विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 83, कुल 1001 में से
संदर्भ में पढ़ेंवपुर्वस्य विष्णोर्वा स प्रकीर्तितः ॥ ८ ॥ हव्यकव्याशनो देवो भूतात्मा भूतभावनः ॥ प्रविश्य मण्डलं तस्य १ देवदेवो महेश्वरः ॥ ९ ॥ तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ॥ अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ॥ १० ॥ ३ चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ॥ चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ॥ ११ ॥ कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ॥ आदित्यरश्म्यंशे तमःसंमूर्च्छितं क्षितौ ॥ १२ ॥ क्षपयिष्यति यश्चैवं शीतांशुस्तस्य तेजसा ५ ॥ यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ॥ १३ ॥ तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ॥ ईश्वर उवाच ॥ अग्नीषोमामयं चेतज्जगदेतत्प्रकीर्तितम् ॥ अग्नीषोमौ जगन्नाथौ देवदेवौ जनार्दनः ॥ १४ ॥ तस्यामयी तनुर्या न सोढुं स च दिवाकरः ॥ सौम्या तु या तनुस्तस्य स भवान् स पितामहः ॥ १५ ॥ त्वंयदं धार्यते सर्वं नात्यन्तपश्यामि कारणम् ॥ त्वंविद्म्वे निर्मले पृथ्वी सशैलवनकानना ॥ १६ ॥ शशाकृतिः सदा दृश्या शशलाञ्छ्माऽसि चानघ ॥ तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ॥ १७ ॥ शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ॥ शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ॥ १८ ॥ नक्षत्रनाथस्तत्साम्याद्राजत्वाच्च द्विजेश्वरः ॥ वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ॥ १९ ॥ बर्हथश्चन्द्र इत्येष धातुर्ह्लादौ मनीषिभिः ॥ शुक्लेवे ह्लादकत्वे च शीतत्वे ह्लादनेऽपि च ॥ २० ॥ तेन ते चन्द्रताख्याता सततं धर्मवत्सल ! ॥ सर्वं चाह्लादयान्ती दृक् त्वयि महाद्युते ॥ २१ ॥ प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ॥ दूतोऽथन्त्वमसालाभ त्वया दुस्तवो नृपः ॥ २२ ॥ कार्त्तवीर्यार्जुनो नाम दानवास्तुमुपाश्रिताः ॥ सर्वं क्षत्रिपतां प्राप्यतद्वधे यत्नवान् भव ॥ २३ ॥ त्वया दूतत्वं हन्तुनान्यः शक्नोति कश्चन ॥ अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ॥ २४ ॥ मार्कण्डेय उवाच ॥ शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ॥ उवाच देवदेवेशं प्रणतातिहरं हरम् ॥ २५ ॥ चन्द्र उवाच ॥ इयं शङ्कर सौम्या मे तनुः सुविहिता तव ॥ तस्मादकीर्स्थितां गच्छ सा ते कार्यं करिष्यति ॥ २६ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वित्रिपुरान्तकारी सोमेन राजा परमेश्वरेण ॥ संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडळमाशु राजन् ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डळदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥ ॥ मार्कण्डेय उवाच ॥
१ ‘वपुर्वपुर्देवदेवस्य विष्णोर्वाम्’ प्रकीर्तितः’ इति ख० । २ 'केशवम्' इति ख० । ३ 'चक्षुर्गोलकमध्यस्थः कृष्णशक्तिरिव यः स्थितः' इति ख० । ४ 'तमः संमूर्च्छते' इति ख० । ५ 'तेजसः' इति ख० । ६ 'तस्याग्नेये तनुर्या तु सोढुं सोपि दिवाकरः । सौम्या तुर्या तनुस्तस्य स भवानेव पितामह' इति ख० । ७ 'विश्वम्' इति ख० । ८ 'त्विन्द्रिंवे' निर्मले पृथ्वी सशैलवनकानना । शशाकृतिः सदा दृश्या येन त्वं शशलाक्षणः इति खः । ९ 'स्मतस्त्वं' इति ख० ।