विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 75, कुल 1001 में से
संदर्भ में पढ़ेंच कथिता देवी गान्धर्वी च मनोऽनुगा ॥ इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा ॥ ९ ॥ तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः ॥ केतुमाले च कथिता निर्मला नहुला तथा ॥ १० ॥ मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते ॥ तथा किम्पुरुषाख्ये तु रम्या चन्द्रवती शुभा ॥ ११ ॥ इन्द्रद्युम्नपयोदा सा काशिका मतिपावनी ॥ मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी ॥ १२ ॥ नागद्वीपे नागवती सौम्ये सोमप्रभा तथा ॥ रुद्र- लोकं ततः प्राप्ता ब्रह्मलोकं ततो गता ॥ १३ ॥ गान्धर्वी चैव गन्धर्वे वारुणे वरुणह्रदा ॥ ह्लादिनी ह्लादिनी चैव पुण्यतोया च वार्षिणी ॥ १४ ॥ सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता ॥ अपरान्विषयान्सर्वाञ्छीवरांलोपिकांस्तथा ॥ १५ ॥ ओष्ठप्रावरणांस्तांश्चकर्णप्रावरणान्स्तथा ॥ कालोदपान्विकर्णांश्च ह्लादिनी तु निषेवते ॥ १६ ॥ इन्द्रद्युम्नसुरः पुण्यसुपार्श्वान्गङ्गाज्जायत ॥ तथा ^१खर्पन्दान्शेनान्यवस्त्रांश्चेङ्कुपदानपि ॥ १७ ॥ तज्ञा- नकामतं चैव ह्लादिनी तु निषेवते ॥ दरदाञ्छुहोडांश्चैव काश्मीरान्शबरान्सुकुरुन् ॥ १८ ॥ गान्धारान्बुरदांश्चामीरान्कृप्वन्भिमरोरवान् ॥ शिवपर्वां- निन्द्रपूर्वात्सिन्धुतीरगतान्नृपेवते ॥ १९ ॥ देवांन्दैत्यांन्कलिकांश्चान्यान्वार्णिक्किन्नरांस्तथा ॥ विद्याधरांस्तथा नागान्सुपर्णान्वसुमनोहरान् ॥ २० ॥ कलपाग्रामकांश्चैव तन्नारायणाश्रमम् ॥ किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा ॥ २१ ॥ कुरुन्सभारतांश्चैव पुलिन्दांश्चैव भागशः ॥ पाञ्चालान्काश्यरान्वत्सान्मत्स्यान्मागधांस्तांस्ताम्रलिप्तकान् ॥ २२ ॥ सह्योत्तरांश्च वङ्गांश्च तथा श्वावस्तिवासिनः ॥ अङ्गाम्वङ्गांन्सुपुण्ड्रांश्च गङ्गा भावयते शुभा ॥ २३ ॥ ह्लादिनी ह्लादिनी चैव पावनी जाह्नवी तथा ॥ प्रविष्टा सागरं पूर्वं द्वीपेष्वस्मिन्नृपसत्तम ॥ २४ ॥ सीतात्वचुक्षु सिन्धुश्च पश्चिमं नृप- सागरम् ॥ गङ्गाख्यामितस्त्व प्रोक्ता जम्बूद्वीपे भयानघ ॥ २५ ॥ लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु ॥ सुकुमारी कुमारी च सुकृता सेविन्ती तथा ॥ २६ ॥ इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा ॥ शाल्मले त्वथ गोमेदे^२ द्वीपे पुष्करसंज्ञके ॥ २७ ॥ नदीत्वं सा समुत्सृज्य चोदधित्वमु- पागता ॥ तस्मिन्नदीप्रत्रेये नद्यो न सन्ति यदुनन्दन ॥ २८ ॥ उदकान्युद्धिदाय्येव तेषु सन्ति सहस्रशः ॥ एवं भ्रमितलं प्राप्य पाताल कृष्णमृत्ति- कम् ॥ २९ ॥ एकीभूता प्रविष्टा सा भोगवत्यां समीपतः ॥ श्वेतभोंमं गता तस्माद्रक्तभोमं ततो गता ॥ ३० ॥ शिलभोंमं गता तस्माद्धेमकुमभोंमं ततो गता ॥ रुक्मभोमादपि गता रौद्रं तेजस्सुदारुणम् ॥ ३१ ॥ ततोऽपि विलयं गत्वा वाराहं लोकमागता ॥ वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न- वाहिनी ॥ ३२ ॥ च्छिद्रेण तेन सा देवी स्वं योनिं पुनरागता ॥ ३३ ॥ एवं नरेन्द्रेश जगत्समभ्याक्रम्य गंगा सततं स्थिता या ॥ तस्याः प्रभाव
१ 'खरण्डां' इति क० । २ 'गोमेवे' इति ख० ।