विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 84, कुल 1001 में से
संदर्भ में पढ़ें॥ श्रीः ॥
| वि० ध० | प्र० खं० अ० ३० |
|---|---|
| ॥ १७ ॥ | ॥ १७ ॥ |
स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥ चन्द्रमण्डलमानेन मानं यस्य च संस्मृतम् ॥ १ ॥ ज्वलज्ज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ॥ २ ॥ तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥ आंगारं सर्वभूतानां जठरस्थं हुताशनम् ॥ ३ ॥
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥ आलोचकः पाचकश्च रोचको भ्राजकस्तथा ॥ ४ ॥ भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्दृग्दक्षिणस्तथा ॥ ५ ॥ सैवं देवादिदेवस्य वासुदेवस्य कीर्त्तिताः ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यं चोपतिष्ठते ॥ ६ ॥
यस्य द्रुतं सदा तेजः सर्वषामेव तेजसा ॥ यस्मादभ्युदयोत्यर्थात्तृप्यासात्तर्पणसम्भवः ॥ ७ ॥ यस्मात्प्रवर्त्तते सर्वं कालचक्रं तथैव च ॥ ओषधीनां परः
पाकः परं यस्मान्न विद्यते ॥ ८ ॥ तन्मण्डलमुपासाद्य कृत्वा रूपं तु तैजसम् ॥ विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ॥ ९ ॥ सोऽङ्गुष्ठमात्रं
पुरुषं दृक्शक्तिमिव वेदितम् ॥ तेजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ॥ १० ॥ रुद्र उवाच ॥ त्वां नमस्यामि देवेशं तेजसां
तु परं निधिम् ॥ आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ॥ ११ ॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान् ॥ अनन्तश्चा
प्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ॥ १२ ॥ मया समर्पितं तेजः सकलं त्वयि भास्कर ॥ मत्तोस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ॥ १३ ॥ अहम्
विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥ अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ॥ १४ ॥ धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यते ॥ १५ ॥ रसानाञ्च तथा दानाद्रविरित्यभिधीयते ॥ आदित्यस्त्वं तथा दानान्निमग्नत्वं मेत्रभावतः ॥ १६ ॥
पुष्णासि सकलोल्लोकांस्तेन पूषा निगद्यसे ॥ धारणाच्च तथा धाता यमनाद्यम तथा ॥ १७ ॥ अंशुस्त्वमंशुधारित्वाद्विसर्गाद्रूपलन्तथा ॥ भवः
सौभाग्यार्च्यत्वात्त्वया सर्वक्रियाकृतेः ॥ १८ ॥ सर्वजन्तुसमत्वाच्च विवस्वानाभिधीयते ॥ क्रमणाच्च तथा विष्णुर्गोभिश्चालिन्दु उच्यते ॥ १९ ॥
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचालितम् ॥ स्थावरैर्जङ्गमश्चैषां भूमिर्भागैर्निपीडिता ॥ २० ॥ कदाचिद्रजनैर्भूमेः सूर्य्यभारेण पीडिता ॥
कदाचित्स्थावरैश्चैव भारितायतिपीडिता ॥ २१ ॥ अद्धैर्न तृप्तौ वृद्धिः परा भास्कर शालिनाम् ॥ दैत्याः क्षियन्तां प्राप्य पीडयन्ति च
मेदिनीम् ॥ २२ ॥ सूर्य उवाच ॥ तव दर्शनकामेन प्रयोग न कृता मया ॥ स्थावरैर्जङ्गमः सर्वं प्रकृतिस्थं वपुर्नयम् ॥ २३ ॥ यथा पूर्वं तथैवैतद् ॥ १७ ॥
१ 'आवासं' इति ख० । २ 'देहं सर्वेषां प्राणिनां तथा' इति ख० । ३ 'सर्वहविर्हिवम्' इति ग० । ४ 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति मु० । ५ 'ञ्चतः' इति कु० । ६ 'उक्तशक्तिरेव' इति ख० । ७ 'अतव्यथाप्रत्ययस्त्वम्' इति ख० । ८ 'भीमत्वाच्चाह्वितान्' इति ख० । ९ 'दूरतस्तेन' इति ख० । १० 'आदित्य' इति ख० । ११ 'संवहन्' इति ख० ।