति ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे नार्कण्डेयवज्रसंवादे त्रिविक्रमोपाख्यानं नामैकविंश- तितमोऽध्यायः ॥ २१ ॥ वज्र उवाच ॥ ब्रह्मन्विष्णुपदी गंगा त्रैलोक्यं व्याप्य तिष्ठति ॥ यथा तथा भृगुश्रेष्ठ ममैवं प्रर्कतय ॥ १ ॥ मार्कण्डेय उवाच ॥ प्रविश्य देवी ब्रह्माण्डं विष्णुलोकमुपागता ॥ ब्राह्मीं सभां प्लावयित्वा तपोलोकमुपागता ॥ २ ॥ जनलोकं गता तस्मान्महर्लोकं ततो गता ॥ स्वर्गलोकं ममाभाव्य प्रविष्टा चन्द्रमण्डलम् ॥ ३ ॥ चन्द्रमण्डलविभ्रष्टा भुवर्लोकमुपागता ॥ आकाशगंगा कथिता तत्र सा. गति- वर्धिनी ॥४ ॥ तस्यास्तु दृश्यते पन्थाः सततं व्योम्नि निर्मले ॥ आकाशगंगांमध्ये सा मगे निपतिता गिरौ ॥ ५ ॥ मरुभ्यश्चाङ्गध्वनन्ती दृश्य- न्ती च तथा क्वचित् ॥ प्रयाता सर्ववर्षाणि द्वीपामिन च महामते ॥६॥ सा तु देवी जया नाम कुर्वन्तं दृढामनु ते ॥ तेभ्यः शान्ता च मांर्धी च द्विधा गंगा विनिःसृता ॥ ७ ॥ ज्वाला च मुगमन्दा च स्मृता हैमवती शुभा ॥ पुण्डरीका पयोदा च रम्यं वर्षं निगद्यते ॥ ८ ॥ भद्र-


१ 'माध्वी' इति ख० ।