भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

हयमेधमुपाहरत् ॥ दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्नगा ॥ ५ ॥ प्लावयामास वेगेन जलौघैर्दुद्दुतम् ॥ प्लाविते यज्ञवाटे तु राजा गङ्गां तदा ब्रवीत् ॥ ६॥ अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥ पिवामि सकलं तोयं तव सागरवल्लभे ॥ ७॥ एवमुक्त्वा पपौ गङ्गा सर्वं मार्गोगतञ्जलम् ॥ तपसा महता राजंस्तथा योगबलेन च ॥ ८॥ दृष्ट्वा गङ्गां निस्तोयां दीनेर्मुनिजनैस्ततः ॥ प्रसादितस्तु गङ्गायै तत्याज श्रवणेन ताम् ॥ ९ ॥ दुहितृत्वे च जग्राह राजा भागीरथीं तदा ॥ तेन सा कथिता लोके जाह्नवी यदुनन्दन ॥ १० ॥ अतीव दर्पिता गङ्गा गङ्गायाः स यदा नृप ॥ यशोऽर्घ्यं प्लावयामास यज्ञवाटं तदानघ ॥११॥ एवं विलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ॥ हिमाचलब्याहृतितन्तुरूजा मञ्जुद्वपन्ती वरदा विशोका ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः ॥ २० ॥ वज्र उवाच ॥ गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ॥ तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन ! ॥ १ ॥ मार्कण्डेय उवाच ॥ स्वायम्भुवेऽन्तरे पूर्वं चत्वारो देवतागणाः ॥ जयास्याश्चाजितास्याश्च शुक्राख्याश्च प्रकीर्तिताः ॥ २ ॥ तेषां वभूव देवेन्द्रो विश्वसृग्लोकपूजितः ॥ आसीत्पुलोमस्तस्यैव सुरा घोरस्तदा दायाद्वान्धवाः ॥ ३ ॥ वभूव राजा तेषां च वाष्कलिर्नाम नामतः ॥ येन विक्षिप्य शक्रन्तद् राज्ञं तदा वलात् ॥ ४ ॥ हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ॥ ब्रह्मापि शक्रमादाय जगाम शरणं हरिम् ॥ ५ ॥ निवेद्यामास तदा देवेन्द्रस्य पराङ्मुखम् ॥ वाष्कलेर्विनयञ्चैव सर्वं ब्रह्मा शुभचक्षुषेः ॥ ६ ॥ श्रीभगवानुवाच ॥ ब्रह्मन्मत्त्यारिहरिष्यामि राज्यमस्य शतक्रतोः॥ दिवि देवेषु धर्मात्मन्विभ्रुता भव मा चिक्षुम् ॥७॥ अहं वामनरूपेण प्रयास्ये वाष्कलिं नृपम् ॥ मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतुं देवराट् ॥ ८ ॥ लोकत्रयं मम दत्तं त्वया विक्षिप्य वाष्कले ॥ तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ ९ ॥ अतीव ह्रस्वगात्रस्य वामनस्याल्प मा चिरम् ॥ एवमुक्तस्तु भक्तेण तदा दाता क्रमत्रयम् ॥ १० ॥ मार्कण्डेय उवाच ॥ ॥ इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ॥ देवोऽपि वामनो भूत्वा प्रयातो यत्र वाष्क लिः ॥ ११ ॥ वाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ निरीक्ष्य तं यथाकाममकुर्व्वद्बुद्धिभिर्वृतः ॥ १२ ॥ एतस्मिन्नेव काले तु शक्रस्तं देश माययौ ॥ पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य वाष्कलिः ॥ १३ ॥ किमागमनकश्चार्ये ते तमुवाच प्रहृष्टवत् ॥ अत्याश्चर्य्यमिदं मन्ये तवागमन कारणम् ॥ १४ ॥ शक्र उवाच ॥ लोकत्रयं मेऽपहृतं विक्रमेण तु वाष्कले ! ॥ तत्राभिशरणार्थाय दीयतां मे क्रमत्रयम् ॥ १५ ॥ अतीव ह्रस्वगा त्रस्य वामनस्यास्य पार्थिव ॥ भूमिभागे तु पारक्ये वस्तुं न त्वमुत्सहे॥ १६॥ वाष्कलिर्कुरुवाच ॥ क्रमत्रयं वामनक्रे देवराज कृतंशुभम् ॥ तत्रास्त्व

वि० ध० | प्र० सं० अ० ३२ ॥ १२ ॥ | ॥ १२ ॥

मुदितः प्रातः सुखी सुरपते भव ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तो वाकलिना त्यक्त्वा रूपं तु वामनम् ॥१८॥ हरिविव्रद्धे लोकान्देवानां हितकाम्यया ॥ ब्रह्मलोकं ततो गत्वा........... ॥ देवस्य वामश्रवणो निर्विक्षो दानवस्तये ॥ १९ ॥ ततः क्रमं स प्रथमं ददौ सूर्ये जग- त्पतिः ॥ द्वितीयं च ध्रुवे देवस्तृतीयं च यादव् । ॥ २० ॥ ब्रह्माण्डं ताडयामास हासंशूर्णेन केशवः ॥ ब्रह्माण्डस्ताडितस्तेन छिद्रुतामग- मत्प्रभो ॥२१॥ ब्रह्माण्डबाह्यतोयेन शतयोजनामसावृतम् ॥ तेनच्छिद्रेण ततोयं विवेशाण्डं महीपते ॥ २२ ॥ अंगुष्ठाग्रक्षतादण्डात्प्रविशद्वै जलं शुचि ॥ प्राप्ता देवनदीत्वं तु सा तु विष्णुपदी नदी ॥ २३ ॥ देवनद्या तया व्याप्तं ब्रह्माण्डं सकलं नृप ! ॥ विभूतिमभिमाद्भागं सर्वानुग्रहकाम्यया ॥ २४ ॥ वामनेन समाक्रान्ताः सर्वे लोका यदानघ ! ॥ असुरैस्ते तदा त्यक्ता देवानां सत्यवान्धवैः ॥ २५ ॥ पातालञ्च यदा तेन नाक्रान्तं हरिमेधसा ॥ असुरैस्तेस्तदा घोरैरुरुधे यदुनन्दन ! ॥ २६ ॥ देवोऽपि हृत्वा त्रैलोक्यं जगामादर्शनं तदा ॥ पातालनिलयञ्चापि सुखमास्ते स वाकलिः ॥ २७॥ शक्रोऽपि पालयामास विपाश्चैष्टुवं तदा ॥ इमं त्रिविक्रमं नाम प्रादुर्भावं जगद्गुरोः ॥ २८ ॥ गङ्गांसंभवसंयुक्तं सर्वकिल्विषनाशनम् ॥ २९ ॥ तेनेव देवदेवेन प्रातं वैश्ववन्तेऽन्तरे ॥ भूयो लोकास्त्रयः क्रान्ताः पदा मयमितो नृप ॥ ३० ॥ अनेन कारणेनोक्ता गंगा विष्णुपदी नृप ॥ यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥३१॥ गंगासमुत्पत्तिरियं मयोक्ता श्रुतेव यां मुञ्चति सर्वपापम् ॥ पापेर्विपि- ष्टोऽपि नरो त्वंग साधुनरस्तु त्रिदिवं प्रयाति ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे नार्कण्डेयवज्रसंवादे त्रिविक्रमोपाख्यानं नामैकविंश- तितमोऽध्यायः ॥ २१ ॥ वज्र उवाच ॥ ब्रह्मन्विष्णुपदी गंगा त्रैलोक्यं व्याप्य तिष्ठति ॥ यथा तथा भृगुश्रेष्ठ ममैवं प्रर्कतय ॥ १ ॥ मार्कण्डेय उवाच ॥ प्रविश्य देवी ब्रह्माण्डं विष्णुलोकमुपागता ॥ ब्राह्मीं सभां प्लावयित्वा तपोलोकमुपागता ॥ २ ॥ जनलोकं गता तस्मान्महर्लोकं ततो गता ॥ स्वर्गलोकं ममाभाव्य प्रविष्टा चन्द्रमण्डलम् ॥ ३ ॥ चन्द्रमण्डलविभ्रष्टा भुवर्लोकमुपागता ॥ आकाशगंगा कथिता तत्र सा. गति- वर्धिनी ॥४ ॥ तस्यास्तु दृश्यते पन्थाः सततं व्योम्नि निर्मले ॥ आकाशगंगांमध्ये सा मगे निपतिता गिरौ ॥ ५ ॥ मरुभ्यश्चाङ्गध्वनन्ती दृश्य- न्ती च तथा क्वचित् ॥ प्रयाता सर्ववर्षाणि द्वीपामिन च महामते ॥६॥ सा तु देवी जया नाम कुर्वन्तं दृढामनु ते ॥ तेभ्यः शान्ता च मांर्धी च द्विधा गंगा विनिःसृता ॥ ७ ॥ ज्वाला च मुगमन्दा च स्मृता हैमवती शुभा ॥ पुण्डरीका पयोदा च रम्यं वर्षं निगद्यते ॥ ८ ॥ भद्र-


१ 'माध्वी' इति ख० ।

च कथिता देवी गान्धर्वी च मनोऽनुगा ॥ इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा ॥ ९ ॥ तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः ॥ केतुमाले च कथिता निर्मला नहुला तथा ॥ १० ॥ मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते ॥ तथा किम्पुरुषाख्ये तु रम्या चन्द्रवती शुभा ॥ ११ ॥ इन्द्रद्युम्नपयोदा सा काशिका मतिपावनी ॥ मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी ॥ १२ ॥ नागद्वीपे नागवती सौम्ये सोमप्रभा तथा ॥ रुद्र- लोकं ततः प्राप्ता ब्रह्मलोकं ततो गता ॥ १३ ॥ गान्धर्वी चैव गन्धर्वे वारुणे वरुणह्रदा ॥ ह्लादिनी ह्लादिनी चैव पुण्यतोया च वार्षिणी ॥ १४ ॥ सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता ॥ अपरान्विषयान्सर्वाञ्छीवरांलोपिकांस्तथा ॥ १५ ॥ ओष्ठप्रावरणांस्तांश्चकर्णप्रावरणान्स्तथा ॥ कालोदपान्विकर्णांश्च ह्लादिनी तु निषेवते ॥ १६ ॥ इन्द्रद्युम्नसुरः पुण्यसुपार्श्वान्गङ्गाज्जायत ॥ तथा ^१खर्पन्दान्शेनान्यवस्त्रांश्चेङ्कुपदानपि ॥ १७ ॥ तज्ञा- नकामतं चैव ह्लादिनी तु निषेवते ॥ दरदाञ्छुहोडांश्चैव काश्मीरान्शबरान्सुकुरुन् ॥ १८ ॥ गान्धारान्बुरदांश्चामीरान्कृप्वन्भिमरोरवान् ॥ शिवपर्वां- निन्द्रपूर्वात्सिन्धुतीरगतान्नृपेवते ॥ १९ ॥ देवांन्दैत्यांन्कलिकांश्चान्यान्वार्णिक्किन्नरांस्तथा ॥ विद्याधरांस्तथा नागान्सुपर्णान्वसुमनोहरान् ॥ २० ॥ कलपाग्रामकांश्चैव तन्नारायणाश्रमम् ॥ किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा ॥ २१ ॥ कुरुन्सभारतांश्चैव पुलिन्दांश्चैव भागशः ॥ पाञ्चालान्काश्यरान्वत्सान्मत्स्यान्मागधांस्तांस्ताम्रलिप्तकान् ॥ २२ ॥ सह्योत्तरांश्च वङ्गांश्च तथा श्वावस्तिवासिनः ॥ अङ्गाम्वङ्गांन्सुपुण्ड्रांश्च गङ्गा भावयते शुभा ॥ २३ ॥ ह्लादिनी ह्लादिनी चैव पावनी जाह्नवी तथा ॥ प्रविष्टा सागरं पूर्वं द्वीपेष्वस्मिन्नृपसत्तम ॥ २४ ॥ सीतात्वचुक्षु सिन्धुश्च पश्चिमं नृप- सागरम् ॥ गङ्गाख्यामितस्त्व प्रोक्ता जम्बूद्वीपे भयानघ ॥ २५ ॥ लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु ॥ सुकुमारी कुमारी च सुकृता सेविन्ती तथा ॥ २६ ॥ इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा ॥ शाल्मले त्वथ गोमेदे^२ द्वीपे पुष्करसंज्ञके ॥ २७ ॥ नदीत्वं सा समुत्सृज्य चोदधित्वमु- पागता ॥ तस्मिन्नदीप्रत्रेये नद्यो न सन्ति यदुनन्दन ॥ २८ ॥ उदकान्युद्धिदाय्येव तेषु सन्ति सहस्रशः ॥ एवं भ्रमितलं प्राप्य पाताल कृष्णमृत्ति- कम् ॥ २९ ॥ एकीभूता प्रविष्टा सा भोगवत्यां समीपतः ॥ श्वेतभोंमं गता तस्माद्रक्तभोमं ततो गता ॥ ३० ॥ शिलभोंमं गता तस्माद्धेमकुमभोंमं ततो गता ॥ रुक्मभोमादपि गता रौद्रं तेजस्सुदारुणम् ॥ ३१ ॥ ततोऽपि विलयं गत्वा वाराहं लोकमागता ॥ वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न- वाहिनी ॥ ३२ ॥ च्छिद्रेण तेन सा देवी स्वं योनिं पुनरागता ॥ ३३ ॥ एवं नरेन्द्रेश जगत्समभ्याक्रम्य गंगा सततं स्थिता या ॥ तस्याः प्रभाव


१ 'खरण्डां' इति क० । २ 'गोमेवे' इति ख० ।

वि० ध०प्र० सं०
॥ १३ ॥अ० २२

श्रवणदशेषं पापं नराणां सद्युपैति शन्तिम् ॥ ३४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गाव्यक्तिर्नाम द्वाविंशतितमो ऽध्यायः ॥ २२ ॥ वज्र उवाच ॥ भगीरथस्य राजर्षेर्वंशमुत्तमपूरुष ॥ त्वत्तोऽहं श्रोतुमिच्छामि गङ्गा येनावतारिता ॥ १ ॥ मार्कण्डेय उवाच ॥ भगीरथसुतः श्रीमान्विश्रुतो नाम धार्मिकः ॥ विश्रुतस्यात्मजः श्रीमान्नाभाग इति विश्रुतः ॥ २ ॥ अम्बरीषस्तु नाभागियुतारिस्तदात्मजः ॥ तत्सुतो ऋतपर्णश्च राजा नलसखो बली ॥ ३ ॥ शर्वकामः सुतस्तस्य सुदासस्तस्य चात्मजः ॥ तस्य मित्रसहः पुत्रः तस्य पुत्रोऽभवत्को नृप ॥ ४ ॥ मूलकस्तत्सुतो राजा महाबुद्धिर्धनेश्वरः ॥ क्षत्रियाणां वधे घोरे रामेण विनिपातिते ॥ ५ ॥ पुरा पितृवधामर्षान्माहामो भार्गवनन्दनः ॥ निःसत्कृत्यः पृथिवीं चक्रे निःक्षत्रियामिमाम् ॥६॥ भगीरथकुलोत्पन्नं मूलकं नाम जघ्निवान् ॥ वज्र उवाच ॥ कथं रामेण वसुधा पुरा निःक्षत्रिया कृता ॥ किमर्थं च महाभाग तन्ममाचक्ष्व पृच्छतः ॥ ७॥ मार्कण्डेय उवाच ॥ सोमवंशसमुत्पन्नो ययातिर्नाम पार्थिवः ॥ तस्यापि संहतः पुत्रो बभूव पृथिवीपतिः ॥ ८ ॥ सहस्रजित्सुतस्तस्य नमजित्तस्य चात्मजः ॥ तस्यापि हैहयः पुत्रः कुन्तिस्तस्यापि चात्मजः ॥ ९ ॥ तस्यापि संहतः पुत्रो महिष्मान्स्तस्य चात्मजः ॥ माहिष्मती कृता येन नगरी सुमनोहरा ॥ १० ॥ भद्रश्रेण्यः सुतस्तस्य दुर्मदस्तस्य चात्मजः ॥ कनकंस्तत्सुतो राजा कृतवीर्यस्तदात्मजः ॥ ११ ॥ अर्जुनस्तनयस्तस्य सप्तद्वीपेश्वरोऽभवत् ॥ दत्तोत्रेयोऽथ भगवाग्विष्णुरूपानुकंप्यपृच्छा ॥ १२॥ आराधय तपसा येन प्राप्तं राज्यं सुदुर्लभम् ॥ तथा बाहुसहस्रं च मतिं धर्मे तथोत्तमाम् ॥ १३ ॥ अधर्मे वर्तमानस्य मरणं च जनार्दनात ॥ युद्धेन पृथिवीं जित्वा धर्मेणावरुधंऽजयन् ॥ १४ ॥ तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ सतोदधिपरीक्षिता शास्त्रेण विधिना जिता ॥ १५ ॥ पातालनगरे शैले वसुधायां रसातले ॥ तस्य पार्थिवसिंहस्य चक्रं न प्रतिहन्यते ॥ १६॥ द्वीपेषु म दि संवेषु खातं खातमथाऽकरोत् ॥ यूपचिह्नानि च तथा बर्ह्री शतशनी रथी ॥ १७ ॥ देशान्तु चान्योणालतदा पश्यन्ति तस्करान्व ॥ १८ ॥ स एव पशुपालोऽभूत्क्षेत्रपालः म् एव च ॥ १८ ॥ स एव वृष्ट्या पर्जन्यो यगित्वार्जुनोऽभवत ॥ स तु बाहुसहस्रेण ज्याघातकठिनत्वचा ॥ १९ ॥ भाति गुष्ममहनश्वन् शार्ङ्गेन्व भास्करः ॥ गक्षसा निर्जितास्तेन तेन बद्धश्च गवणः ॥ २० ॥ जित्वा भोगवती तेन कर्कोटकसुता हता ॥ तम्य बाहुमहस्रेण क्षोभ्यमाणे महोदधौ ॥ भवन्ति लीना निश्चेष्टाः पातालस्था महासुगाः ॥ २१ ॥ मन्दक्षोभचकित्ता अमृतोत्पादशङ्किताः ॥ नतंनिश्चलसर्वाङ्गा भवन्ति च महोरगाः ॥ २२ ॥ दृश्यन्महस्रबाणि तनद्योनि महीक्षिता ॥ द्वीप द्वीपे महाराज धर्मेण महात्मना ॥ २३ ॥ संर्व यज्ञा महाराज तन्मयान्मूरिदक्षिणाः ॥ सर्व काञ्चनवँडूर्याः सर्वं ग्रूपश्च काञ्चनः ॥२४॥ द्विजानां

॥ १३ ॥

परिवेष्टारस्तस्य यज्ञेषु देवताः ॥ स्वयमासन्महाराज स्वयं भगवांस्तथा ॥ २५ ॥ तस्य यज्ञे जगौ गाथा नारदस्तसुमहत्तपाः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ॥ २६ ॥ यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा ॥ २७ ॥ पञ्चाशीतिसहस्राणि वर्षाणां स महीपतिः ॥ सप्तद्वीपेश्वरः सम्राट् चक्रवर्ती बभूव ह ॥२८॥तस्य राज्ञस्तु वसुधा बहुपार्थिवसङ्कुला ॥ भाराक्रान्ता विह्वलिता बभूव पृथिवीपते ॥२९॥तस्य राज्ञो गतान्तैर्बहुभिर्नृपैरितस्ततः ॥ तेजोयुक्तैः समाकीर्णा वसुधा वसुधाधिप ॥ ३० ॥ बहुनागाश्वसङ्कीर्णा बहुगोकुलसङ्कुला ॥ न शक्ता नृपते सोढुं तेजस्तदतिमात्रमुम् ॥ ३१ ॥ ज्वालाविह्वलिता भूः श्रान्ता खिन्ना नाकमुपागता ॥ ३२ ॥ एवं प्रभावे नरदेवनाथे पृथ्वीं समग्रां परिपालयमाने ॥ भारेण सन्ना पृथिवी जगाम महेन्द्रलोकं मुनिदेन्दुजुष्टम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽर्जुनोपाख्यानं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ वज्र उवाच ॥ देवकार्यं विना विष्णोरुत्पत्तिर्यति महीतले ॥ १॥ कस्मिन्काले^१ बभूवासौ दत्तात्रेय इति श्रुतः ॥ १ ॥ मार्कण्डेय उवाच ॥ शुक्रेण च यदा वृत्रो हतो वीर्योपबृंहितः ॥ २ ॥ तस्मिन्हतेऽसुरे त्वद्य विष्णुरूपमवासृजत् ॥ तपस्यन्तं च तं गत्वा जघान च शचीपतिः ॥ ३॥ तस्मिन्हते ब्रह्महत्या जगाम वलसूदनम् ॥ ब्रह्महत्याभिभूतस्तु राज्यं त्यक्त्वा त्रिविष्टपे ॥ ४ ॥ मानसे बिसतन्तुस्थो बभूव स पुरन्दरः ॥ राजा कृतः शक्रहीनंर्दैवैस्तु नहुषस्तदा ॥ ५ ॥ सोऽकामयत पौलोमीं शक्रस्य महिषीं प्रियाम् ॥ कालालामपरा प्राह शक्रं देवी तथा शची ॥ ६ ॥ अपूर्वेण तु यानेन समीपं मे सुरेश्वर ॥ ऋषिभिः शिविकां युक्ता स जगाम तदन्तिकम् ॥ ७ ॥ शिबिकां वहमानं तु मन्दमन्दं द्विजोत्तमम् ॥ पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः ॥ ८ ॥ अगस्त्येन तथा शप्तो भव सर्पो महीपते ॥ युधिष्ठिरेण संगत्य शापमोक्षमवाप्स्यसि ॥ ९ ॥ एवमुक्ते तु मुनिना सर्पत्वं स जगाम वै ॥ नष्टे शके च पतिते नहुषे पापनिश्चये ॥ १० ॥ रजस्तमोभ्यामाक्रान्ता बभूवद्विदशालयाः ॥ ततः प्रवृत्ता लोकेऽस्मिन्ननावृष्टिः सुदारुणा ॥ ११ ॥ दुर्भिक्षमरकौ चोभौ विपण्णास्त्रिदशालयाः ॥ नद्योत्सन्नमहापूर्णा निर्वषट्कारमङ्गलम् ॥ १२ ॥ अनावृष्टिहतं सर्वं बभूव वसुधातलम ॥ क्षुत्क्षाममातृप्रायं विनष्टपशुसञ्चयम् ॥ १३ ॥ कपाला- स्थिसमाकीर्णं केशशैवालसंकुलम् ॥ क्षुध्रुभग्नद्विजगणैः क्रव्यादेरितसंकुलम् ॥ १४ ॥ निर्गन्धिपुष्पाकीर्णं शून्यप्रायं विभीषणम् ॥ क्षुत्क्षामभूतसङ्घाभ्यां विनिवृत्तविपाकपथम् ॥ १५ ॥ प्रनष्टकृषिवातं च दातृमिश्च विवर्जितम् ॥ नरकेऽपि महोघोरे निराकन्दैर्जनैर्युतैः^२ ॥ १६ ॥


^१ 'कस्मिन्काले' इति ख० ।
^२ 'जनैर्युतः' इति ख० ।

दुर्लभां निरानन्दं स्कन्धांसकटिकुब्जकैः ॥ इतश्चेतश्च यास्यन्ति दानवेन्द्रैर्विसंकुलम् ॥ १७ ॥ शुष्कतायाशयं भीमं नामशेषमहापगम् ॥ तस्मिन्काले महारोरे चोत्सृष्टनियमा द्विजाः ॥ १८ ॥ आर्य्यावर्त्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ॥ मध्यमदेशं परित्यज्य कुर्वाणाः प्राणधारणम् ॥ १९ ॥ प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ॥ तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः ॥ २० ॥ तदा नष्टेषु देवेषु म्लेच्छी- भूतमभूदिदं जगत् ॥ म्लेच्छीभूते जगत्त्यस्मिन्स्वाहास्वाधाविवर्जिताः ॥ २१ ॥ यथा मत्स्यांस्तथा जाताः सर्वे ते देवतागणाः ॥ क्षुत्क्षामकण्ठैस्त्रिदशैः प्रार्थितश्च जनार्दनः ॥ २२ ॥ शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया ॥ २३ ॥ तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ॥ विस्रंततुगतं शक्रं तस्माल्लप्स्यथ मा चिरम् ॥ २४ ॥ यजतां सोऽश्वमेधेन मामेव सुसमाहितः ॥ अहमेव करिष्यामि विपाप्मानं विडौजसम् ॥ २५ ॥ तत्कृता ब्रह्महत्यां तु चतुर्धा स करिष्यति ॥ २६ ॥ अमेध्यप्रक्षेपके वह्नौ पादेनैकेन यास्यति ॥ तथा चैकेन पादेन ह्यशुचिक्षेपके जले ॥ २७ ॥ पादेनैकेन च तथा सर्वकाले द्रुमोच्छिदम् ॥ रजस्वलासु पादेन तथा चैकेन यास्यति ॥ २८ ॥ अहमेतेन यास्यामि भूतलं सुरकारणात् ॥ नष्टे च भूतले धर्मं स्थाप- यिष्याम्यहं पुनः ॥ २९ ॥ एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ॥ चक्रे सुरगणैः सर्वं राज्यं चावाप वृत्रहा ॥ ३० ॥ शक्रेण नित्यं विसतन्तु- गेन ध्यातो महात्मा हरिरप्रमेयः ॥ हत्यापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क- ण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥ मार्कण्डेय उवाच ॥ ब्रह्मणोऽङ्गिराः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः ॥ प्रभाकरस्तस्य सुतः पितामहसमो गुणैः ॥ १ ॥ स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ तमोभिभूते तपसा प्रभा येन विवर्धिता ॥ २ ॥ स्वस्त्य- स्त्विति स होवाच पतमानं दिवाकरम् ॥ वचनात्तस्य ब्रह्मर्षेर्न पपात दिवो महीम् ॥ ३ ॥ आत्रेयाणि गोत्राणि यश्चकार महायशाः ॥ यज्ञोपवित्रवनं वाप्यनुसृष्टवान् ॥ वेदानध्यापयामास ब्राह्मणांश्च श्रुतान्वितान् ॥ ४ ॥ दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ ॥ ५ ॥ दत्तोऽत्रेयत्वमगमत्तन्मयोऽभवत् ॥ ६ ॥ अभिवर्द्धति चाधर्मे सत्ये नष्टे द्रुते¹ स्थिते ॥ प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ ७ ॥ हयास्याः शक्तया वेदाः प्रत्यानीता हि तेन वै ॥ चातुर्वर्ण्यमसंकीर्णं कृते तेन महात्मना ॥ ९ ॥ दुर्भिक्षमङ्गे नष्टे तस्मिन्त्राते महीतले ॥ प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥ १० ॥ भूय एव


¹ 'विद्रुते' इति ख० ।
² 'प्रवर्त्तितम्' इति क० ।

जगद्वृत्तं यथापूर्वं जगत्पते ॥ ११ ॥ यजत्सु विप्रमुख्येषु तपस्याभिरतेषु च ॥ वार्तासक्तैषु वैश्येषु शुश्रू- षून्वन्त्यजेषु च ॥ १२ ॥ मुदितेषु च लोकेषु त्रैलोक्ये देवसादृते ॥ विष्णोर्भागे क्षितिर्गते कार्त्तवीर्यार्जुनस्तदा ॥ १३ ॥ दशवर्षसहस्राणि कृत- वान्दुश्चरं तपः ॥ प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति ॥ १४॥ आराधयामास तदा दत्तं शुश्रूषया नृप ॥ तेन दत्तवरश्चक्रे स राज्यं हतकण्टकम् ॥ १५॥ आर्यावर्तंषु निर्मलेंच्छा कृता तेन वसुन्धरा ॥ तस्मिन्त्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः ॥ १६ ॥ संप्रानैर्भृमिपालत्वं वसुधा भारपीडिता ॥ नाकपृष्ठं ययौ शीघ्रं शक्रदर्शनलालसा ॥ १७॥ वत्र उवाच ॥ आसाद्य लोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रः ॥ किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा क्षितिं यच्च चकार शक्रः ॥ १८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानं नाम पञ्चविंशतितमोऽध्यायः ॥२५॥ मार्कण्डेय उवाच ॥ नाकपृष्ठगता भूर्मिददर्श मधुसूदनम् ॥ रत्नहासनगतं वीरं श्रिया परमया युतम् ॥ १ ॥ उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ॥ आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः ॥ २ ॥ रुद्रैर्गन्धर्व्वरक्षोभिश्च नासत्यैश्च महात्मभिः ॥ ऋषिभिः सूर्य्यसंकाशैस्तपसा द्योतितप्रभैः ॥ ३ ॥ गन्धर्व्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ॥ किरीटिनमतंसंञ्च्छन्नं हारकेयूरभूषितम् ॥ ४ ॥ रत्नाङ्गदकृतोद्द्योत रत्तगर्भासमप्रभम् ॥ हारिचन्दन- दिग्धंगं नीलाम्बरधरं हरिम् ॥ ५ ॥ तिर्यग्गलत्तकटाक्षाद्द्ण्या तृतीयिन विराजितम् ॥ पश्यन्तं सर्वलोकस्य सततं धर्म्मकर्म्मणी ॥ ६ ॥ विष्णोर- चिन्तयम्मङ्गं तत्रैलोक्यस्यैव कारणम् ॥ गोब्राह्मणहितासक्तं ददृर्श वसुधा तदा ॥ ७ ॥ सन्ध्यासह समासोनं श्रिया चैव जनार्द्दनम् ॥ तं ववन्दे वसुमती दैत्यभारप्रपीडिता ॥ ८ ॥ पाद्यार्थ्याचमनीयैार्थैः शक्रोऽपि वसुधां तदा ॥ पूजयित्वाँ सुखासीनां पप्रच्छागमनक्रियाम् ॥ ९ ॥ पृष्टा शके्रण सा देवी वक्तुं समुपचक्रमे ॥ १० ॥ पृथिव्युवाच ॥ अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ॥ तवायत्ता महाभाग त्वं हि देवेश्वरो विभुः ॥ ११ ॥ त्वयि भारं समासज्य वेदाभ्यासनतत्परः ॥ सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः ॥ १२ ॥ त्वयि भारं समासज्य देवदेवोऽपि शङ्करः ॥ आस्ते तपस्याभिरतः कैलासे पर्वतोत्तमे ॥ १३ ॥ त्वयि भारं समासज्य सुखं स्वपिति केशवः ॥ क्षीरोदाशयने नित्यं शेषपर्य्यङ्कऽमा स्थितः ॥ १४ ॥ पितामहस्य यत्तेजः केशवस्य शिवस्य च ॥ स्थितं तत्सकलं तुम्यं त्वं हि सर्वमयोऽरिहा ॥ १५ ॥ त्वया विनिहतो वृत्रो बल- श्चापि निषूदितः ॥ त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः ॥ १६ ॥ ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्त्तिविनाशनः ॥ सहस्रनयनः


१ ‘जपत्सु’ इति ख० । २ ‘स्थितिगते’ इति क० । ३ ‘पूरयित्वा’ इति ख० । ४ ‘वक्षश्च त्रित्यूद्धितः’ इति क० । ५ ‘निपातिताः’ इति क० ।

वि० ध० ॥ १५॥

प्र० खं० अ० २७ ॥ १५॥

श्रीमान्वज्रपाणिर्जगत्प्रियः ॥ १७ ॥ तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥ त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ॥ १८ ॥ वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥ वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ॥ १९ ॥ ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥ त इमे दनु सम्भूताः कर्तुंवीर्यं समाश्रिताः ॥ २० ॥ तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥ सोऽहं भ्रातृसमाक्रान्तो त्वामद्य शरणं गता ॥ २१ ॥ ॥ शक्र उवाच ॥ जानामि भार्गवश्रेष्ठ ! त्वां दैत्येभ्यो वरवर्णिनि ॥ तेषां गत्वा वधोपायमहं प्रक्ष्यास्म्यि वेधसम् ॥ २२ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा त्रिदशप्रधानः पृथवीसमेतो गुरुणा च राजन् ॥ ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥ ॥ छ ॥ ॥

॥ मार्कण्डेय उवाच ॥ ॥ ते समेताः समासाद्य पितामहसभां शुभाम् ॥ पद्मासनगतं तत्र ददृशुः पद्मसंभवम् ॥ १ ॥ पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥ चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ॥ २ ॥ चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥ कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ॥ ३ ॥ स्वयंभुवमचिन्त्यं च सर्वसंहारकारकम् ॥ तं समासाद्य जगती शक्रश्च गुरुणा सह ॥ ४ ॥ ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥

शक्रादय ऊचुः ॥ नमस्ते देवदेवेश सृष्टिसंहारकारण ! ॥ वदन्ते तदाधार यज्ञं यज्ञांग यक्षप ॥ ५ ॥ यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥ प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ॥ ६ ॥ स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥ सर्वभूतेश्वरोत्पत्तौ सर्वभूतेश्वराय च ॥ ७ ॥ अचिन्त्यायऽप्रमेयाय प्रकाशाय महात्मने ॥ त्वमस्य जगतो नाथैस्त्वयि सर्वं प्रतिष्ठितम् ॥ ८ ॥ त्वया विना जगत्यस्मिन्नात्किंचित्त्वन विद्यते ॥ इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरञ्च यत् ॥ ९ ॥ व्यक्ताव्यक्तौ जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥ त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ॥ १० ॥ कलांः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥ कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः॥ ११ ॥ त्वमेव वरदो दाता देवः शुभवचोमुखः ॥ ततः प्रसूतो लोकेऽस्मिन्त्सर्वज्ञा जगत्पति ॥ १२ ॥ भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥ अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ॥ १३ ॥ सनत्कुमारो भगवान्सन्कश्च सनन्दनः ॥ आङ्गीरतिक्ष रुचिः श्रद्धा तया देव विनिर्मिता ॥ १४ ॥


१ 'सर्वतस्त्वममय' इति ख० । २ 'सर्वभूतेश्वरासमे' इति ख० । ३ 'त्वमस्य जगतो नाथ' इति क० । ४ 'नान्यत्किंचिद्वि' इति क० । ५ 'अनेकैर्वा' इति क० । ६ 'ततस्तां चन्' इति क० । ७ 'कालां' इति क० । ८ 'जगत्पर्ता' इति ख० । ९ 'अत्रिश्चैवेतिश्च तया' इति ख० ।

पूर्वात्ते वदनाज्जातमृग्वेददमृतप्रभम् ॥ दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ॥ १६ ॥ पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥ उत्तराद्वदनाज्जात- मथर्वाङ्गिरसं शुभम् ॥ १७ ॥ ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्रियास्तथा ॥ ऊरूभ्यान्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ॥ १७ ॥ विद्युतोऽथ शनिमेघाश्च रोहितेन्द्रधनूंषि च ॥ त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ॥ १८ ॥ स्वयम्भूभगवान्विष्णुर्देवदेवः सनातनः ॥ नाममात्रविभे- देन मोहयस्यखिलं जगत् ॥ १९ ॥ त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥ ते क्षितौ क्षत्रिया जाताः पीडयन्ति तथा क्ष्माम ॥ २० ॥ एवं तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥ वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ॥ २१ ॥ मार्कण्डेय उवाच ॥ एवं पितामहो देवः स्तुतः शक्रेण धीमता ॥ गुरुणा च समेतेन पूजयामास तावुभौ ॥ २२ ॥ पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ॥ ब्रूध्वं देवदेवस्य शङ्करस्य महात्मनः ॥ २३ ॥ मुखकीर्त्तितं सर्वं निवेदयत मा चिरम् ॥ उपायं क्षत्रियवधे युष्माकं कथयिष्यति ॥ २४ ॥ इत्येवमुक्त्वास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥ शक्रेाऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ मार्कण्डेय उवाच ॥ रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ॥ वह्निपुञ्जप्रतीकाशं जटाभारेण राजितम् ॥ १ ॥ सूर्य्यभासा तृतीयेन नयनेन च शोभितम् ॥ भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ॥२॥ व्यालयज्ञोपवीतञ्च नागेन्द्रकृतकङ्कणम् ॥ नीलकण्ठं विशालाक्षं दन्तित्वचमथोरुच्छदम् ॥ ॥ ३ ॥ उमासहायं वरदं सर्वभूतभवोद्भवम् ॥ नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ॥ ४ ॥ नानाचक्रशिरोग्रीवैर्नानायुधविभूषणैः ॥ तं दृष्ट्वा प्रणतः प्राह शक्रस्तु गुरुणा सह ॥ ५ ॥ शक्र उवाच ॥ नमोऽस्तुदेवदेवेश प्रणतार्त्तिनिवारण ॥ नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ॥ ६ ॥ गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित ! ॥ शशाङ्कशतसङ्काश सूर्य्यकोटिसमप्रभ ॥ ७ ॥ वामनैर्जटिलैर्मुण्डैः प्रमथैरीक्ष्यसे सदा ॥ तैश्च सार्धं महादेव रमसेऽमितविक्रम ॥ ८ ॥ घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ॥ तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ॥९॥ स्मरन्ति ये त्वां सततं ते हि यान्ति परां गतिम् ॥ विष्णोरिचिन्त्यभागोऽसि प्रजासंहरणे कृते ॥ १० ॥ सर्वदेवमयो धाता सर्वदेवमयोऽपि च ॥ सर्वदेवरूपस्त्वं


१ 'क्षत्रियाः सूताः इति ख० । २ 'मोहयस्यखिलाम्' इति ख० । ३ 'गुरुणाऽनुसमेतेन 'इति खः । ४ 'निकेतिनं' इति ख० । ५ 'बालचन्द्रेण' इति ख० । ६ 'नानायुधविभूषयैः' इति ख० । ७ 'नमस्ते' इति ख० । १ 'सर्वभूतवरप्रदम्' इति ख० । 'सर्वभूतविभावितः' इति च ख० ।

सर्वभूतविभावनः ॥११॥ सर्वामरगुरुर्देवः सर्वभूतेश्वरेश्वरः ॥ सर्वदेवो महायोगी महाजयो महाबलः ॥ १२॥ महाबुद्धिर्महावीर्यो महातेजा महायशाः ॥ चतुष्पात्सकलो धर्मो वहनस्ते महद्वपुः ॥ १३ ॥ श्मशाने वसतिर्नित्यं चिताभस्मसमाकुले ॥ नृत्यद्भूतकुले भूमर्भूतैः श्वेतानुलेपनः ॥ १४ ॥ भूर्लोकश्चैवं सलिलयजमानोऽनिलानुवायवः ॥ मूर्तयस्ते स्मृता देव यस्मिन्निदं जगत् ॥ १५ ॥ त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥ दैत्यभाराभितप्ताङ्गां पालयस्व नमोऽस्तु ते ॥ १६॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तु शक्रेण देवः शक्रमभाषत ॥ कार्त्तवीर्यमहं त्याजो कर्त्ता निःक्षत्रियां महीम् ॥ १७ ॥ न शक्रास्त्रिदशश्रेष्ठ यतः स्तौतीस्म तद्ध्रुवं ॥ विष्णुदत्तवरो राजा सोढव्यो मम वासव ॥ १८ ॥ तमेव प्रार्थयिष्यामि वरं तस्य महात्मनः ॥ सर्वं यात स्वकं स्थानं त्वंहस्याम्येश्वरेश्वरम् ॥ १९ ॥ चन्द्रमण्डलमध्यस्थं यास्ये वरदमीश्वरम् ॥ विष्ण्वंशेन भागेन दत्तात्रेयोऽभवत्क्षितौ ॥ २० ॥ तेन दत्तवरो राजा पालयत्यखिलां महीम् ॥ २१ ॥ इत्येवमुक्त्वा त्रिदशेश्वरस्तु देवेन साक्षात्त्रिपुरान्तकेन ॥ जगाम शीघ्रं स्वपुरं प्रविष्टो महीं समासाद्य गुरुश्च राजन् ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे दृष्टदर्शनं नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ मार्कण्डेय उवाच ॥ गते सुरेश्वरे देवे शक्रे च सपुरोहिते ॥ जगायाश्च प्रया तायां देवदेवो महेश्वरः ॥ १ ॥ अङ्गुष्ठमात्रको भूत्वा गङ्गातोये न्यमज्जत ॥ सोऽवगाह्य श्लोकगङ्गां गङ्गां सर्वगतां नदीम् ॥ २ ॥ तयोद्यमानः प्रययौ विस्तीर्णं चन्द्रमण्डलम् ॥ नवयोजनसाहस्रो विक्रममो यस्य कीर्तितः ॥ ३ ॥ विन्तामणिगुणश्चैव पणिगाहः समन्ततः ॥ तोयसागर्म्यं पिण्डं पितॄणां धाममव्ययम् ॥ ४ ॥ प्रजानां भावनं सर्वं चाधारं जगतामपि ॥ शृङ्गिणां शृङ्गेषु गमं पक्षात्मकं स्मृतम् ॥ ५ ॥ आलम्बकं कुरुंदकं च तथा चैवावबोधकम् ॥ संधातकं तर्पकञ्च दृष्टिनां देवगोचरम् ॥ ६ ॥ मनःमर्विन्दु याणाञ्च संवेषां नायकं तथा ॥ ओषधींशं जगद्योनिममृतानामयञ्चयम् ॥ ७ ॥ यं पिबन्ति सदा देवाः पितॄन्श्वामृतान्यितः ॥ यश्चामृतः


१ 'महादेवो महायोगी महामायो महाबलः' इति ख० । २ 'तथा दृक्' इति पु० । ३ 'नृत्यद्भुतमितिस्वैभवैर्श्वेतानुलेपन' इति ख० । किञ्चत् तत्रेतीवनेत्याहुः इति केवलं दृश्यतः। ४ 'त्रिदिवश्रेष्ठ' इति ख० । ५ 'सर्वं यात स्वकं स्थानमहमागमनेश्वरं । चन्द्रमण्डलमध्यस्थं याथे वरदमीश्वरं' इति ख० । ६ 'द्विषांवेदन्तं महीं' इति ख० । ७ 'नेते मुक्को' शको तथा 'इन्दुलोहितं' इति ख० । ८ 'तर्पयम्' इति ख० ।

वपुर्वस्य विष्णोर्वा स प्रकीर्तितः ॥ ८ ॥ हव्यकव्याशनो देवो भूतात्मा भूतभावनः ॥ प्रविश्य मण्डलं तस्य १ देवदेवो महेश्वरः ॥ ९ ॥ तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ॥ अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ॥ १० ॥ ३ चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ॥ चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ॥ ११ ॥ कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ॥ आदित्यरश्म्यंशे तमःसंमूर्च्छितं क्षितौ ॥ १२ ॥ क्षपयिष्यति यश्चैवं शीतांशुस्तस्य तेजसा ५ ॥ यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ॥ १३ ॥ तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ॥ ईश्वर उवाच ॥ अग्नीषोमामयं चेतज्जगदेतत्प्रकीर्तितम् ॥ अग्नीषोमौ जगन्नाथौ देवदेवौ जनार्दनः ॥ १४ ॥ तस्यामयी तनुर्या न सोढुं स च दिवाकरः ॥ सौम्या तु या तनुस्तस्य स भवान् स पितामहः ॥ १५ ॥ त्वंयदं धार्यते सर्वं नात्यन्तपश्यामि कारणम् ॥ त्वंविद्म्वे निर्मले पृथ्वी सशैलवनकानना ॥ १६ ॥ शशाकृतिः सदा दृश्या शशलाञ्छ्माऽसि चानघ ॥ तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ॥ १७ ॥ शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ॥ शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ॥ १८ ॥ नक्षत्रनाथस्तत्साम्याद्राजत्वाच्च द्विजेश्वरः ॥ वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ॥ १९ ॥ बर्हथश्चन्द्र इत्येष धातुर्ह्लादौ मनीषिभिः ॥ शुक्लेवे ह्लादकत्वे च शीतत्वे ह्लादनेऽपि च ॥ २० ॥ तेन ते चन्द्रताख्याता सततं धर्मवत्सल ! ॥ सर्वं चाह्लादयान्ती दृक् त्वयि महाद्युते ॥ २१ ॥ प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ॥ दूतोऽथन्त्वमसालाभ त्वया दुस्तवो नृपः ॥ २२ ॥ कार्त्तवीर्यार्जुनो नाम दानवास्तुमुपाश्रिताः ॥ सर्वं क्षत्रिपतां प्राप्यतद्वधे यत्नवान् भव ॥ २३ ॥ त्वया दूतत्वं हन्तुनान्यः शक्नोति कश्चन ॥ अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ॥ २४ ॥ मार्कण्डेय उवाच ॥ शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ॥ उवाच देवदेवेशं प्रणतातिहरं हरम् ॥ २५ ॥ चन्द्र उवाच ॥ इयं शङ्कर सौम्या मे तनुः सुविहिता तव ॥ तस्मादकीर्स्थितां गच्छ सा ते कार्यं करिष्यति ॥ २६ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वित्रिपुरान्तकारी सोमेन राजा परमेश्वरेण ॥ संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडळमाशु राजन् ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डळदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥ ॥ मार्कण्डेय उवाच ॥


१ ‘वपुर्वपुर्देवदेवस्य विष्णोर्वाम्’ प्रकीर्तितः’ इति ख० । २ 'केशवम्' इति ख० । ३ 'चक्षुर्गोलकमध्यस्थः कृष्णशक्तिरिव यः स्थितः' इति ख० । ४ 'तमः संमूर्च्छते' इति ख० । ५ 'तेजसः' इति ख० । ६ 'तस्याग्नेये तनुर्या तु सोढुं सोपि दिवाकरः । सौम्या तुर्या तनुस्तस्य स भवानेव पितामह' इति ख० । ७ 'विश्वम्' इति ख० । ८ 'त्विन्द्रिंवे' निर्मले पृथ्वी सशैलवनकानना । शशाकृतिः सदा दृश्या येन त्वं शशलाक्षणः इति खः । ९ 'स्मतस्त्वं' इति ख० ।

॥ श्रीः ॥

वि० ध०प्र० खं० अ० ३०
॥ १७ ॥॥ १७ ॥

स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥ चन्द्रमण्डलमानेन मानं यस्य च संस्मृतम् ॥ १ ॥ ज्वलज्ज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ॥ २ ॥ तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥ आंगारं सर्वभूतानां जठरस्थं हुताशनम् ॥ ३ ॥
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥ आलोचकः पाचकश्च रोचको भ्राजकस्तथा ॥ ४ ॥ भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्दृग्दक्षिणस्तथा ॥ ५ ॥ सैवं देवादिदेवस्य वासुदेवस्य कीर्त्तिताः ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यं चोपतिष्ठते ॥ ६ ॥
यस्य द्रुतं सदा तेजः सर्वषामेव तेजसा ॥ यस्मादभ्युदयोत्यर्थात्तृप्यासात्तर्पणसम्भवः ॥ ७ ॥ यस्मात्प्रवर्त्तते सर्वं कालचक्रं तथैव च ॥ ओषधीनां परः
पाकः परं यस्मान्न विद्यते ॥ ८ ॥ तन्मण्डलमुपासाद्य कृत्वा रूपं तु तैजसम् ॥ विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ॥ ९ ॥ सोऽङ्गुष्ठमात्रं
पुरुषं दृक्शक्तिमिव वेदितम् ॥ तेजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ॥ १० ॥ रुद्र उवाच ॥ त्वां नमस्यामि देवेशं तेजसां
तु परं निधिम् ॥ आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ॥ ११ ॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान् ॥ अनन्तश्चा
प्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ॥ १२ ॥ मया समर्पितं तेजः सकलं त्वयि भास्कर ॥ मत्तोस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ॥ १३ ॥ अहम्
विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥ अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ॥ १४ ॥ धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यते ॥ १५ ॥ रसानाञ्च तथा दानाद्रविरित्यभिधीयते ॥ आदित्यस्त्वं तथा दानान्निमग्नत्वं मेत्रभावतः ॥ १६ ॥
पुष्णासि सकलोल्लोकांस्तेन पूषा निगद्यसे ॥ धारणाच्च तथा धाता यमनाद्यम तथा ॥ १७ ॥ अंशुस्त्वमंशुधारित्वाद्विसर्गाद्रूपलन्तथा ॥ भवः
सौभाग्यार्च्यत्वात्त्वया सर्वक्रियाकृतेः ॥ १८ ॥ सर्वजन्तुसमत्वाच्च विवस्वानाभिधीयते ॥ क्रमणाच्च तथा विष्णुर्गोभिश्चालिन्दु उच्यते ॥ १९ ॥
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचालितम् ॥ स्थावरैर्जङ्गमश्चैषां भूमिर्भागैर्निपीडिता ॥ २० ॥ कदाचिद्रजनैर्भूमेः सूर्य्यभारेण पीडिता ॥
कदाचित्स्थावरैश्चैव भारितायतिपीडिता ॥ २१ ॥ अद्धैर्न तृप्तौ वृद्धिः परा भास्कर शालिनाम् ॥ दैत्याः क्षियन्तां प्राप्य पीडयन्ति च
मेदिनीम् ॥ २२ ॥ सूर्य उवाच ॥ तव दर्शनकामेन प्रयोग न कृता मया ॥ स्थावरैर्जङ्गमः सर्वं प्रकृतिस्थं वपुर्नयम् ॥ २३ ॥ यथा पूर्वं तथैवैतद् ॥ १७ ॥


१ 'आवासं' इति ख० । २ 'देहं सर्वेषां प्राणिनां तथा' इति ख० । ३ 'सर्वहविर्हिवम्' इति ग० । ४ 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति मु० । ५ 'ञ्चतः' इति कु० । ६ 'उक्तशक्तिरेव' इति ख० । ७ 'अतव्यथाप्रत्ययस्त्वम्' इति ख० । ८ 'भीमत्वाच्चाह्वितान्' इति ख० । ९ 'दूरतस्तेन' इति ख० । १० 'आदित्य' इति ख० । ११ 'संवहन्' इति ख० ।

बाहं करिष्यामि महेश्वर ॥ साम्प्रतं ब्राह्मणो भूत्वा चार्जुनैनैव पादपान् ॥ २४॥ सर्वान्विननाशयिष्यामि शासनेन तथाऽर्जुनम् ॥ वसिष्ठाच्छापजायिष्यामि ततोऽशेन वसुन्धराम् ॥२५॥ मृगेन्द्रो १ करिष्यामि ततो निःक्षत्रियां प्रजाम् ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकारी सूर्येण सद्भक्तिमिवोर्जगतेन ॥ जगाम धाम स्वमसौ विभेति यत्सर्वलोकाज्जगतां प्रधानः ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः ॥ ३०॥ मार्कण्डेय उवाच ॥ द्विजंरूपमास्थाय देवदेवोऽपि भास्करः ॥ माहिष्मतीं ययौ शीघ्रं नगरीं रत्नमालिनीम् ॥१॥ ब्राह्मणं स तत्र ददर्श वीरं कार्तवीर्यार्जुनं नृपम् ॥ यजमानं सुबोद्दण्डं कल्पवृक्षमिवापरम् ॥ २ ॥ पूजितः कार्तवीर्येण ब्राह्मणो नृपमब्रवीत् ॥ ३ ॥ ब्राह्मण उवाच ॥ महारशनं मां जानीहि ब्राह्मणं क्षुधयान्वितम् ॥ प्रयच्छ तस्य मे तृप्तिं त्वमेको हेतुरुत्तम ॥ ४ ॥ अर्जुन उवाच ॥ केनाऽन्नेन २ भवतृप्तिः किमन्नं विदधामि त ॥ तन्ममाऽऽचक्ष्व ३ भगवन् सुच्छेदेन मा चिरम् ॥ ५ ॥ ब्राह्मण उवाच ॥ आदित्यं मां विजानीहि स्थावरान् ४ भोक्तुमुद्यतम् ॥ प्रयच्छ तानि सर्वाणि मम पार्थिवपुंगव ॥ ६ ॥ अर्जुन उवाच ॥ स्थावरं भूगतं दातुं शक्तिर्नाऽस्ति ममाऽनघ ॥ कथं हि स्थावरान् दग्धुं शक्त्या मातृष्यतेजसा ॥ ७ ॥ आदित्य उवाच ॥ रथस्थः पार्थिवश्रेष्ठ शरान्मुंच यदृच्छयां ५ ॥ तेऽहं प्रबलैर्वाजन्मक्षयिष्यामि पादपान् ६ ॥ ८ ॥ तावदेव त्वया कार्यं नृपते शरमोक्षणम् ॥ यावन्न प्रज्वलिष्यामि मुक्तेष्वपि शरेष्वहम् ॥ ९ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा गते सूर्ये कल्पयित्वा रथोत्तम्म् ॥ चिक्षेप स शरानाशु यत्र ७ तत्र द्रुमोत्करम् ॥१०॥ ते क्षित्ता ८ हैहयेशेन शातकोम्भोऽज्ज्वलाः शराः ॥ जज्वलन्नृपशार्दूल ज्वलंतो वने द्रुमान् ॥ ११॥ डुंदुभिखननिर्घोषो विस्फुलिंगगणाकुलः ॥ आलोलोर्चिर्महावेगः सर्वसत्त्वभयंकरः ॥ १२॥ निदहन् वृक्षपुंजानि तप्तकांचनसुप्रभः ॥ ज्वालामाली तदा भाति सर्वतः पावकः क्षितौ ॥ १३॥ वनेषु दह्यमानेषु तापतृष्णादिता मृगाः ॥ जलाशयेषु चित्रेषु गतच्छायाभिक्षेकु च ॥ १४ ॥ दहाहामिस्तदा वृक्षा न्यायाविद्धं १० जगत्पतेः ॥ बभूवाऽथ प्रशांताचिः कृत्वा लघ्वीं ११ वसुन्धराम् ॥ १५॥ न जज्याल तथा ९ वह्निः कार्तवीर्यशरैरवपि ॥ कृतकार्यं तदा गत्वा कार्तवीर्यो दिवाकरम् ॥ १६ ॥ विनिवृत्य रथं पश्चाद्यावन्माहिष्मतीं पुरीम् ॥ स गच्छंस्त्रैवं ददृशे १२ वसिष्ठं सर्वतेजसम् ॥ १७॥ तेन शप्तो


१ 'मृगेन्द्रो करिष्यामि कतु निःक्षां यां प्रजाम्' इति ख० । २ 'केनान्नेन भवान् तृप्येत्' इति ख० । ३ 'तन्ममाऽऽचक्ष्व भगवान् स्वदनेन मा चिरम्' इति ख० । ४ 'ज्वरान्भोक्तुमुद्यतम्' इति ख० । ५ 'यथेच्छया' इति ख० । ६ 'पादपान्' इति ख० ७ 'यत्र' इति ख० । ८ 'ते क्षित्वा हैहयेशेन' इति ख० । ९ 'तथा' इति कः । १० 'यावदिच्छं' इति ख० । ११ 'साध्वीम्' इति ख० । १२ 'सदक्षी' इति ख० ।

वि० पृ० ॥ १८॥

प्र० खं० अ० ३२

वेने दृषे स्वर्कैः १ नृपपुङ्गवः ॥ यस्याच्छित्त्वा वरं दर्भं मम पार्थिवशासन । ॥ १८ ॥ तस्माच्चिच्छेते वाहून् ब्राह्मणः शंसितव्रतः ॥ तेन शापेन विमत्स्य रामः क्षत्रियनन्दनः ॥ १९ ॥ तस्य बाहून्त्वं सर्वं चिच्छेद भृगुनन्दनः ॥ २० ॥ वज्र उवाच ॥ रामस्तु कस्मिन्त्स बभूव वंशे कथञ्च राजास्तु महाबलस्य ॥ चिच्छेद दोर्दण्डवनं सुवीरः सर्वं ममाऽऽचक्ष्व भृगुप्रधान ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वनदाहो नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ सर्ववेदविदांमुख्य ब्रह्मणस्तनयो भृगुः ॥ पौलोम्यां जनयामास च्यवनं भगवान्भृगुः ॥ १॥ ख्यातिजा सुकन्यापि च्यवनाद्बभ्रुवन्दनम् ॥ आत्मवान् दधीचञ्च जनयामास धार्मिकौ ॥ २ ॥ ऋषिपत्नी महाभागा चाऽऽत्म वानस्य नाहुषी ॥ और्वं संजनयामास ऋचीकाप्सरसंजितम् ॥ ३ ॥ येन क्रोधाग्निभूतेन दग्धोऽभिवडवामुखः ॥ तस्य सत्यवती भार्या कौशिकी गाधिनंजा शुभा ॥ ४ ॥ तस्यां संजनयामास पुत्राणां शतमुर्जितम् ॥ जमदग्निश्च वत्तंस श्रेष्ठ मद्भुतमाद्‌भुभौ ॥ ५ ॥ क्षीणां चरुविपर्यासाज्जा मदग्नि रजायत ॥ ६ ॥ वज्र उवाच ॥ कथ्यतान्मे यतो ब्रह्मन्श्वादवस्य च संभवः ॥ सम्भवं जमदग्नेश्च श्रोतुमिच्छामि तत्त्वतः ॥ ७॥ मार्कण्डेय उवाच ॥ भृगूणां हैहयानाञ्च वैरादासीत्सुदारुणम् ॥ घनेहेतोस्तदा पापैर्हैहयैर्भृगवो हताः ॥ ८॥ येऽपि गर्भंगता बालास्तैऽपि तैनिपातिताः ॥ गर्भेष्नु हन्य मानेषु ऋषिः परम्दुःखितः ॥ ९ ॥ अंशं धारयामास गर्भं दीप्तेनतेजसम् ॥ पूर्णे काले तदा बाल ऊरुं भित्त्वा व्यजायत ॥ १० ॥ जात मात्रस्तु चुक्रोध देवतानां महातपाः ॥ हैहयैर्हन्यमानानां बन्धूनां सुमहात्मनाम् ॥ ११ ॥ भवद्भिर्न कृतं त्राणं तस्मात्सर्वान्दहाम्यहम् ॥ तं क्रुद्धं पितरो हन्तुं वारयामासुरोजसा ॥ १२॥ क्रोधः पुत्र न कर्तव्यः स हि शत्रुर्नृणां सदा ॥ वयं सर्वं जितेक्रोधाः क्षत्रियैर्नानिपातिताः ॥१३॥ अस्माकं न वधे शक्ताः क्षत्रिया हैहयाधियाः ॥ एवमुक्तेः पितृगणैश्चक्रेत्वननथानथाऽब्रवीत ॥ १४ ॥ न हि मे शाम्यति क्रोधो युष्मन्निधनका रितः ॥ तस्माद्देवान्प्रणल्प्वह्निहनिनुष्यामि तेजसा ॥ १५॥ एतस्मिन्नेव काले तु महतीनामयमाकुला ॥ जगाम शरणं विष्णुं मर्वभूतभवोद्भवम् ॥ ॥ १६ ॥ श्रीमभगवानुवाच ॥ देवान्प्रति समुत्पन्नं क्रोधमौर्वस्य यच्छुभम् ॥ तं प्रविश्य गमिष्यामि तोयं सर्वं वसुन्धरां ॥ १७॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा वसुधामौर्वं क्रोधं समाविशत ॥ भूत्वा च वडवावक्त्रन्चूर्णगङ्गिनिम्मृतः ॥ १८ ॥ न भ्रातगे भविष्यन्ति पुत्र सर्वे दिवौकसः ॥ ॥ १८ ॥


१ 'यस्मात्त्वा वो दत्तो मया पार्थिवशासन' इति ख० । २ 'और्वं त जनयामास ऋचीकमिति' इति ख० । ३ 'नेने'जा' इति ख० । ४ 'चीर्णा' इति विज्ञानायता' इति ख० । ५ 'कौशल्या' मे ख्या बह्वन्' इति ख० । ६ 'उरणाए' इति ख० । ७ तोयभयाकुला' इति ख० ।

क्रोधश्वाऽयं तव वृथा न भविष्यति पुत्रक ॥ १९ ॥ एवमुक्तस्तु भृगुणा ऋचीकोऽग्निमभाषत ॥ पूर्वोत्तरे समाप्लाव समुद्रे वस पुत्रक ॥ २० ॥ पिबंस्तरौ सदा वेगमम्भसां सुमहाद्युते ॥ अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ॥ २१ ॥ क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशुः ॥ एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ॥ २२ ॥ चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ॥ पीतं मासाष्टकं तोयं जठरे भस्मसात्कृतम् ॥ ॥ २३ ॥ फूत्कृत्य मासांश्चतुरः शिशिराख्ये महीतले ॥ नित्यं हिमोथं सृजति तस्मादपि समीरणः ॥ २४ ॥ हिमाचले पातयति प्रवाहो नाम पार्थिव ॥ एषा तोयाद्धिमोत्पत्तिर्हेमंतौ यस्य संभवः ॥ २५ ॥ बुद्धिक्षयविहीनस्य कथितं तव धार्मिक ॥ २६ ॥ उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ॥ श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥

॥ मार्कण्डेय उवाच ॥ ॥ और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥ वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥ १ ॥ तस्याः परमया भक्त्या भर्ता तोषमुपागतः ॥ उवाच तां वरोराहांतुष्टोऽहं भृगुनन्दनः ॥ २ ॥

॥ ऋचीक उवाच ॥ ॥ वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥ तोषितोऽहं त्वया भद्रे वने शुश्रूषया वरे ॥ ३ ॥

॥ सत्यवत्युवाच ॥ ॥ मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥ पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥ ४ ॥

॥ ऋचीक उवाच ॥ ॥ चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥ यस्य संशनात्पुत्रं त्वं चैव जनयिष्यसि ॥ ५ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥ एकस्मिन्सकलं शांतं तेजश्चक्रे सर्वैष्णवम् ॥ ६ ॥ श्वश्रूयै तं चरुं कृत्वा द्वितीयं स न्यवेशयत् ॥ ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवांश्चरुम् ॥ ७ ॥

॥ ऋचीक उवाच ॥ ॥ अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरूस्तव ॥ अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥ ८ ॥ तथैवोदुम्बरस्याऽपि त्वया राजीवलोचने ॥ ९ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥ १० ॥ ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥ ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥ ११ ॥ श्रेष्ठं तेजसा युक्तश्चरुरेष कृतः शुभे ॥ तस्माच्चरुविपर्यासं मद्यं कुरु मा चिरम् ॥ १२ ॥ अलिङ्गनं विपर्यासं द्रुमयोः क्रियतां तथा ॥ सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥ १३ ॥ संगर्भा स गते काले भर्ता


१ 'समुक्षन् स पुत्रकं' इति ख० ।
२ 'चैत्रमासात्त्मारम्य नित्यमास्ते सुखे जले' इति ख० ।
३ 'हिमाद्यम्' इति क० ।
४ 'संसारजातश्च यथाप्रबुद्धः' इति ख० ।
५ 'तस्याः स परया भक्त्या' इति ख० ।
६ । 'वदे' इति ख० ।
७ 'अश्वत्थे तं चरुं कृत्वा' इति ख० ।
८ 'प्राशभतः' इति ख० ।
९ 'श्वेतेन' इति ख० ।
१० 'सगर्भा चोगते' इति ख० ।

वि० ध० <br> ॥ ११ ॥प्र० सं० <br> अ० १४

वचनमब्रवीत् ॥ १४ ॥ ऋचीक उवाच ॥ ध्रुवं चरुविपर्यासो दुर्मेधश्च त्वया कृतम् ॥ येन त्वमसितापाङ्गि युक्ता क्षत्रियेतेजसा ॥ १५ ॥
ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ॥ मातुरस्ते चारुसर्वाङ्गि तथा क्षत्रियेतेजसा ॥ १६ ॥ कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ॥
क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ॥ १७॥ सत्यवत्युवाच ॥ मातुर्माताकृतमिदं भगवन्कर्तुमर्हसि ॥ क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ॥
॥ १८ ॥ ऋचीक उवाच ॥ एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ॥ पौत्रस्त्ववशं भविता भाव्यमेतद्विधोदितः ॥ १९ ॥ सत्यवत्युवाच ॥
सर्वेश्वरत्वं भगवात्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम् ॥ निर्वार्ततुं नेच्छसि बाढमेवं वदस्व तन्मे यदि ते न गुह्यम् ॥ २० ॥ इति श्रीविष्णुध
र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ ऋचीक उवाच ॥ ब्रह्मोपोढस्त्रिः सुतः सांख्यः
सुतस्तस्यापि चन्द्रमाः ॥ सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः ॥ १ ॥ आयुस्तत्तनयस्तस्य सुवस्तनयस्तस्य च। लेकस्तस्य चात्मजः ॥ २ ॥
पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः ॥ २ ॥ तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ॥ सुव्रतस्तनयस्तस्य चार्कस्तस्य चात्मजः ॥ ३ ॥
तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ॥ महोदयपुरवरे स तु नित्यं कृतालयः ॥ ४ ॥ एतस्मिन्नेव काले तु भृगुः च्यवनमन्वगात्
स्ववंशसंकरं बुद्ध्वा कुशिकेश्यो महायशाः ॥५॥ कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ॥ पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत् ॥६॥
राजन्यक्ष्यामि कार्ये ते यदि शुश्रूषते नृप ॥ सभायेंण च कर्तव्यं रोजञ्छूश्रूषणं त्वया ॥७॥ कुशिक उवाच ॥ स्वमेवेंदं तव गृहं यथेष्टं वद भार्ग
व॥ शक्तितस्तव शुश्रूषां कारिष्ये भार्यया सह ॥८॥ ऋचीक उवाच ॥ गृहोपेतं तं च्यवनं शुश्रूषुरनृपतेःसुतः ॥ पूजयामास मन्तेनं सर्वकामसमृद्धिभिः ॥९॥
बहुसस्यान्दिगन्दणगांश्चयवनो नावबुद्ध्यति ॥ निराहारः सभायंस्तं पर्युपास्ते महीपतिः ॥ १० ॥ अकाले प्राशयेच्चान्नं कदाचिदपि दुर्लभम् ॥
कृतमित्येव तद्राजा निवेदयति सत्वरम् ॥११॥ कदाचिद्बहु भुञ्जीत न भुङ्क्ते दिवसान्वहून् ॥ धनेन च तदाँयेन तप्यमानाम्रे डिजाय् ॥ १२ ॥
कदाचिद्द्बोपयत्येव वह्नि तातग्रहोद्भवम् ॥ कदाचिच्च रथे युक्तं सभायों गजपुङ्गवम् ॥ १३॥ गजमार्गे प्रतोदेन तुदन्वयति यथेच्छया ॥ तच्चाऽऽसौ
हितमेवेदं कर्मणा मनसा गिरा ॥ १४॥ समाचरति यत्नेन भार्गवप्रियकाम्यया ॥ यदा न वृजिनं किंचिदृष्टवान्मन्मथ भार्गव ।। १५ ।। तदा


१ 'ब्राह्मेण तेजसा युक्तः कृतवानस्मि ते चरुः' इति क० । २ 'मातृस्त्वतिकृतमिदम्' इति ख० । ३ 'को हेतुर्हिद' इति ख० । ४ 'रेखे दुर्योध' तथा' इति क० । ५ 'अथयद्वल' इति कु० । ६ 'बहुभूतोऽस्म्' इति ख० ।

तस्य वरं प्रादाद्धरं यन्मनसेप्सितम् ॥ १६॥
च्यवन उवाच ॥
वरं वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजन्संचर्याऽनघया सदा ॥ १७॥
कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ॥ १८ ॥
च्यवन उवाच ॥
एतदेवं ध्रुवं भावि तन्मे वच्यसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति ॥ १९॥
तव वंशकृतोऽस्माकं क्षत्रधर्मा द्विजोत्तमः ॥
भविष्यति नरेन्द्रेदं चैतत्सुविदितं मम ॥ २० ॥
एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वकुलस्य ते ॥
विक्षोभैः क्रोधनार्थं ते मुहुर्ह्यवसं चिरम् ॥ २१॥
विकारो न ततो दृष्टो मया भाव्यर्थनोदितम् ॥
तस्मात्पुत्रस्त्वया प्राप्तो वरमेतत्सुदुर्लभम् ॥२२॥
कुशाश्वो नाम पुत्रस्ते भविताऽतिस्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ॥ २३ ॥
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ॥ २४ ॥
त्रीणां च कुलपर्यासाद्द्विशाखस्य संभवः ॥
अस्मत्सेवानुभावेन निर्वृतो भव पार्थिव ॥ २५॥
यत्ते विनाशितं द्रव्यं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि ॥२६॥
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भार्यां जराशोकविवर्जिताम् ॥२७॥
एतत्सूनृतं च्यवनस्य वाक्यं कस्यास्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता त्रिलोके ॥ २८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥

मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तम ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥ १ ॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोऽन्यानपि पुत्रांस्तु गोत्रकारान्पृथक्पृथक् ॥ २ ॥
गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥ ३ ॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्योपयेमेऽथ रेणुकाम् ॥
पत्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥ ५ ॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मार्त्ता मध्यं प्राप्ते दिवाकरे ॥ ६ ॥
क्रीडार्थं प्रास्यत शरांश्चिरं जमदग्निर्महातपाः ॥
क्षिप्तान्शरांस्तेन रेणुका चारुलोचना ॥ ७ ॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथार्कतप्तां सिकतां दह्यमानाङ्घ्रिपङ्कजा ॥ ८ ॥
पुष्पितस्य च वृक्षस्य छायामासाद्य संस्थिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाऽस्य


१ 'वंशे कृते' इति ख०।
२ 'एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वाकुलस्य ते' इति ख०।
३ 'कुशाश्वनामा' इति ख०।
४ 'ब्राह्मण तेजसा' इति ख०।
५ 'धर्मार्त्तो' इति ख०।
६ 'पुष्पितस्य शरीरस्य' इति ख०।

**वि०ध०** | **प्र०सं०**
--- | ---
**॥ २० ॥** | **अ० ३६**

वपन्यसे ॥ ११ ॥ रेणुकोवाच ॥ अर्काभितापसंतप्ता क्षणमात्रं महाव्रत ॥ अपारयन्ती विश्रान्ता तस्मात्त्वं क्षन्तुमर्हसि ॥ १२ ॥  
॥ मार्कण्डेय उवाच ॥ रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥ जातेरपस्तदा सूर्ये सायकान्धनुषासृजत् ॥ १३ ॥ एत-  
स्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥ श्रीशमागम्‍य तेजस्वी जमदग्निमभाषत ॥ १४ ॥ सूर्य उवाच ॥ स्वभाव एष मे ब्रह्मन्  
यदहं दहनात्मकः ॥ वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥ १५ ॥ पुनस्तेऽहं भविष्यामि त्वय्यासेव द्विजोत्तम ॥ सुकार्यं  
कारिष्यामि लोकानाञ्च हितं महत् ॥ १६ ॥ इयञ्च पत्नी धर्मज्ञा रेणुका तव साम्प्रतम् ॥ छत्रोपानहमेतन्मे गृहीत्वा वर्णविनी ॥ १७ ॥  
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्पदानहौ ॥ मया सृष्टौ जगत्यां स्त्रिस्त्रितयमेव भविष्यतः ॥ १८ ॥ छत्रोपानहयोर्दाने लोके श्रेष्ठं भविष्यति ॥ छत्रोपा-  
नहदानेन नरः स्वर्गं गमिष्यति ॥ १९ ॥ एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥ संपूज्य सूर्य जग्राह सवितुः सकलं वचः ॥ २० ॥ ततः सूर्ये  
गते देवी सूर्यपुत्रा पुरा सती ॥ पुत्रं कनीयसं रामं जनयामास रेणुका ॥ तनयाश्चाभवन्पूर्वे वसुर्विश्वावसुस्तथा ॥ २१ ॥ तेषां जघन्यजो रामो  
विष्णुर्मानुषरूपधृक् ॥ २२ ॥ अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥ हतांश्च मेने दितिजानजातां पीडां नृणां स्वल्पां च सा धरित्री  
॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ मार्कण्डेय उवाच ॥  
अथ बाल्ये समुत्तीर्णे रामो भृगुकुलोद्वहः ॥ शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ॥ १ ॥ एतस्मिन्नेव काले तु गते वनगते तदा ॥ आजगाम  
महातेजा राजा चित्राङ्गदो वनम् ॥ २ ॥ विहर्तुं सह गन्धर्विर्देवराजसमद्युतिः ॥ तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ॥ ३ ॥ जगाम  
मनसा तं सा राजानं कामसन्निभम् ॥ तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ॥ ४ ॥ गताश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ॥  
पुत्रानुवाच तत्क्रूरो वध्यतां जननी स्वका ॥ ५ ॥ ते विचार्य ततः सर्वे मातृगौरवमुत्तमाम् ॥ नैव चक्रुः पितुर्वाक्यं  
ताञ्छशाप स भार्गवः ॥ ६ ॥ यूयं तिर्यक्त्वमधमा नपुंसंज्ञा भविष्यथ ॥ इध्माभारमुपादाय रामो गतिकरः पितुः ॥  
॥ ७ ॥ अथाऽऽश्रममगात्प्रातः पितरं तं समवन्दत ॥ जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ॥ ८ ॥ एवमुक्तस्तु पित्रा तु तद्वाक्यं ॥ १ ॥ २ ॥

---
१ 'सूर्येण' इति ख० । २ 'परं स्वर्गे गमिष्यति' इति ख० । ३ 'मनुपुत्रा' इति क० । ४ 'अनेन' इति क० । ५ 'हतञ्च तेने तन्महे च जन्म नृणाँ मने सुनिर्वृताभूदभूत्त' इति ख० । ६ 'मभवत्' इति ख० । ७ 'प्रथः' इति ख० । ८ 'पितरस्' इति क०

समनन्तरम् ॥ शिरश्चिच्छेद तीक्ष्णेन रामः परशुना तदा ॥ ९ ॥ ततोषोथ पिता तस्य ततो धर्मभृतां वरः ॥ १० ॥ जमदग्नि
रुवाच ॥ स्वच्छन्दमरणं पुत्र तुष्टे त्वं मयि लप्स्यसे ॥ यावच्च वैष्णवं तेजस्त्वयि तिष्ठति पुत्रक॥११॥ तावदेव न ते युद्धे कश्चिज्जेता भविष्यति॥
भविष्यति च धर्मात्मा रामो दशरथात्मजः ॥ रघूवंशे समुत्पन्नो विष्णुर्मानुषरूपधृक् ॥ १२ ॥ यदा समेष्यते तेन तदा वैष्णवंतेजसा ॥ कृतकर्मा
विमुक्तस्त्वं स च युक्तो भविष्यति ॥ १३ ॥ ततः परं त्वया पुत्र न कार्यं शस्त्रधारणम् ॥ आर्तानांत्राणमृते वीर स्त्रीब्राह्मणकृतेऽथ वा ॥ यथेप्सितं
चाऽप्यपरं वरं वृणुष्व पुत्रक ॥ १४ ॥ राम उवाच ॥ गुरुश्रेष्ठ समुत्थानं जनन्याः कथयाम्यहम् ॥ अस्मृतिश्च तथा तस्या भ्रातृणाञ्च • तथा
ऽस्मृतिम् ॥१५॥ जमदग्निरुवाच ॥ एवमस्तु महाभाग तपसा महता तथा ॥ समाराधय देवेशं शङ्करं नीललोहितम्॥ १६॥ मार्कण्डेय उवाच ॥
एवमुक्ते समुत्तस्थौ रेणुका चारुहासिनी ॥ रामस्य भ्रातरः सर्वे सुप्तोत्थाप्तास्तथैव ते ॥१७॥ पित्रा रामस्तथोक्तस्तु हिमवत्प्रचलोत्तमै ॥ तपस्तेपे
महातेजा रुद्राराधनकाम्यया ॥ १८ ॥ एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥ सैंहिकेयभयत्रस्ताः शङ्करं शरणं गताः ॥ १९ ॥
॥ देवा ऊचुः॥ ॥ भगवन् देवदेवेश प्रणतार्तिविनाशन ॥ सैंहिकेयैर्वयं सर्वैः स्थानेभ्योस्त्ववरोपिताः ॥ २० ॥ सैंहिकेयानथाऽऽश्रित्य
दैत्याः शतसहस्रशः ॥ सर्वे वसन्ति सततं तेषां यत्नं वधे कुरु ॥ २१ ॥ ॥ महादेव उवाच ॥ ॥ शृण्वन्तु देवताः सर्वा
दानवा देवकण्टकाः ॥ रामेणाऽहं वधिष्यामि नरबुद्ध्या यतस्तु तान् ॥ २२ ॥ मार्कण्डेय उवाच ॥ गतेषु देवसंघेषु देवदेवः पिनाकधृत् ॥
आहूय भार्गवं राममिदं वचनमब्रवीत् ॥ २३ ॥ महादेव उवाच ॥ सैंहिकेयान्सुदारुणान्सुरांश्चापि पुत्रक ॥ समर्थस्तन्भवान्हन्तुं नाऽन्यः
कश्चन विद्यते ॥ २४ ॥ राम उवाच ॥ अस्त्रग्रामं समर्पं मे प्रपच्छ भगसूदन ॥ येन तान्सुदुराचारान्घातयिष्यामि दानवान् ॥ २५ ॥ महा
देव उवाच ॥ किं तवास्त्रैर्गुरुश्रेष्ठ विष्णुस्त्वं नासि मातुपः ॥ व्यस्त्रास्यादपि न ते शक्तो योद्धुं प्रमुक्तवस्त्वव ॥२६॥ राम उवाच ॥ घातयिष्याम्यहं
सर्वांन्सैंहिकेयान्सुरासदान् ॥ त्रिपुरारे महाभाग त्वदाज्ञापरिवृंहितः ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकेत रामस्त्रिनेत्रप्रतिम
प्रभावः ॥ आदाय तीक्ष्णं परशुं जगाम यत्र स्थितास्ते च रिपुप्रयानाः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामस्य
महेश्वरदर्शनो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एतस्मिन्नेव काले तु काष्ठोदकीः सुदारुणाः ॥ बभूवुः सुमहौ


१ 'समन्ततम्' इति क० । २ 'ततोषोध ततस्तस्य पिता धर्मभृतां वरः' इति ख० । ३ 'गुरुश्रेष्ठं' इति ख० । ४ 'दुर्बुद्ध' इति क० । ५ 'बुद्धात्मान्' इति ख० ।

वि० ध०
॥ २१ ॥
प्र० खं०
अ० ३८

त्पाताः सैंहिकेयनिवेशने ॥ १॥ चचाल शब्दं कुर्वाणा मही सवनकानना ॥ पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात् ॥ २॥ अपसव्येण[^1]
शशाङ्को संछन्नौ तमसा तथा ॥ प्रववर्षुश्च रक्तं भूरिं मेघा भयावहम् ॥ ३॥ शस्त्राणि मुमुचुर्धूममसकृद्द्रुवाहनाः[^2] ॥ इन्द्रचापसवर्णन परि-
वेशेन भास्करः ॥ ४ ॥ परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ॥ सैंहिकेयो विपत्त्योपि साल्वस्य सुमहात्मनः ॥ ५ ॥ आक्रम्य जन्मन-[^3]
क्षेत्रं केतुस्तस्थौ महाग्रहः ॥ ववृस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश ॥ ६ ॥ ध्वांक्षाश्चाऽऽसिक्तबन्धाङ्गो मृगाश्वासन्नसस्त्वनाः ॥
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम् ॥७॥ क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकः॥ शुष्कन्धनसमृद्धोपि न जज्वल हुताशनः ॥८॥
वपूंषि दानवेन्द्राणां न प्राकाशंत चादव ॥ उष्णशीतविपर्यास ऋतूनामप्यदृश्यत ॥ ९ ॥ प्रसुस्तर्बुद्बुदा रक्तं व्यशीर्यन्त च भूषणः ॥ खरा गोषु
व्यजायन्त मार्जारो मूषिकासु च ॥ १० ॥ अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ॥ विना वर्षं महानभ्रः प्रतीपं जग्मुरोजसा ॥ ११ ॥
भयानकाश्चातभयः सुघोरानुत्पातसंबाधान्प्रसमीक्ष्य राजा ॥ साल्वः समाहूय भृगोस्तनूजं दैत्यैः समेतोध्या चक्रे मन्त्रम् ॥ १२ ॥ इति
श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥ ॥ मार्कण्डेय उवाच ॥ ॥
रत्नचित्रां सविपुलां समासाद्य सभां तदा ॥ सिंहिकायतनयः साल्वः शुक्रं वचनमब्रवीत् ॥ १ ॥ साल्व उवाच ॥ दृश्यन्त एते भगवन्नु-
त्पाता घोरदर्शनाः ॥ आचक्षाणा महायुद्धं विनाशमपि दारुणम् ॥ २ ॥ रिपुं न चैव पश्यामो येन युद्धं भविष्यति ॥ सर्वज्ञत्वाद्भवान्वेत्ति
तन्नः प्रब्रूहि पृच्छताम् ॥ ३ ॥ शुक्र उवाच ॥ आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ॥ त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलभत सा ॥ ४ ॥
वरदानकृतोत्साहैर्भवद्विर्विबुधा मख ॥ निर्जितास्त्रिदशाः सर्व शंकरं शरणं गताः ॥ ५ ॥ तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ॥ जमदग्निसुतो
रामः प्रथितो रणकर्कशः ॥ ६ ॥ स चासौ महातेजा मातृपं स तु साम्प्रतम् ॥ मनुष्याश्च भयं घोरं बुद्ध्वन्मज्वाऽसुरमुत्तमम् ॥ ७ ॥ साल्व उवाच ॥
भगवन् सर्वदेवानामीश्वरो मधुसूदनः ॥ तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम ॥ ८ ॥ किमर्थं स महातेजाः शंकरस्य महात्मनः ॥ आज्ञाकारी
भृगुश्रेष्ठ सैंहिकेयं जिघांसति ॥९॥ शुक्र उवाच ॥ यदा यदा हि धर्मस्य म्लानिर्भवति दानव ॥ अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ॥१०॥
कदाचिद्देवदेवेषु कदाचिन्मनुजेषु च ॥ कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम् ॥ ११ ॥ यदा भवति देवेषु देवश्चेष्टेत तदा ॥ तिर्यक्षु च यदा

---

[^1]: 'मध्यमादित्यमण्डलम्' इति ख० ।
[^2]: 'शस्त्राणि मुमुचुर्धूम मसकृच्च च वाहनाः' ख० ।
[^3]: 'जन्मानि' इति क० ।

॥ २१ ॥